कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अरविन्द

aravindaक्ली · neut.

In 14 kośas: 16 synonym verses, 1 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.79 · p. 45
कमलं नलिनं पद्ममरविन्दं कुशेशयम् ॥ ११६० ॥परं शतसहस्राभ्यां पत्त्रं राजीवपुष्करे ।बिसप्रसूनं नालीकं तामरसं महोत्पलम् ॥ ११६१ ॥तज्जलात्सरसः पङ्कात्परे रुड्रुहजन्मजाः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.26
मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः ।कन्दर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः ॥ २५ ॥शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः ।पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः ॥अरविन्दमशोकं च चूतं च नवमल्लिका ।नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः ॥उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा ।सम्मोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः ॥ २६ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वारिवर्गः Amarakośa 1.10.62
वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम् ॥ ३९ ॥सहस्रपत्रं कमलं शतपत्रं कुशेशयम् ।पङ्केरुहं तामरसं सारसं सरसीरुहम् ॥ ४० ॥बिसप्रसूनराजीवपुष्कराम्भोरुहाणि च ।
अनुष्टुप्
genderपुंक्लीm. n.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.680 · p. 77
राजीवमरविन्दं च पद्मं पङ्कजमिष्यते ।रक्तं कोकनदं प्रोक्तं पुण्डरीकं सिताम्बुजम् ॥ ६८० ॥
अनुष्टुप्
genderक्लीneut.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.113 · p. 18
पद्मरागोरविन्दः स्यान्मयूघास इतीर्यते ।गारुत्मतं मरकतं अश्मगर्भं हरिन्मणिः ॥ ११३ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.117 · p. 18
श्रीपत्रं नलिनं पद्ममरविन्दं महोत्पलम् ।पद्मालयं पद्मभवं जलजं च कुशेशयम् ॥ ११७ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.142 · p. 359
रक्ते तु स्यात् कुवलयं कुवेलं कुवलं कुवम् ।स्यादुत्पलं कोकनदमरविन्दमथापरम् ॥ १४२ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव यज्ञादिप्रकाण्डः Kalpadrukośa 3.3.45 · p. 456
अरविन्दमशोकाख्यं चूतं च नवमल्लिका ।नीलोत्पलं तथा चान्ये प्राहुरुन्मादनः पुनः ॥ ४५ ॥
अनुष्टुप्
genderक्लीneut.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र लताकाण्डः Nighaṇṭuśeṣa 3.328 · p. 177
कमले नलिनं पद्ममरविन्दं कुशेशयम् ।परं शतसहस्त्राभ्यां पत्रं राजीवपुष्करे ॥ ३२८ ॥
अनुष्टुप्
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 21 · p. 10
खरदण्डं कोकनदं पुण्डरीकं महोत्पलम् ।इन्दीवरं चारविन्दं शतपत्रं च पुष्करम् ॥ २१ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 को (wrong syllable)
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.81 · p. 62
राजीवमरविन्दं तु पुण्डरीकं सिताम्बुजम् ।रक्तोत्पलं तु रक्ताब्जं तत्स्यात्कोकनदं पुनः ॥ ८१ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.127 · p. 14
कमलं पुष्करं पद्ममरविन्दं कुशेशयम् ।अम्भोरुहं तामरसं राजीवं च महोत्पलम् ॥ १२७ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2090 · p. 346
कमलमऽरविन्दं च नालीकं नलिनं पुनः ॥ २०९० ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.134 · p. 45
विसप्रसूनं श्रीवासं श्रीपर्णमिन्दिरालयम् ।अरविन्दं जलेजातं नलिनञ्च महोत्पलम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्ण (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.357 · p. 48
निपानमवखातस्तु स्यादुत्कीर्णश्चुरी स्त्रियाम् ।पद्मोऽस्त्री शतपत्रं पङ्कजमरविन्दमम्बुजं नलिनम् ॥ ३५७ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश जलाध्यायः Vaijayantī 4.2.37 · p. 157
सरसीजं सरसिजं सारसं सरसीरुहम् ।सरोजमब्जमप्पुष्पमरविन्दम्महोत्पलम् ॥ ३७ ॥
अनुष्टुप्
genderक्लीneut.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.4 · p. 18
अवदातं कर्मणि स्यादितिवृत्तेऽवखण्डने ।सज्जनस्त्वप्रधानेऽथो अरविन्दं जलेऽम्बुजे ॥ ४ ॥
अनुष्टुप्

अरविन्द as a meaning in nānārtha verses