रोग
rogaपुं · masc.In 16 kośas: 13 synonym verses, 3 as a nānārtha head word, 58 as a meaning of another word.
रोगो रुजा रुगातङ्को मान्द्यं व्याधिरपाटवम् ॥ ४६२ ॥आम आमय आकल्यमुपतापो गदः समाः ।
अनुष्टुप्
genderपुंmasc.
स्त्री रुग्रुजा चोपतापरोगव्याधिगदामयाः ।
अनुष्टुप्
genderपुंmasc.
रोगो रुक् व्याधिराकल्यं गदो मान्द्यमपाटवम् ।आम आमय आतङ्क उपतापो रुजा स्मृता ॥ ६०० ॥
अनुष्टुप्
genderपुंmasc.
आतङ्क-तङ्कावस्त्रीकावम आम-गदामयाः ।श्वयीचिरुपतापश्चामन-रोगौ च रुग्रुजे ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
ऊर्मिश्च ध्वनिश्च अञ्जलिश्च ऊर्म्मिध्वन्यञ्जलयः । एते शब्दाः पुंसि भवन्ति । अयमूर्म्मिस्तरङ्गः । अयं ध्वनिः शब्दः ।अयमञ्जलिः करपुटः । ओष्ठकपोलगुल्फसञ्ज्ञाश्च । सञ्ज्ञाशब्दः प्रत्येकमभिसम्बध्यते । ओष्ठश्च कपोलश्च गुल्फश्च ओष्ठकपोलगुल्फाः । एतेषां सञ्ज्ञाः पर्यायास्ते पुंसि भवन्ति । अयमोष्ठः अधरः दन्तच्छदः । अयं कपोलः गण्ड इत्येवमादयः । अयं गुल्फः पादग्रन्थिः घुठः घूंठ इत्येवमादयः । घञ्च एरच्च ऋदोरप्च । "पदरुजवेगस्पृशो घञि"त्येवमादिना प्रकरणे घञो विहित इति । "येन विधिस्तदन्तस्ये"ति घञ्प्रत्ययान्ताः शब्दाः पुंसि भवन्ति । तद्यथा । पादः रोगः वेगः स्पर्शः पाकः त्यागः योगः प्रसादः भेदः छेदः दाहः दोषः प्रकारविकार इत्येवमादयः । "एरजि"ति । एरजीवर्णान्तादच्प्रत्ययः स्यात् । अयं जयः नयः । तथा "ऋदोरप्" । ऋवर्णान्तादुवर्णान्ताच्च धातोरप्प्रत्ययः स्यात् । तत्र ऋवर्णान्तात् । अयं करः वरः भरः शरः नरः । इत्येवमादयः । उवर्णान्तात् । अयं प्लवः पवः भवः इत्येवमादयः । घञन्तादन्धकारशब्दस्यापि नित्यं पुंस्त्वं स्यादित्याह । बहुलमन्धकारश्च । अन्धकारो बहुलं पुंलिङ्गे भवति । विभाषा भवतीत्यर्थः । इदं अन्धकारम् । अयं अन्धकारः । तथा चोक्तम् । "नेहागमोऽस्ति शलभस्य न मारुतस्य स्नेहक्षयोऽपि न भवेत्प्रथमे प्रदोषे । अव्यक्तवस्तुपुरुषप्रतिबोधितेन पारावतेन पतता कृतमन्धकारम् ।"प्राण्यङ्गमिदन्तं वस्तिकुक्षिपाणीन्विमुच्य सर्वं स्त्री ।जङ्घा शिरा स्नुषा नासिका चूडा वसा चैव ॥ १७ ॥
वसन्ततिलकाmetre not read in every line
ऊर्मिपुंतरङ्गपुंध्वनिपुंशब्दपुंअञ्जलिपुंकरपुटपुंओष्ठपुंअधरपुंदन्तच्छदपुंकपोलपुंगण्डपुंगुल्फपुंपादग्रन्थिपुंघुठपुंघूंठपुंपादपुंरोगपुंवेगपुंस्पर्शपुंपाकपुंत्यागपुंयोगपुंप्रसादपुंभेदपुंछेदपुंदाहपुंदोषपुंप्रकारपुंविकारपुंजयपुंनयपुंकरपुंवरपुंभरपुंशरपुंनरपुंप्लवपुंपवपुंभवपुंअन्धकारपुंक्लीवस्तिपुंकुक्षिपुंपाणिपुंजङ्घास्त्रीशिरास्त्रीस्नुषास्त्रीनासिकास्त्रीचूडास्त्रीवसास्त्री
genderपुंmasc.
