कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

द्राक्षा

drākṣāस्त्री · fem.

In 18 kośas: 16 synonym verses, 23 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.1156 · p. 45
तुम्ब्यलाबूः कृष्णला तु गुञ्जा द्राक्षा तु गोस्तनी ॥ ११५५ ॥मृद्वीका हारहूरा च गोक्षुरस्तु त्रिकण्टकः ।श्वदंष्ट्रा स्थलशृङ्गाटो गिरिकर्ण्यपराजिता ॥ ११५६ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.107
मृद्वीका गोस्तनी द्राक्षा स्वाद्वी मधुरसेति च ॥ १०७ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.193 · p. 24
मृद्वीका गोस्तनी द्राक्षा हारहूरा च कथ्यते ।प्रियङ्गुः फलिनी श्यामा कुटजो गिरिमल्लिका ॥ १९३ ॥
अनुष्टुप्
genderस्त्रीfem.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वादशोपदेशः Bālaprabodhikā 12.240 · p. 87
द्राक्षायां कृष्णिका स्वाद्वी प्रियाला कालमेषिका ।मालत्यां रेवतीजातिर्यूथिकायां मनोज्वला ॥ २४० ॥
अनुष्टुप्
genderस्त्रीfem.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम Gīrvāṇabhāṣābhūṣaṇa 45 · p. 4
रसा च गोस्तनी द्राक्षा नन्दिन्यानन्दवल्लरी ।झिल्यां बाष्पः शाकिनी च करविन्दा महत्यसौ ॥ ४५ ॥
अनुष्टुप्
genderस्त्रीfem.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम भूम्यधिकारस्तृतीयस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 3.36 · p. 25
रसा चानन्दिनी द्राक्षा गोस्तनी रसपूरका ।वार्ताकी प्रसहा क्षुद्रवार्ताकी दुष्प्रधर्षणी ॥ ३६ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.93 · p. 258
वीरसेनमथ द्राक्षा कृष्णापि तापसप्रिया ।प्रियाला स्याच्चारुगुच्छाऽमृतेभ्योपि फला पुनः ॥ ९३ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.40 · p. 179
मधूकपर्णी कायस्था मयूरा राजसी शिखा ।द्राक्षा फलोत्तमा स्वाद्वी प्रियाला काकमाचिका ॥ ४० ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.79 · p. 62
गुञ्जा तु कृष्णला तुल्ये विशाला चेन्द्रवारुणी ।हारहूरा तु मृद्वीका गोस्तनी द्राक्षया सह ॥ ७९ ॥
अनुष्टुप्
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त वृक्षलतौषधिमरीचिः Pañcatattvaprakāśa 1.4.210 · p. 15
मृद्वीका गोस्तनी द्राक्षा स्वाद्वी मधुरसाऽमृता ।मालतीसुमना जातिर्मुनिला नवमल्लिका ॥ २१० ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2073 · p. 343
द्राक्षा मधुरसा स्वाद्वी गोस्तना गोस्तनी तथा ।मृद्वीका हारहूरा च द्राक्षानामानि सन्ति वै ॥ २०७३ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.195 · p. 72
पीता लीत्याह्वये घण्टारवा तु शणपुष्पिका ।द्राक्षा मधुरसा स्याद्वी मृद्वीका गोस्तनी रसी ।त्रिपुटा रसना श्वेता रेचनी त्रिवृता त्रिवृत् ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्त्रीलिङ्गसङ्ग्रहः Śabdaratnāvalī 9.39 · p. 310
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.195 · p. 234
रसा द्राक्षा ध्राक्षा कण्ठ्यां त्रिकण्ट-त्रिकण्टकौ ।गोक्षुरो गोक्षुरु-क्षुरौ गोखुरो गिरिकर्णिका ॥ १९५ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 क्षा (syllables merged); pāda 3, syllable 7 क्षु (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.527 · p. 69
रोहिणो गन्धसारश्च गन्धश्चन्दनमस्त्रियाम् ।द्राक्षा तु गोस्तनी स्वाद्वी मृद्वीका कालमेषिका ॥ ५२७ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.181 · p. 60
द्राक्षायां कृष्णिका स्वाद्वी प्रियाला कालमेषिका ।हारभूरा दारुफला मृद्वीका गोस्तनी रसा ॥ १८१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दा (wrong syllable)
genderस्त्रीfem.

