कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पञ्चशर

pañcaśaraपुं · masc.

In 5 kośas: 5 synonym verses.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.26
मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः ।कन्दर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः ॥ २५ ॥शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः ।पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः ॥अरविन्दमशोकं च चूतं च नवमल्लिका ।नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः ॥उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा ।सम्मोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त अण्डजमरीचिः Pañcatattvaprakāśa 6.3.387 · p. 27
शम्बरारिः पञ्चशरः प्रद्युम्नोऽनङ्ग आच्युतिः ।अम्बिका चण्डिका दुर्गा मृडानी मेनकात्मजा ॥ ३८७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण स्वर्गादिलोकपालाधिकारः प्रथमस्सर्गः Śabdacandrikā 1.23 · p. 36
झषकेतुर्जराभीरुः कामः पञ्चशरः स्मरः ।ब्रह्मात्मभूः पत्रिरथः पद्मभूः पङ्कजासनः ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.29 · p. 4
अनङ्गो मदनः कामो मारः पञ्चशरः स्मरः ।मनोभवो रतिपतिर्मन्मथो मकरध्वजः ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.44 · p. 4
स्यादेककुण्डलो रामो लाङ्गली मुष्टिकान्तकः ।कामः पञ्चशरो मारः प्रद्युम्नो मदनः स्मरः ॥
अनुष्टुप्
genderपुंmasc.