किलासी सिध्मलः पित्ते स्नेहभूः कफसंज्ञकः ।खटः श्लेष्मा बलाशोऽपि रोगातङ्कावपाटवम् ॥ १२५ ॥
अनुष्टुप्
genderपुंmasc.
लाक्षाजतुः खदिरका पलाशी गन्धमादनी ।अलक्तको जतुरसो रोगो निर्भर्त्सनाह्वयः ॥ १९९ ॥
अनुष्टुप्
genderपुंmasc.
वैरं विरोधो विद्वेषः शृङ्खलो निगडोऽन्दुकः ।विघ्नोऽन्तरायः प्रत्यूहो रोगातङ्कगदामयाः ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
रुगाऽऽतङ्को रुजा रोगो व्याधिरपाटवं तथा ।आम आमय आकल्यं मान्द्यं तथाऽऽमनं गदः ॥ ७०९ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable); pāda 4, syllable 3 त (wrong syllable)
genderपुंmasc.
औषधं भेषजं जायुर्भैषज्यमगदोऽपि च ।उपतापो रुजा रुक् स्त्री रोगव्याध्यामया गदः ॥
अनुष्टुप्
genderपुंmasc.
व्लासो दन्त्य-तालव्यप्रान्तकः कथितो बुधैः ।कफे, व्याधौ रोग-रुजौ रुजाऽप्यामय आमकः ॥ ८५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 व्ला (syllables merged)
genderपुंmasc.
व्याधिरामय आतङ्को गदो रोगो रुजा च तत् ।क्षयः शोषो राजयक्ष्मा यक्ष्मा जूर्तिर्जरोऽन्तकः ॥ १०९३ ॥
अनुष्टुप्
genderपुंmasc.
व्याधिव्याप्यामया माथरोगामा देहमर्दनः ।संतापोऽपाटवं मान्द्यमाकुल्यं रुग्रुजे स्त्रियौ ॥ १३८ ॥
अनुष्टुप्
genderपुंmasc.
रोग as a meaning in nānārtha verses
- धरणिकोश आतङ्कपर्यङ्को मञ्चपल्यङ्कखट्वापर्यस्तिकासु च । आतङ्को रोगसंतापशङ्कार्थः सद्भिरिष्यते ॥ Dharaṇikośa 1.2.9
- धरणिकोश रुजाआजिः समावनौ युद्धे प्रजा संता[19]नलोकयोः । रुजा भङ्गे च रोगे च निजमात्मीयनित्ययोः ॥ Dharaṇikośa 7.1.1
- धरणिकोश क्षयक्षयौ निलयकल्पान्तौ क्षयोऽपचयरोगयोः । चयस्त्वाचयने वृन्दे प्राकारे मूलबन्धने ॥ Dharaṇikośa 25.2.7
- धरणिकोश विकारविस्तारौ विततस्तम्बौ तुषारौ हिमशीकरौ । भास्करौ वह्निमार्तण्डौ विकारौ रोगवैकृतौ ॥ Dharaṇikośa 26.1.13
- कोषकल्पतरु तङ्कभुवने जने च लोकः श्लोकः कींर्तौ च पद्ये च । रङ्को मन्दे कृपणे तङ्कस्त्वस्त्री कुजीवने रोगे ॥ १९ ॥ Koṣakalpataru 6.1.19
- कोषकल्पतरु उपसर्गत्यागे मोक्षे कर्मसमाप्तावपवर्गः साफल्येऽथ प्रादिषु रोगेऽप्युपसर्गः । संघे संयोगे च समायोग इहार्थे शापाक्रोशस्याभिभवेष्व[प्य]भिषङ्गः ॥ २९ ॥ Koṣakalpataru 6.3.29