द्राक्षा as a meaning in nānārtha verses

  • धरणिकोश गोस्तनीहायनास्तु समाख्याता व्रीहिसंवत्सरार्चिषः । गोस्तनो हारभेदे च द्राक्षा तु गोस्तनी मता ॥ Dharaṇikośa 19.2.34
  • कोषकल्पतरु कृष्णकृष्णो विष्णुपराशरात्मजसुभद्रेशेषु काके पिके स्त्री द्राक्षाद्रुपदात्मजामगधजानीलीषु षण्ढे पुनः । लोहे स्यान्मरिचे च मेचकवति त्रय्यां च जिष्णुः पुनः कृष्णे भास्वति वासवे च विजये जेतर्यसौ वाच्यवत् ॥ १३ ॥ Koṣakalpataru 6.15.13
  • कोषकल्पतरु गोस्तनीउष्णीषकर्णपाल्योः परिभृत्य वेष्टनं क्लीबे । स्याद्गोस्तनस्तु हारे द्राक्षायां गोस्तनी गदिता ॥ ४९ ॥ Koṣakalpataru 6.21.49
  • कोषकल्पतरु मधुरसानृपोत्तमे स्यात्कलहंस आद्ये ऽवध्वंस उक्तोऽप्यवचूर्णनेऽपि । निन्दापरित्यागगतोऽथ मूर्वा- द्राक्षास्वपि स्यादिह दुग्धिकासु ॥ २५ ॥ Koṣakalpataru 6.31.25
  • नानार्थार्णवसंक्षेप कृष्णसविषास्तेषु चैकस्मिन् द्राक्षातिविषयोरपि । हिरण्याद्यास्तु याः प्रोक्ताः सप्त जिह्वाः शिवागमे ॥ २६६ ॥ Nānārthārṇavasaṃkṣepa 2.5.266
  • नानार्थार्णवसंक्षेप रसाशण्डेऽप्याहू रसा तु स्त्री दूर्वापातालभूमिषु । द्राक्षायामपि पाठायामथ रक्तं नपुंसकम् ॥ १०८१ ॥ Nānārthārṇavasaṃkṣepa 2.5.1081
  • नानार्थार्णवसंक्षेप स्वाद्वीमनोज्ञे च जले तु क्ली द्राक्षायां तु स्त्रियामियम् । स्वाद्वी क्लीबं तु पठितं शाकटायनसूरिणा ॥ १५०४ ॥ Nānārthārṇavasaṃkṣepa 2.5.1504
  • नानार्थार्णवसंक्षेप आनन्दीआनकः पटहे भेर्यामपि स्यादस्त्रियामथ । द्राक्षायां स्त्रीत्वं आनन्दी ना त्वानन्दः सुखे भवेत् ॥ १८२ ॥ Nānārthārṇavasaṃkṣepa 4.182
  • नानार्थार्णवसंक्षेप गोस्तनीगोस्तनी तु स्त्रियां द्राक्षाभेदेऽथो पुंन्नपुंसकम् । गोमुखो वाद्यभेदेऽथ क्लीबं स्यादुपलेपने ॥ ६८४ ॥ Nānārthārṇavasaṃkṣepa 4.684
  • नानार्थार्णवसंक्षेप पियालाद्राक्षायां स्यात् पियालाथ पिशितं स्यान्नपुंसकम् । मांसे स्त्रियां तु मास्या स्यात् पिण्डिलस्तु पुमानयम् ॥ ११६५ ॥ Nānārthārṇavasaṃkṣepa 4.1165
  • नानार्थार्णवसंक्षेप कालमेषीद्राक्षायां च द्वयोस्तु स्यात् काले मेषे द्वयोः पुनः । कालपुच्छो हि चमरमृगे स्यात् कृष्णवालधौ ॥ १६३ ॥ Nānārthārṇavasaṃkṣepa 6.163
  • नानार्थार्णवसंक्षेप दारुफलाद्राक्षायां स्याद्दारुफला समासाद्यत्र पूर्ववत् । दिवाचरस्तु ना शुक्रे समासादि च पूर्ववत् ॥ २७२ ॥ Nānārthārṇavasaṃkṣepa 6.272
