कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

निमिष

nimiṣaपुं · masc.

In 6 kośas: 8 synonym verses, 2 as a nānārtha head word.

तन्द्री तन्द्रा तन्द्रिका च निमेषनिमिषौ समौ ।गभीरमपि गम्भीरं स्यादुच्चैरुच्चकैरपि ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.151 · p. 37
भ्रुवौ स्त्रियां चिल्लिका स्यादस्त्रियां कूर्चकूर्पके ।नेत्ररोमणि पक्ष्मास्त्री निमेषनिमिषौ समौ ॥ १५१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.51 · p. 411
निमेषनिमिषौ तुल्यौ व्यापारे नेत्रपक्ष्मणोः ।अष्टादश निमेषास्तु काष्ठास्त्रिंशत्तु ताः कलाः ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कालवर्गः Koṣakalpataru 1.4.6 · p. 40
लघ्वक्षरोच्चारणतुल्यमात्रःकालो निमेषो निमिषोऽपि पुंसि ।द्वयोस्तुटिस्तौ दशभिस्तु ताभिःप्राणोऽथ षड्भिः किल तैर्विनाडी ॥ ६ ॥
उपजातिः
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.266 · p. 19
व्यञ्जनान्तमदन्तञ्च शब्दमेतद्द्विधा जगुः ।पक्ष्मस्पन्दनकाले तु निमेषो निमिषोऽपि च ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.318 · p. 103
अथापाङ्गौ च नेत्रान्तौ कटाक्षोपाङ्गदृष्टिषु ।निमेषो निमिषश्चैव भवेद्दृष्टिनिमीलने ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.159 · p. 201
कनीनिकायां तारा स्यात् तारकाऽप्यर्धवीक्षणे ।काक्षः कटाक्षो नेत्रस्य मीले मेष-मिषौ नितः ॥ १५९ ॥
अनुष्टुप्
genderपुंmasc.doubtful
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.90 · p. 143
असौम्येऽक्षण्यदृष्टिः स्यादवलोकस्त्वधः कृतः ।उन्मीलनं स्यादुन्मेषो निमिषस्तु निमीलनम् ॥ ९० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शान्ताः Koṣakalpataru 6.30.46 · p. 374
स्याद्धेमले ना निकषः स्त्रियां तुरक्षोजनन्यां नहुषोऽहिराज्ञोः ।पापेऽन्तिमे स्यात्कलुषं परस्मिं-स्तदाविले कल्मषरोगयोस्तु ।तथापराधेऽपि च किल्बिषं स्या-त्स्पन्दे दृशोः स्यान्निमिषो निमेषः ॥ ४६ ॥
इन्द्रवज्राtwo metres in one verse
शब्दरत्नावली Śabdaratnāvalī · मथुरेश षान्ताः Śabdaratnāvalī 7.31.21 · p. 293
नहुषो नागभेदे स्यात्सूर्यवंशनृपान्तरे ।निकषः शानफलके स्त्रियां राक्षसमातरि ॥निमेषनिमिषौ कालप्रभेदेऽक्षिनिमीलने ।परुषं कर्बुरे रूक्षे तथा निष्ठुरभाषणे ॥प्रदोषः पुंसि दोषे स्यात्तथा च समयान्तरे ।प्रत्यूषः स्याद्दिनमुखे चण्डांशुवसुभेदयोः ॥
अनुष्टुप्
meanings