- कोषकल्पतरु कुष्ठकुष्ठं तु रोगेऽपि सुगन्धभेदे गोष्ठी ********* । संलापसंसत्सु चरमे तु गोस्थले- ऽथाधमेऽप्यसारे च दुष्टः स्यात् । प्रष्ठः पुरोगामिनि च प्रशस्ये चण्डालिकासंज्ञक औषधे स्त्री । ज्येष्ठोऽतिवृद्धे त्रिषु च प्रशस्ये मासे तु ना स्त्री तु भभिन्मुसल्योः ॥ ५७ ॥ Koṣakalpataru 6.11.57
- कोषकल्पतरु गदगदस्तु विष्णोरनुजे च रोगे स्त्रियां भवेदायुधभेदवाची । नदः समुद्रे निनदे स्त्रियां तु स्यान्निम्नगायामथ गर्वतुष्ट्योः ॥ १८ ॥ Koṣakalpataru 6.19.18
- कोषकल्पतरु व्याधिप्रत्याशायां बन्धके चित्तरोगे पुंस्याधिः स्यादप्यधिष्ठानके च । रोगे बाष्पे व्याधिरुक्तो विधिस्तु काले दैवे ब्रह्मणि स्याद्विधाने ॥ ५९ ॥ Koṣakalpataru 6.20.59
- कोषकल्पतरु यक्ष्मन्अर्वा हयेऽथ त्रिषु कुत्सिते स्या- द्वृषा महेन्द्रेऽपि च कर्ण उक्तः । यक्ष्मा क्षये स्यादपि रोगमात्रे युवा वयःस्थे बलिनि स्वभावे ॥ ८८ ॥ Koṣakalpataru 6.21.88
- कोषकल्पतरु विकाररोगे विकारो विकृतावथेङ्गे व्यापार उक्तो नरि संस्थितौ च । पुमान्निकारः परिभूतिवाची तथैव धान्योत्किरणे प्रदिष्टः ॥ ४३ ॥ Koṣakalpataru 6.27.43
- कोषकल्पतरु पाटलपाचलो धनहुताशवायुषु ग्राहयादसि तु माचलो मतः । बन्दितस्कररोगयोरथो श्वेतरक्तरुचि पाटलस्त्रिषु ॥ २९ ॥ Koṣakalpataru 6.28.29
- कोषकल्पतरु किल्बिषस्याद्धेमले ना निकषः स्त्रियां तु रक्षोजनन्यां नहुषोऽहिराज्ञोः । पापेऽन्तिमे स्यात्कलुषं परस्मिं- स्तदाविले कल्मषरोगयोस्तु । तथापराधेऽपि च किल्बिषं स्या- त्स्पन्दे दृशोः स्यान्निमिषो निमेषः ॥ ४६ ॥ Koṣakalpataru 6.30.46
- कोषकल्पतरु स्नेहुगेहेऽथ ग्राहः स्यादवहारे स्याद्ग्रहे पुंसि । नाहः कूटे बन्धे स्नेहोऽस्त्री सौहृदे तैले । स्नेहुश्चन्द्रे रोगेऽथ रणे प्राह प्रहारे च ॥ ३८ ॥ Koṣakalpataru 6.32.38
- नानार्थार्णवसंक्षेप कक्ष्यापार्श्वाद्यङ्गसमुद्भूतरोगभेदेऽङ्गुलावपि । कथाख्यानाह्वयग्रन्थविशेषे कथनेऽपि च ॥ १९ ॥ Nānārthārṇavasaṃkṣepa 2.1.19
- नानार्थार्णवसंक्षेप ज्यानिस्वभावे प्रभवे छन्दोभेदेष्वार्यादिकेष्वपि । ज्यानिस्तु हानौ बुद्धौ च रोगे जिह्वा तु वाचि च ॥ ३९ ॥ Nānārthārṇavasaṃkṣepa 2.1.39
- नानार्थार्णवसंक्षेप रुजाप्रचारे स्रवणे पङ्क्तौ स्वभावेऽन्ये तु पित्तले । रुजा भङ्गजरामृत्युरोगेष्वथ रुचिः श्रियाम् ॥ ८६ ॥ Nānārthārṇavasaṃkṣepa 2.1.86
- नानार्थार्णवसंक्षेप पाप्मन्पाणिः पलचतुर्भागे हस्तेऽप्यथ भगे गुदे । पायुः पाप्मा तु रोगे च दुरितेऽप्यथ पिण्डिवाक् ॥ ७८ ॥ Nānārthārṇavasaṃkṣepa 2.2.78