  • नानार्थार्णवसंक्षेप स्वादुरसास्त्री तु साव्वँत्सरी श्राद्धे कर्तव्ये वत्सरात्यये । स्त्री तु स्वादुरसा द्राक्षाकाकोलीमदिरासु च ॥ ६६३ ॥ Nānārthārṇavasaṃkṣepa 6.663
  • शिवकोष कृष्णकणो ना सूक्ष्मधान्यांशे पिप्पलीजीरयोर्द्वयोः । कृष्णं मरीचे लोहे स्त्री नीलीद्राक्षाकणासु च ॥ १५३ ॥ Śivakoṣa 11.1.153
  • शिवकोष अमृताद्राक्षाकृष्णाभयाधात्रीछिन्नाकुल्यासु चामृता । अनन्तः पिप्पलेऽनन्ता दूर्वापथ्याकणासु च ॥ १८८ ॥ Śivakoṣa 12.2.188
  • शिवकोष मधुरामसूरमसुरौ पुंसि द्वावेतावपि चैतयोः । मधुरं विषे स्त्रियां द्राक्षामिश्रेयामागधीषु च ॥ ४०७ ॥ Śivakoṣa 22.3.407
  • शिवकोष मृद्वीमृद्वी द्राक्षातिविषयोर्यवाश्वप्रियइन्द्रियोः । लट्वाऽलक्ते करञ्जेऽपि विश्वा विश्वं च नागरे ॥ ५०० ॥ Śivakoṣa 24.1.500
  • शिवकोष रसास्त्री रास्नाशल्लकीपाठाद्राक्षामूर्वामुदीषु च । Śivakoṣa 27.1.3
  • शब्दरत्नावली कृष्णाकीर्णः श्लक्ष्णे विनिक्षिप्ते हिंसिते वाच्यलिङ्गकः । कृष्णो व्यासे वायसे च केशवार्जुनयोरपि । कृष्णा च द्रौपदी द्राक्षा कणा नीलीषु च स्त्रियाम् ॥ Śabdaratnāvalī 7.15.6
  • शब्दरत्नावली गोस्तनीग्रावा स्यात्पुंसि पाषाणे दृढे पृथ्वीधरेऽपि च । गृञ्जनो ना रसोने स्त्री निषाक्तपशुमांसके ॥ गोस्तनो ना हारभेदे द्राक्षायां स्त्री च गोस्तनी । गोमी पुंसि जम्बुके स्याद्गोमत्युपासके त्रिषु ॥ चलनं भ्रमणे कम्पे क्लीबं कम्पयुते त्रिषु । चलनी वस्त्रविधिन्यां वारीभेदे च कुत्रचित् ॥ चक्री काककुलालाजग्रामजालिकसूचके । सर्पे तैलिकभेदे स्याद्वासुदेवे च पुंस्ययम् ॥ चर्मी भृङ्गरिटौ भूर्जे मोचाफलकहस्तयोः । चर्म क्लीबन्तु फलके कृत्तौ त्वचि तु कुत्रचित् ॥ चेतनो वाच्यवत् प्राणयुक्ते च संविदि स्त्रियाम् । छर्दनं वमने क्लीबं पुंसि निम्बेऽप्यलम्बुषे ॥ छदनं चलने पक्षे पिधानेऽपि नपुंसकम् । छेदनन्तु द्विधा कार्ये कर्त्रनेऽपि च न द्वयोः ॥ जवनस्तु रये वेगिहये वेगवति त्रिषु ॥ Śabdaratnāvalī 7.20.55
  • शब्दरत्नावली मधुरसाभवेन्मधुरसा द्राक्षादुग्धिकामूर्विकासु च ॥ Śabdaratnāvalī 7.32.50
  • वैजयन्ती मधुरसामधुपर्णीत्यथ द्राक्षादूर्वे मधुरसेत्युभे । चुच्छुन्दर्यां राजपुत्री राजकन्या पिचिण्डके ॥ ८ ॥ Vaijayantī 8.2.8
  • वैजयन्ती स्वादुरसावैजयन्ती पताकायां जयन्त्यां केशवस्रजि । गुञ्जायूथ्यौ शिखण्डिन्यौ द्राक्षा स्वादुरसा सुरा ॥ ९ ॥ Vaijayantī 8.2.9