श्लेष्मन्
śleṣmanपुं · masc.In 14 kośas: 15 synonym verses, 2 as a nānārtha head word, 6 as a meaning of another word.
पित्तं मायुः कफः श्लेष्मा बलाशः स्नेहभूः खटः ।
अनुष्टुप्
genderपुंmasc.
मायुः पित्तं कफः श्लेष्मा स्त्रियां तु त्वगसृग्धरा ॥ ६२ ॥
अनुष्टुप्
genderपुंmasc.
केशघ्नमिन्द्रलुप्तं स्यादर्शश्च गुदकीलकः ।मायुः पित्तः कफः श्लेष्मा प्रतिश्यायश्च पीनसः ॥ ६०५ ॥
अनुष्टुप्
genderपुंmasc.
कण्डरा*[तु]महास्नायुः किट्टं तु मलमस्त्रियाम् ।कफो रसमलः श्लेष्मा बलासः खटकूटवत् ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
स्रगादयः शब्दाः स्त्रियां भवन्ति । तद्यथा । इयं स्रक् माला । इयं स्रुक् यज्ञोपकरणभाण्डम् । इयं स्फिक् कटिप्रदेशः । इयं त्वक् बहिश्चर्म । इयं वाक् वाणी । इयं योषित् बाला । द्यौश्च नौश्च द्युनावौ च स्त्रियां भवतः इयं द्यौः स्वर्गः । इयं नौः जलतरणिः । हिशब्दः पादपूरणे । दीधितिमेकां वर्ज्जयित्वा रश्मिवाचकाः शब्दाः पर्यायाश्च ये ते पुंसि भवन्ति । तद्यथा इमे रश्मयः प्रग्रहाः किरणाः अंशवः पादाः मयूखाः अभीषवः गभस्तयः घृणय इत्येवमादयः । तुशब्दः पादपूरणे ।मूर्द्ध्नोऽक्षतक्षमज्जश्लेष्मात्माश्मयु[यू]वपूषराजभी रहितम् ।सर्वं द्व्यच्कं नान्तं नपुंसकं पुंसि वा भवेद्ब्रह्मा ॥ १९ ॥
metre not recognised
genderपुंmasc.
मूर्द्धन् उक्षन् तक्षन् मज्जन् श्लेष्मन् आत्मन् अश्मन् युवन् पूषन् इत्येतैः शब्दै रहितं वर्जितं यदन्यत् द्व्यच्कं द्विस्व[श्व]रं च नान्तं प्रातिपदिकं तत्सर्वं नपुंसकं भवति । यथा इदं चर्म वर्म शर्म भस्म सद्म लोम इत्येवमादयः । मूर्द्धादयोऽपि नान्तत्वात् द्व्यच्का अतस्तेषामपि नपुंसकता प्राप्नोति । तदर्थमिति प्रतिषेधः कृतः मूर्द्धोऽक्षतक्षेत्यादि पुंल्लिङ्गाधिकारात्पुंसि भवन्ति । यथा अयं मूर्द्धा शिरः । उक्षा वृषभः । मज्जा सारः । तक्षा वर्द्धकिः । श्लेष्मा धातुविकारः । आत्मा शरीरस्थः । अश्मा नीलः । युवा तरुणः । पूषादित्यः पुंसि वा भवेद्ब्रह्मेति । द्वच्कत्वान्नान्तत्वाच्च ब्रह्मशब्दस्य नपुंसकत्वे प्राप्ते पुंस्त्वं वा विधीयते ब्रह्मशब्दो वा नपुंसकलिङ्गो भवति । इदं ब्रह्मा वेदाध्ययनमीश्वरश्च । अयं ब्रह्मा प्रजापतिः । यद्येवं यत् द्व्यच्कं नान्तं तन्नपुंसकम् । एवं सति राजन् शब्दस्यापि नपुंसकता स्यात् पुंस्यन्तर्भावो द्रष्टव्यः ।त्रुटिसीमसन्ध्यारात्रयः स्त्रियां धूलिवेणिखार्यश्च ।पुंसि निशीथो ज्योत्स्नादयाशलाका स्त्रियां नित्यम् ॥ २० ॥
metre not recognised
genderपुंmasc.
किलासी सिध्मलः पित्ते स्नेहभूः कफसंज्ञकः ।खटः श्लेष्मा बलाशोऽपि रोगातङ्कावपाटवम् ॥ १२५ ॥
अनुष्टुप्
genderपुंmasc.
