खट
khaṭaपुं · masc.In 8 kośas: 10 synonym verses, 2 as a nānārtha head word.
पित्तं मायुः कफः श्लेष्मा बलाशः स्नेहभूः खटः ।
अनुष्टुप्
genderपुंmasc.
उत्सो विदारकश्चुण्डि-चुर्यौ विवर-चूतकौ ।अन्धकूपः खटः पुंसि स तृणादिभिरावृतः ।कूपो दैर्घवरत्रः स्यान्निर्वृत्तो दीर्घवर्ध्रय(?) ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
कण्डरा*[तु]महास्नायुः किट्टं तु मलमस्त्रियाम् ।कफो रसमलः श्लेष्मा बलासः खटकूटवत् ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
अन अन्ते यस्य तदिदमनान्तं अकर्त्तरि अन्प्रत्ययान्तं यत्प्रातिपदिकं तन्नपुंसके विद्धि जानीहि । "नपुंसकाद्भावे क्त" इत्यत्र "वर्तमाने ल्युट् चे"ति ल्युट् । "युवोरनामि"त्यनादेशः । वचनं भजनं भाजनं पानं आसनं प्रयाणं शासनम् । अधिकरणमित्यादि । अकर्त्तरीति किम् । "नन्द्यादिभ्यो ल्युट्" । नन्दनः मरणः मदनः कुलनः शतनः दमनः सङ्कर्षणः मधुसूदनः जनार्दन इत्यादि । अनिः स्त्रियामेव ।एवकारोऽवधारणार्थः । "आक्रोशे नञ्यनिः" । यथा इयमम्भोजनिः अकारणिः अहरणिः अखादनिः अशरणिरित्येवमादिः । अण च अप्च अणापौ यौ तौ पुंस्युक्तौ । णौ अण् चेत्यण् प्रत्ययः । त्यागः उपदेशः उपसर्गः इत्यण्प्रत्ययः । निघः पर्वतः । किञ्चान्यौ मन्युमृत्यू पुंसि भवतः । अयं मन्युर्दया शोकश्च । मृत्युर्नाशः ।पटपुटकटघटचण्टवाटजूटवटा हि पुंस्युक्ताः ।अवटखटपट्टकिराटकीटाश्च कूटतटयोश्च नपुंसकता ॥ २८ ॥
metre not recognised
genderपुंmasc.
किलासी सिध्मलः पित्ते स्नेहभूः कफसंज्ञकः ।खटः श्लेष्मा बलाशोऽपि रोगातङ्कावपाटवम् ॥ १२५ ॥
अनुष्टुप्
genderपुंmasc.
कफस्तथा बलाशश्च श्लेष्मा खेटस्तथा खटः ।शिङ्घानकस्तथा स्नेहभूश्चेति कफनामकाः ॥ ७०८ ॥
अनुष्टुप्
genderपुंmasc.
तृणं त्रिणं खटं खेटं हरितार्जुनताण्डवम् ।तृण्यं तृणसमूहे स्यान्नाड्या तु नडसञ्चये ॥
अनुष्टुप्
genderक्लीneut.
खटः खेटोऽपि तत्रैव बलहा वेगनाशनः ।त्वक् त्वचा च त्वचं चर्म छलीच्छलिरसृग्धरा ॥
अनुष्टुप्
genderपुंmasc.
चिल्लश्चुल्लोऽपि मूर्ते तु मूर्च्छालो मूर्च्छितोऽपि च ।पित्ते पलाग्निः पललज्वरोऽथ खेटयुक् खटः ॥ ८४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 थ (wrong syllable)
genderपुंmasc.
उत्क्षुद्रलोऽथ मसृणे श्लक्ष्णसोमालचिक्कणाः ।पिच्छिले स्याद्विजविलः कठिने खरटः खटः ॥ ४ ॥
अनुष्टुप्
genderविadj.