- नानार्थार्णवसंक्षेप आमअदनीयेऽपि ना तु स्याद् विरिञ्चेऽथामवाक् त्रिषु । अपक्वे ना तु रोगेऽथो आयस्त्रिष्वययोगिनि ॥ ७० ॥ Nānārthārṇavasaṃkṣepa 2.5.70
- नानार्थार्णवसंक्षेप पाण्डुधृतराष्ट्रानुजे पाण्ड्यदेशराजान्तरेऽपि च । शालिजात्यन्तरे रोगभेदे खर्जूरपादपे ॥ ७६४ ॥ Nānārthārṇavasaṃkṣepa 2.5.764
- नानार्थार्णवसंक्षेप आतङ्कग्रन्थावच्छेदभेदे च काव्यादीनां प्रकीर्तितः । आशुक्षेपेऽप्यथातङ्को रोगे सन्तापशङ्कयोः ॥ २९ ॥ Nānārthārṇavasaṃkṣepa 3.2.29
- नानार्थार्णवसंक्षेप कदररोगक्रकचयोश्चाथ कटभेदे कटोलवाक् । तथा वादित्रभेदे च कर्कारस्तु महीरुहे ॥ ७० ॥ Nānārthārṇavasaṃkṣepa 3.2.70
- नानार्थार्णवसंक्षेप विकाररोगे चाप्यन्यथाभावे विवधस्तृदितः पथि । पर्याहारे च भारे च विश्वप्सा त्वन्तरेऽनिले ॥ २०४ ॥ Nānārthārṇavasaṃkṣepa 3.2.204
- नानार्थार्णवसंक्षेप अङ्गजसप्तमी तासु या सङ्ख्या सा ज्ञेयाथाङ्गजः स्मरे । केशे च ना द्वे तु पुत्रे क्ली तु रोगेऽपि शोणिते ॥ ७६ ॥ Nānārthārṇavasaṃkṣepa 4.76
- नानार्थार्णवसंक्षेप उपतापव्रणादेर्भेषजे बीजेऽप्युपताप तु कीर्त्यते । रोगे तापेऽप्यथ प्रोक्तो वारिबाहमहेन्द्रयोः ॥ ४८ ॥ Nānārthārṇavasaṃkṣepa 6.48
- परमानन्दीयनाममाला आतङ्कपाण्डोः पुत्रे तृणे नेत्ररोगे हैहयसालयोः । आतङ्को मुरजध्वानशङ्कयो रोगतापयोः ॥ ३२ ॥ Paramānandīyanāmamālā 5.1.32
- परमानन्दीयनाममाला उपसर्गउपसर्गस्तु रोगे स्यात्प्राद्युपद्रवयोरपि । उपरागस्तमोग्रस्तचन्द्रभास्करमण्डले ॥ ७५ ॥ Paramānandīyanāmamālā 5.3.75
- परमानन्दीयनाममाला काशकल्यं मद्ये प्रभातेऽपि सावधाने निरामये । केशोऽब्जे वरुणे वाले काशः स्यात्तृणरोगयोः ॥ ९२ ॥ Paramānandīyanāmamālā 5.7.92
- परमानन्दीयनाममाला कुष्ठकारा बन्दिजनागारे कुष्ठं भेषजरोगयोः । कायो देहे स्वभावे च लक्ष्ये संघे कदैवते ॥ १०५ ॥ Paramānandīyanāmamālā 5.7.105
- परमानन्दीयनाममाला खर्ज्जूखटः कफे तुणे कृपे खर्ज्जू रोगेक्षुभिद्यपि । खण्डोऽर्धे मणिदोषेऽप्यैक्षवे खर्वस्तु वामने ॥ १४६ ॥ Paramānandīyanāmamālā 5.8.146
- परमानन्दीयनाममाला प्रकाशप्रकाशः प्रकटे रोगे प्रद्योते पुंगवो गवि । शब्दोत्तरस्थितः श्रेष्ठे पर्जन्यो वासवेन्द्रयोः ॥ ३०६ ॥ Paramānandīyanāmamālā 5.19.306
