तन्द्रा
tandrāस्त्री · fem.In 15 kośas: 21 synonym verses, 5 as a nānārtha head word, 1 as a meaning of another word.
निद्रा प्रमीला शयनं संवेशस्वापसंलयाः ।नन्दीमुखी श्वासहेतिस्तन्द्रा सुप्तं तु साधिका ॥ ३१३ ॥
अनुष्टुप्
genderस्त्रीfem.
आलस्यं तन्द्रा कौसीद्यं हर्षश्चित्तप्रसन्नता ॥ ३१५ ॥ह्लादः प्रमोदः प्रमदो मुत्प्रीत्यामोदसम्मदाः ।आनन्दानन्दथू गर्वस्त्वहंकारोऽवलिप्तता ॥ ३१६ ॥दर्पोऽभिमानो ममता मानश्चित्तोन्नतिः स्मयः ।
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 ह (wrong syllable)
genderस्त्रीfem.
लबाडच्छद्मना छद्म दम्भो डम्भं च लक्ष्यवत् ।प्रमीला तामसी तन्द्रा स्वापस्वप्नमनोलयाः ॥ १०८ ॥
अनुष्टुप्
genderस्त्रीfem.
तन्द्री तन्द्रा तन्द्रिका च निमेषनिमिषौ समौ ।गभीरमपि गम्भीरं स्यादुच्चैरुच्चकैरपि ॥ ५२ ॥
अनुष्टुप्
genderस्त्रीfem.
स्वप्नः स्वापश्च संवेशस्तन्द्री तन्द्रा प्रमीलिका ।अपि स्याद्विषया ज्ञानं प्रलयः प्रमिलापि च ॥ ३२१ ॥
अनुष्टुप्
genderस्त्रीfem.
स्वापोऽपि सुप्तं क्लीबेऽपि सुस्वापः सुखसुप्तिका ।इन्द्रियाणां तु सम्मोहे तन्द्रा नान्दीमुखीत्यपि ॥ १२८ ॥
अनुष्टुप्
genderस्त्रीfem.
अथ स्त्री योनिमत्सेनावीचीवम्रीतडिन्निशाम् ।वल्लीशस्त्रीदयाजिह्वाऽवटुतन्द्रानदीदिशाम् ॥ १ ॥
अनुष्टुप्
genderस्त्रीfem.
कालेशयनमाख्यातमासीनप्रचलायितम् ।तन्द्रिर्नन्दीमुखी तन्द्रा श्वासहेतिः प्रमीलिका ॥चक्रावर्तो भ्रमो भ्रान्ति[59b]र्भ्रमिर्घूर्णिश्च घूर्णनम् ।साधिका स्त्री सुषुप्तिः स्यात्सुप्तं स्वप्नेऽपि या मतिः ॥ १५७ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
शस्त्री-जिह्वावाचिवम्री-नदीनांज्योत्स्ना-लज्जा-भूमि-वीणा-मतीनाम् ।तन्द्रा-चीरी-गर्गरी-भ्रू-सुरा-गी-र्नासा-लक्ष्मी-रोचना-कृष्णलानाम् ॥ २८ ॥
शालिनी
genderस्त्रीfem.
नाडीपूर्वं व्रणं पुंसि भवति । अयं नाडीव्रणः । नाड्युपपद इति किम् । दुष्टव्रणम् । वृक्षादयः पुंसि भवन्ति । अयं वृक्षस्तरुः । जनो लोकः । पांसुश्चूर्णम् । कन्दुः स्वेदनी । कलशो घटः । पञ्जरादीनि इतरजातौ नपुंसके जानीयात् । इदं पञ्जरं शकुनिबन्धनम् । पलितं जरा । द्वन्द्वं वैरम् । अक्षरं वर्णः ।मेधारसनानिद्रातन्द्रातन्त्र्यः स्त्रियां समञ्जिष्ठाः ।मदिरा मन्दुराकृशरे स्यातां वाक्षदुन्दुभिश्च ॥ ६३ ॥
metre not recognised
genderस्त्रीfem.
निद्रासंवेशशयनप्रमीलाः श्वाससंहतिः ।तन्द्रानन्दीमुखीस्वापाः सुप्तं निद्राधिका पुनः ॥ २०८ ॥
अनुष्टुप्
genderस्त्रीfem.
उत्कण्ठारतिरौत्सुक्यं हृल्लेखायल्लके अपि ।तन्द्रा कौसीद्यमालस्यं जाड्यं मौर्ख्यं च मूढता ॥ २०९ ॥
अनुष्टुप्
genderस्त्रीfem.
स्त्रीलिङ्गे योनिमन्नाम वल्लीसेनातडिद्दिशाम् ।वम्रीतन्द्रानिशां ग्रीवादयाजिह्वाधियामपि ॥ ३१ ॥
अनुष्टुप्
genderस्त्रीfem.
निद्रा तन्द्रा प्रमीला च स्वापः संवेशसंलयौ ।उपांशुश्छन्नमेकान्तं विविक्तं विजनं रहः ॥ ९१ ॥
अनुष्टुप्
genderस्त्रीfem.
आधिश्चाथ प्रमीला स्यात् तन्द्रा तन्द्रिश्च तामसी ।तन्द्री नन्दीमुखी निद्रा श्वासहेतिश्च संलयः ॥ ४६० ॥
अनुष्टुप्
genderस्त्रीfem.
अथाऽनवस्थितिर्नाम चापलं च तदेव स्यात् ।तन्द्राऽऽलस्यञ्च कौसीद्यं स्याद्वै चित्तप्रसन्नता ॥ ४६५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 व (wrong syllable)
genderस्त्रीfem.
तन्द्री तन्द्रा प्रमीला च तन्द्रिका च प्रमीलनम् ।श्रमादिजनितालस्ये पञ्चकं परिकीर्तितम् ॥
अनुष्टुप्
genderस्त्रीfem.
त्रपा ह्री ह्रीकया ह्लीका, व्रीडा व्रीडो, मनःखिदि ।सादाऽवसादौ, निद्रायां, तन्द्रिस्तन्द्री च तन्द्रया ॥ १२२ ॥
अनुष्टुप्
genderस्त्रीfem.
इन्द्रजालं प्रमीला तु भृकुटिभ्रूकुटी स्त्रियौ ।तन्द्री तन्द्रा च कम्पस्तु वेपो वेपथुरेजनम् ॥ १०१५ ॥
अनुष्टुप्
genderस्त्रीfem.
तन्द्रा कौसीद्यमालस्यं प्रमादोऽनवधानता ।स्यादायल्लकमौत्सुक्यमुत्कण्ठोत्कलिका रतिः ॥ १७८ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रमीला तामसी तन्द्रा स्वापस्तु स्वप्नसंशयौ ।निद्रा गुडाका सुप्तं च स्वप्नस्त्वेवात्र दर्शनम् ॥ १९७ ॥
अनुष्टुप्
genderस्त्रीfem.
द्यूतेऽद्रयस्तु द्रुमशैलसूर्याऐन्द्रिर्जयन्तेऽपि च वायसे च ।शद्रिर्गजाम्भोधरजिष्णुवाचीनिद्राप्रमीलासु तु तन्द्रि-तन्द्रे ॥ ७४ ॥
इन्द्रवज्रा
meanings
तन्द्रा as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप मोहअजयस्त्वाह तन्द्रायामपि यज्ञस्तु केशवे । अग्नावात्मनि योगे च यक्ष्मस्तु व्याधिमात्रके ॥ ९७ ॥ Nānārthārṇavasaṃkṣepa 2.2.97