कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अशोक

aśokaपुं · masc.

In 19 kośas: 21 synonym verses, 8 as a nānārtha head word, 21 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.34 · p. 44
बकुलः केसरोऽशोकः कंकेल्लिः ककुभोऽर्जुनः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.26
मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः ।कन्दर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः ॥ २५ ॥शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः ।पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः ॥अरविन्दमशोकं च चूतं च नवमल्लिका ।नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः ॥उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा ।सम्मोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.64
एतस्य कलिका गन्धफली स्यादथ केसरे ।बकुलो वञ्जुलोऽशोके समौ करकदाडिमौ ॥ ६४ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.192 · p. 24
रम्भा कदली मोचा तृणराजः कथ्यते तलस्तालः ।कङ्केलिरशोकः स्यादाम्रश्चूतश्च सहकारः ॥ १९२ ॥
आर्या
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वादशोपदेशः Bālaprabodhikā 12.212 · p. 85
स्त्रीप्रियो वञ्चुलः शोके कङ्केलिः कर्णपूरकः ।अङ्कोले निचुलोऽपि स्याद्रसाले वरुणो रिपुः ॥ २१२ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम Gīrvāṇabhāṣābhūṣaṇa 34 · p. 4
अगरुः कृष्णसालः स्यान्नीलाञ्जनरसः स्मृतः ।कृतमाले सुवर्णः स्यादशोके सुरसुन्दरी ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम भूम्यधिकारस्तृतीयस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 3.24 · p. 24
कृतमाले सुवर्णः स्यादशोके कर्णपूरकः ।श्रीमान् सुगन्धस्तिलके कलस्तत्पुष्पसौरभम् ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.242 · p. 275
वासन्त्यमोघा कुम्भीकाऽप्यथाशोकस्तु वञ्जुलः ।मधुपुष्पः केलिकः स्याद्रक्तपर्यायपल्लवः ॥ २४२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव यज्ञादिप्रकाण्डः Kalpadrukośa 3.3.45 · p. 456
अरविन्दमशोकाख्यं चूतं च नवमल्लिका ।नीलोत्पलं तथा चान्ये प्राहुरुन्मादनः पुनः ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.71 · p. 469
नीलो मणौ रवौ मित्रस्तलस्तालचपेटयोः ।कोणेऽश्रिश्चषकोऽशोको नाभिः क्षत्रियवेधसोः ॥ ७१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.74 · p. 157
शिबी केसरकः सिंहः केसरो मेघदोहदः ।अशोको नरि कङ्केली रक्तमञ्जरिको नटः ॥ ७४ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.39 · p. 12
छन्ने तु करको वृक्षो मल्लिकाकुसुमप्रियः ।स्त्रीप्रियो वञ्चुलोऽशोकः कङ्केलिः कर्णपूरकः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.53 · p. 58
कङ्केल्लिस्तु तथाशोकः केसरो बकुलः समौ ।दाडिमे करकः पुंसि ------------------------ ॥ ५३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त वृक्षलतौषधिमरीचिः Pañcatattvaprakāśa 1.4.171 · p. 12
पिण्डीपुष्पो नटोऽशोकः कङ्केलिः शोकनाशनः ।केतकी कण्टकिदला मेध्या शङ्करदूषिता ॥ १७१ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त अण्डजमरीचिः Pañcatattvaprakāśa 6.3.370 · p. 26
नीलकण्ठो मणिग्रीवोऽशोकश्चाषः किकीदिविः ।ताम्रचूडः कुक्कुटकः कृकवाकुः पदायुधः ॥ ३७० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कु (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.76 · p. 329
कङ्केल्लिर्वञ्जुलोऽशोकोऽअशोकवृक्षस्य नाम वै ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.126 · p. 66
वरलब्धः सिधुगन्धो मुकुरो मुकुलोऽपि च ।वञ्जुलोऽशोक-कङ्काल्लि-नट-कान्ताङ्घ्रिदोहदाः ।दाडिमः पिण्डपुष्पोऽपि दाडिम्बः शुकवल्लभः ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण कालाध्यायः Śabdaratnākara 1.8.255 · p. 35
लवङ्गः पुण्ड्रकोऽशोक इत्याद्याः पुष्पिणो मधौ ।स्त्रीणां गीत्या प्रियालो विकसति तिलको वीक्षणासिन्धुवारःश्वासाद्धासान्नमेरुः कुरवकतरुरालिङ्गनादङ्घ्रिसंगात् ॥ २५५ ॥
अनुष्टुप्two metres in one verse
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.485 · p. 64
कुणवृक्षः पूतिवल्कस्तापसद्रुम इङ्गुदः ।स्त्रीप्रियो वञ्जोलोऽशोकः कङ्केलिः कर्णपूरकः ॥ ४८५ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 ञ्जो (wrong syllable)
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव वनौषधिवर्गः Trikāṇḍaśeṣa 2.4.19 · p. 39
सीधुगन्धोऽथ कङ्कोलिर्नटः कान्ताङ्घ्रिदोहदः ।अशोकः पिण्डपुष्पस्तु दाडिमः फलशाडवः ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.40 · p. 48
रोहिते रौहिषो रोही रक्तो रौहितकोऽपि च ।स्त्रीप्रिये वञ्जुलोऽशोकः कंकेलिः कर्णपूरकः ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास कार्धश्लोकः Dharaṇikośa 1.2.17 · p. 7
प्रतीकोऽवयवे ख्यातः प्रतिकूलप्रतीपयोः ।अशोकस्तरुभेदे स्यादशोकः शोकवर्जितः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.70 · p. 145
स्यात्सेवकः [प्र]सेवेपरवत्सेवाकरे प्रोक्तः ।मानद्रुमेऽप्यशोकोनिःशोके वाच्यवद्गदितः ॥ ७० ॥
metre not recognised
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.71 · p. 145
योषिति कटुरोहिण्यांसाधारण्येन पादपे क्लीबे ।आलोको वन्द्युक्ता-वुद्द्योते दर्शने पुंसि ॥ ७१ ॥
metre not recognised
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.65 · p. 52
अशोकः पुंसि कङ्केलिसंज्ञवृक्षे स्त्रियां पुनः ।अशोका कटुरोहिण्यां वीतशोके तु भेद्यवत् ॥ ६५ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास अकारादयः Paramānandīyanāmamālā 5.1.18 · p. 163
अशोको वीतशोके स्यात्कङ्केल्लौ वञ्जुलेऽपि च ।अशोका कटुरोहिण्यामभितः पार्श्वशीघ्रयोः ॥ १८ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र कत्रिः Śivakoṣa 1.3.13 · p. 2
अशोको वञ्जुले मानद्रुमेऽशोकं तु पारदे ॥ १३ ॥
शिवकोष Śivakoṣa · शिवदत्तमिश्र कत्रिः Śivakoṣa 1.3.14 · p. 2
अशोका कटुरोहिण्यां अम्लको नाम्लवेतसे ।स्त्री तु चिञ्चाम्लिकाकन्दचाङ्गेरीतिन्तिडीषु च ॥ १४ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.25 · p. 178
अशोकस्त्रिषु निःशोके पुमान् वञ्जुलभूरुहे ।स्त्रियां स्यात् कटुरोहिण्यां पारदे तु नपुंसकम् ॥
अनुष्टुप्

अशोक as a meaning in nānārtha verses