अनङ्ग
anaṅgaपुं · masc.In 16 kośas: 15 synonym verses, 5 as a nānārtha head word, 4 as a meaning of another word.
मदनो जराभीररुनङ्गमन्मथौ कमनः कलाकेलिरनन्यजोऽङ्गजः ।मधुदीपमारौ मधुसारथिः स्मरो विषमायुधो दर्पककामहृच्छयाः ॥ २२७ ॥प्रद्युम्नः श्रीनन्दनश्च कंदर्पः पुष्पकेतनः ।पुष्पाण्यस्येषुचापास्त्राण्यरी शंवरशूर्पको ॥ २२८ ॥केतनं मीनमकरौ बाणाः पञ्च रतिः प्रिया ।मनःशृङ्गारसंकल्पात्मानो योनिः सुहृन्मधुः ॥ २२९ ॥
metre not recognised
genderपुंmasc.
मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः ।कन्दर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः ॥ २५ ॥शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः ।पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः ॥अरविन्दमशोकं च चूतं च नवमल्लिका ।नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः ॥उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा ।सम्मोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
दर्पकः शूर्पकारातिरनङ्गो विषमायुधः ।आत्मभूर्मनसिशयः पुष्पधन्वा मनोभवः ॥ ३३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्म (wrong syllable)
genderपुंmasc.
कन्दर्पो दर्पकोऽनङ्गो मीनाङ्को मकरध्वजः ।शूर्पकारिर्मधुसखः पञ्चेषुर्विषमायुधः ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
इध्मः संकल्पजोऽनङ्गो-रागरज्जुरनन्यजः ।कलाकेलिर्जराभीर्वङ्गजौ शृङ्गारजो गवः ॥ ३२ ॥
अनुष्टुप्
genderपुंmasc.
कामः कन्तुः खरुर्मारः श्रीसुतो विषमायुधः ।कन्दर्पहृच्छयानङ्गजराभीरुरतिप्रियाः ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
शम्बरारिः पञ्चशरः प्रद्युम्नोऽनङ्ग आच्युतिः ।अम्बिका चण्डिका दुर्गा मृडानी मेनकात्मजा ॥ ३८७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
genderपुंmasc.
अनङ्गो मदनः कामो मारः पञ्चशरः स्मरः ।मनोभवो रतिपतिर्मन्मथो मकरध्वजः ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
अनन्यजोऽङ्गजोऽनङ्गः दर्पको विषमायुधः ।रागरज्जुर्जराभीरुः सर्वधन्वी प्रकर्षकः ॥ ३१२ ॥
अनुष्टुप्
genderपुंmasc.
रागरज्जुः कलाकेलिर्मधुदीपो रतिप्रियः ।कन्दर्पो मन्मथोऽनङ्गो दर्पको मकरध्वजः ॥
अनुष्टुप्
genderपुंmasc.
नाक-विष्णुपद-व्योम-नभं पुस्करमक्षरम् ।विहायसमनङ्गञ्च खमनन्तत्रिपिष्टपम् ॥
अनुष्टुप्
genderक्लीneut.
अनङ्गो मदनः पुष्पकार्मुको मीनकेतनः ।ब्रह्मसूस्त्वनिरुद्धः स्यादृश्यकेतुरुषापतिः ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
विधिहृदयमनङ्गो मृत्युरुर्वी नभस्वां-स्तपनशशिमयूखा जातवेदाश्च वेदाः ।अमृतमचिररोचिर्दक्षकन्ये जलं चत्रिदशपुरवधूनां जन्मनः कारणानि ॥ ८७ ॥
मालिनी
genderपुंmasc.
ऊर्ध्वदन्तश्चानिरुद्धो हरो भानुः स्वरः शशी ।मनश्चानङ्ग-कवचौ निगूढ अं-स्वरः स्मृतः ॥ १६ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 ढ (wrong syllable)
genderपुंmasc.
प्रद्युम्नो मन्मथः कामो मारो मनसिजः स्मरः ।कन्दर्पो दर्पकोऽनंगो मीनांको मकरध्वजः ॥ २७ ॥
अनुष्टुप्
genderपुंmasc.doubtful
अनङ्ग as a meaning in nānārtha verses
- धरणिकोश शरीरजशरीरजो गदोऽनङ्गः पुत्रश्चापि शरीरजः । भरद्वाजः स्मृतो धीरो मुनिपक्षिविशेष[20]योः ॥ Dharaṇikośa 7.2.10
- शारदीयाख्यनाममाला सारङ्गवीणावारणवाजिसिंहहरिणानङ्गप्रवालाचलाः चन्द्रश्चातकचञ्चरीकजलमुक्चापासिवज्राहयः । हंसः कोकिलकेकिकीरगरुडः स्वर्णानिलार्कास्तमो गुञ्जा श्रीफलपद्मदीपखटीकाः सारङ्गशब्दा इमे ॥ १२७ ॥ Śāradīyākhyanāmamālā 3.5.127
- तन्त्राभिधान तजयन्ती पुलको भ्रान्तिरनङ्गमदनातुरा ॥ १०५ ॥ Tantrābhidhāna 2.33.105
- वैजयन्ती अङ्गजअंगजो ना सुतेऽनंगे क्ली रोगे रुधिरेऽपि च । न ना कवाटे क्ली लोहे सोमे स्यादररः पुमान् ॥ १० ॥ Vaijayantī 7.5.10