- परमानन्दीयनाममाला प्रदरपर्याप्तं तु निषेधे स्याद्यथेच्छापूर्णशक्तिषु । प्रदरो रोगभीत्योः स्यात्पललं मांसपङ्कयोः ॥ ३०७ ॥ Paramānandīyanāmamālā 5.19.307
- परमानन्दीयनाममाला सालिसीता तु जानकी देवसिन्धुर्लाङ्गलपद्धतिः । सालिर्भुजंगमे कीले मूर्खे रोगे युगान्तरे ॥ ३६३ ॥ Paramānandīyanāmamālā 5.27.363
- शब्दरत्नावली आतङ्कनित्यक्रियाभोजनयोर्वृन्दे प्रकरणस्य च । आतङ्को मुरजध्वाने रोगे सन्तापशङ्कयोः ॥ Śabdaratnāvalī 7.1.34
- शब्दरत्नावली रुजारुजा भङ्गे च रोगे च तथाङ्केऽपि च कुत्रचित् । क्लीबे लाजमुषीरे तु लाजः स्यादार्द्रतण्डुले ॥ Śabdaratnāvalī 7.8.15
- शब्दरत्नावली कुष्ठस्थानमात्रे दिशि स्त्री तु काष्ठं दारुणि न द्वयोः । कुण्ठः स्यादलसे मूर्खे कुष्ठं पुष्कररोगयोः ॥ Śabdaratnāvalī 7.12.4
- शब्दरत्नावली पाण्डुनीडं कुलाये स्थानेऽस्त्री पण्डः षण्डे मतौ स्त्रियाम् । पाण्डुर्ना नृपतौ रोगनागभेदसितेषु च ॥ Śabdaratnāvalī 7.13.18
- शब्दरत्नावली सारणसंकीर्ण निश्चिते व्याप्ते स्यादशुद्धे तु वाच्यवत् । सरणिः पथि पंक्तौ स्त्री सारणो रोगरक्षसोः ॥ Śabdaratnāvalī 7.15.66
- शब्दरत्नावली यतिमृतं मृत्यौ याचिते स्यात्क्लीबं मृत्युमति त्रिषु । यतिः स्त्रीपाठविच्छेदविधवारोगसन्धिषु ॥ Śabdaratnāvalī 7.16.40
- शब्दरत्नावली अहंतिअहंतिः स्यात् स्त्रियां त्यागे रोगे रोगभयेऽपि च ॥ Śabdaratnāvalī 7.16.80
- शब्दरत्नावली ऊषितउषितं व्युषिते दग्धे ऊषितं रोगवोधयोः । उदात्तः स्वरभेदे स्याद्दानवादयप्रभेदयोः ॥ Śabdaratnāvalī 7.16.89
- शब्दरत्नावली रङ्गमातापारावती नदीगोपगीत्योश्च लवलीफले । पारावतः कलरवे पुमान् मर्कटतिन्दुके ॥ पुष्पदन्तो भवेद्विद्याधरे दिग्वारणान्तरे । भगवान् त्रिषु पूज्ये स्याद् गौर्यां स्त्री तु जिने पुमान् ॥ स्त्रियां भोगवती गङ्गा सर्पपुर्योरहौ पुमान् । रङ्गमाता च कुट्टन्यां रोगवृक्षभिदोः(?) स्त्रियाम् ॥ लक्ष्मीपतिर्नरपतौ वासुदेवे भवेत्पुमान् । व्यतिपातो योगभेदे महोत्पातापमानयोः ॥ Śabdaratnāvalī 7.16.171
- शब्दरत्नावली अतिसर्जनतथातिसर्ज्जनं दाने रोगेऽपि च नपुंसकम् ॥ Śabdaratnāvalī 7.20.129
- शब्दरत्नावली आमआमोऽपक्वेऽन्यलिङ्गः स्याद्रोगरोगभिदोः पुमान् । उमा गौर्य्यतसी कीर्तिहरिद्राकान्तिशान्तिषु ॥ Śabdaratnāvalī 7.25.2