मूर्च्छालो मूर्च्छको मूर्च्छः सम्मूर्च्छित इतीरितः ।मायुः पित्तं पित्तरोगे कफः श्लेष्मा च श्लेष्मणि ॥ १२८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 च (wrong syllable)
genderपुंmasc.
श्लेष्माश्रुदूषिकास्वेदा द्वादशैते नृणां मलाः ।पुरीतत्पुरितदिति स्यादान्त्रे चाथ इष्यते ॥ १३३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त्पु (wrong syllable)
genderपुंmasc.
कफस्तथा बलाशश्च श्लेष्मा खेटस्तथा खटः ।शिङ्घानकस्तथा स्नेहभूश्चेति कफनामकाः ॥ ७०८ ॥
अनुष्टुप्
genderपुंmasc.
किलासी सिध्मलश्चापि छोदयुक्तजने द्वयम् ।काणूकः काणकः काण एकनेत्रविहीनके ॥शुक्रं रेतस्तेजसी च वीजवीर्येन्द्रियाणि च ।मायुः पलज्वरः पित्तं कफे श्लेष्मा बलाशकः ॥
अनुष्टुप्
genderपुंmasc.
असंस्काराः कचाः श्लिष्टाः व्रतिनस्ते जटा सटा ।दोषा वातादयो वायुः पित्तं श्लेष्मा कफः समौ ॥ १०९२ ॥
अनुष्टुप्
genderपुंmasc.
युवगण्डोऽवगण्डः स्यात्पित्तं मायुः पलङ्करः ।श्लेष्मा बलाशो मांसं तु जरूथमथ शोणितम् ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
अवटव्रातसङ्केतपोतगर्तगरुच्छदाः ।श्लेमोष्मपापयक्ष्माश्मात्मानो वातायनः स्तनः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.doubtful
पित्तं मायुर्नरि श्लेष्मा बलासः खेटकः कफः ।क्षुत् स्त्री क्षुतः क्षवः पुंसि प्रतिश्यायस्तु पीनसः ॥ १२१ ॥
अनुष्टुप्
genderपुंmasc.
रथस्य शीघ्रवहनसाधने चापि वस्तुनि ।श्लोकः पद्ये यशोवाचोः षण्ड इट्चरपण्डयोः ॥ १२२ ॥
अनुष्टुप्
meaningsरथशीघ्रवहनसाधन
doubtful
श्लेष्मन् as a meaning in nānārtha verses
- हलायुधकोशः (अभिधानरत्नमाला) खेटनयनच्छदेऽपि वर्त्म प्रतिग्रहः सैन्यपृष्ठभागेऽपि । श्लेष्मण्यपि खेटः स्याज्जामिः कुलबालिकायां च ॥ ७९२ ॥ Abhidhānaratnamālā (Halāyudha) 5.792
- धरणिकोश धातुधातुः श्लेष्मादिरूप्यादिपृथ्व्यादिचक्षुरादिषु । मनःशिलादिभूवाद्योर्विशेषादस्थ्नि गैरिके ॥ Dharaṇikośa 15.3.7
- नानार्थार्णवसंक्षेप गोचर्मणो गोविकारस्य विकारे श्लेष्मसंज्ञके । नृस्त्रियोरविशेषेण कश्चिदेनं समामनत् ॥ ८ ॥ Nānārthārṇavasaṃkṣepa 1.5.8
- नानार्थार्णवसंक्षेप आलुअन्येषां मूषिकस्यैव जातिभेदे क्रमाह्वये । आलुः श्लेष्मातके पुंसि श्लेष्मण्यन्येऽथ नप्स्त्रियोः ॥ ७७ ॥ Nānārthārṇavasaṃkṣepa 2.5.77
- नानार्थार्णवसंक्षेप दृढबलवत्यप्यथ श्लेष्मसंज्ञे चर्मविकारके । नृशण्डयोरथो दृश्या स्त्री सेवायामथ त्रिषु ॥ ६१३ ॥ Nānārthārṇavasaṃkṣepa 2.5.613
- शब्दरत्नावली धातुदितिः स्त्रियां खण्डने स्यात्तथा च दैत्यमातरि । दीप्तं निर्भासिते दग्धे ज्वलितेऽपि च वाच्यवत् ॥ द्रुतं शीघ्रे विनीते च विम्राणे चाभिधेयवत् । दृतिश्चर्मपुटे मीते द्युतिः स्त्री रश्मिशोभयोः ॥ धातुर्मनःशिलादौ तु श्लेष्मादौ गैरिकेऽपि च ॥ Śabdaratnāvalī 7.16.17