All kośas › Dharaṇikośa
धरणिकोश Dharaṇikośa
1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)
दान्ताः · दश्लोकः
॥ [दश्लोकः] ॥
पदं स्थानेऽपदेशे च लक्षे स्याद्वाक्यशब्दयोः ।व्यवसाये परित्राणे पादतच्चिह्नवस्तुषु ॥
17.3.1 · p. 97
अनुष्टुप्
मदो हर्षे च गर्वे च नदे शुक्रे कटोदके ।मदः कस्तूरिकायां स्यान्मदः कल्याणवस्तुनि ॥
17.3.2 · p. 97
अनुष्टुप्
पादः स्याच्चरणे रथ्ये गिरेः प्रत्यन्तपर्वते ।तरोर्मूले च पादः स्यात्तुरीयांशे च कीर्तितः ॥
17.3.3 · p. 97
अनुष्टुप्
मन्दाः स्वैराल्परोगार्तमूढाभाग्यशनैश्चराः ।[50] हस्तिजातिप्रभेदे च मन्दो मन्दरतो नरः ॥
17.3.4 · p. 98
अनुष्टुप्
संविदाजौ प्रतिज्ञायामाचारज्ञाननामसु ।संभाषणे क्रियाकारे संकेते तोषणेऽपि च ॥
17.3.5 · p. 98
अनुष्टुप्
कुमुदं कैरवं ख्यातं कुमुदो दानवान्तरः ।कुमुदाः कपिदिङ्नागनागभेदाः प्रकीर्तिताः ॥
17.3.6 · p. 98
अनुष्टुप्
शारदौ वर्षशालीनौ प्रत्यग्रप्रतिभान्वितौ ।शारदः सप्तपर्णे स्यात्पीतमुद्गे च कीर्तितः ॥
17.3.7 · p. 98
अनुष्टुप्
आक्रन्दः क्रन्दने ध्वाने नाथे च दारुणे रणे ।पार्ष्णिग्राहात्परो राजा आक्रन्दः समुदाहृतः ॥
17.3.8 · p. 98
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
अर्धेन्दुरर्धचन्द्रे च नखखण्डनकान्तरे ।अर्धेन्दुः स्यादतिप्रौढस्त्रीगुह्याङ्गुलियोजने ॥
17.3.9 · p. 98
अनुष्टुप्