- शब्दरत्नावली शुक्रशारीऽनिलाक्षोपकृत्योः शवलेऽपि च वाच्यवत् । शिग्रुः पुंसि शाकमात्रे तथा शोभाञ्जनद्रुमे ॥ शिरा नाड्यां स्त्रियामेव पिप्पलीमूलके पुमान् । शीघ्रं नलद चक्राङ्ग(?) क्लीबं द्रुते गतौ(?) त्रिषु ॥ शुभमम्रे क्लीबलिङ्गमुद्दीप्तशुक्लयोस्त्रिषु । शुक्रो मासि भृगौ वह्नौ ना क्लीबे रोगरेतयोः ॥ Śabdaratnāvalī 7.27.46
- शब्दरत्नावली पुष्करक्लीबं ना पक्षिभूपालरोगद्वीपाद्रिभित्सु च । तथा वरुणपुत्रे च क्वचित्केचिप्रचक्षते ॥ Śabdaratnāvalī 7.27.90
- शब्दरत्नावली माचलमाचलोऽपि ग्रहे रोगे स्यात्पुमान् वन्दिचौरयोः । मुषली तालमूल्याखुपर्णिकागृहगोधिषु ॥ मेखला स्त्रीनितम्बे स्यात्स्त्री काञ्ची खड्गकोषयोः । रसाला रसना दूर्वा विदारी मार्जितासु च ॥ Śabdaratnāvalī 7.28.85
- शब्दरत्नावली स्पर्शस्पर्शो दाने स्पर्शने च रोगस्पर्शकयोरपि । स्पशश्चरे सम्पराये बन्धभेदे च कामिनाम् ॥ Śabdaratnāvalī 7.30.12
- शब्दरत्नाकर रुच्लिप्साज्वालाकान्तिवाञ्छाभङ्गरोगेषु रुक् स्त्रियाम् । भारतीवचसोर्वाक् स्याद् विः पक्षिपरमात्मनोः ॥ २२४६ ॥ Śabdaratnākara 4.1.2246
- त्रिकाण्डशेष रुजाअगस्त्ये च हरीतक्यां रुजा स्याद्रोगभङ्गयोः । मुस्तेऽपि वनजो बीजं रेतस्तत्त्वार्थहेतुषु ॥ ८७ ॥ Trikāṇḍaśeṣa 3.3.87
- त्रिकाण्डशेष कुष्ठकाष्ठा कालेऽपि कोष्ठस्तु स्वकीयेऽप्यथ सुध्वनौ । ग्रीवादेशेऽपि कण्ठः स्यात्कुष्ठं रोगौषधीभिदोः ॥ १०६ ॥ Trikāṇḍaśeṣa 3.3.106
- त्रिकाण्डशेष कदरकन्दरः स्याद्गुहास्मृण्योः कोट्टारौ कूपनागरौ । कदरः क्रकचे रोगे कदरः खदिरे सिते ॥ ३४१ ॥ Trikāṇḍaśeṣa 3.3.341
- त्रिकाण्डशेष विकारविकारो विकृतौ रोगे विश्वकद्रू श्वभित्खलौ । बेरोऽङ्गे कुङ्कुमे बेरं वठरः शठमन्दयोः ॥ ३७३ ॥ Trikāṇḍaśeṣa 3.3.373
- त्रिकाण्डशेष स्पर्शदाने रोगेऽपि च स्पर्शः सदृशं तूचिते समे । Trikāṇḍaśeṣa 3.3.449
- वैजयन्ती गदगडुः पृष्ठगुडे कुब्जे गदो रोगो गदायुधम् । गोप्यो रक्ष्ये दाससुते घ्राणमाघ्रातनासयोः ॥ २९ ॥ Vaijayantī 6.5.29
- वैजयन्ती विकारविस्रंभौ स्नेहविश्वासौ विबुधौ सुरपण्डितौ । विकारौ रोगविकृती विष्किरौ शिखिकुक्कुटौ ॥ ६६ ॥ Vaijayantī 7.1.66
- वैजयन्ती हरिमन्हर्यक्षो धनदे सिंहे व्रीह्यब्दार्चिः षु हायनः । महोदरेपि हेरंबो हरिमा मृत्युरोगयोः ॥ ८४ ॥ Vaijayantī 7.1.84
- वैजयन्ती अङ्गजअंगजो ना सुतेऽनंगे क्ली रोगे रुधिरेऽपि च । न ना कवाटे क्ली लोहे सोमे स्यादररः पुमान् ॥ १० ॥ Vaijayantī 7.5.10