शम्बरारि
śambarāriपुं · masc.In 7 kośas: 7 synonym verses.
मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः ।कन्दर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः ॥ २५ ॥शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः ।पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः ॥अरविन्दमशोकं च चूतं च नवमल्लिका ।नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः ॥उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा ।सम्मोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
कन्दर्प-दर्पक-रतीश्वर-शूर्पकारि-प्रद्युम्न-मन्मथ-मनोज-खरु-स्वजा इः ।पञ्चेषु-पुष्पशर-हृच्छय-शम्बरारि-मीनाङ्क-मार-मकरध्वज-रौक्मिणेयाः ॥ ३० ॥
वसन्ततिलका
genderपुंmasc.
प्रद्युम्नः कमनः पुष्पकेतनो मकरध्वजः ।शम्बरारिः स्मरः पुष्पधन्वा दर्पकमन्मथौ ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
शम्बरारिः पञ्चशरः प्रद्युम्नोऽनङ्ग आच्युतिः ।अम्बिका चण्डिका दुर्गा मृडानी मेनकात्मजा ॥ ३८७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
genderपुंmasc.
शम्बरारिः शूर्पकारिः कामचिह्नं तु केतनम् ।मीनश्च मकरश्चापि तस्मात् स मीनकेतनः ॥ ३१७ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 स (wrong syllable)
genderपुंmasc.
शम्बरारिर्जवाभीरुर्मधुसारथिरङ्गजः ।संकल्पयोनिः पुष्पास्त्रः पुष्पधन्वा मनोभवः ॥
अनुष्टुप्
genderपुंmasc.
पुष्पधन्वा रतिपतिः शंबरारिरनन्यजः ।शूर्पकारिर्मधुसखः पञ्चेषुर्विषमायुधः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.doubtful