कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

निमीलन

nimīlanaक्ली · neut.

In 10 kośas: 14 synonym verses, 1 as a nānārtha head word, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.324 · p. 17
मृतिः संस्था मृत्युकालौ परलोकगमोऽत्ययः ॥ ३२३ ॥पञ्चत्वं निधनं नाशो दीर्घनिद्रा निमीलनम् ।दिष्टान्तोऽस्तं कालधर्मोऽवसानं सा तु सर्वगा ॥ ३२४ ॥
अनुष्टुप्
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.578 · p. 25
स्यादुन्मीलनमुन्मेषो निमेषस्तु निमीलनम् ॥ ५७८ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.628 · p. 71
निधनं नाशो मृत्युर्मरणं पञ्चत्वमत्ययः कालः ।संस्था स्याद्दिष्टान्तो निमीलनं दीर्घनिद्रा च ॥ ६२८ ॥
आर्या
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर षष्ठोपदेशः Bālaprabodhikā 6.112 · p. 76
कालधर्मस्तु दिष्टान्तो निपाको गमिरर्थकः ।कटमूषो भूमिलोभो दीर्घनिद्रा निमीलनम् ॥ ११२ ॥
अनुष्टुप्
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर सप्तमोपदेशः Bālaprabodhikā 7.139 · p. 78
उल्लोक उपदृष्टिः स्यात् अवलोकस्त्वधः कृतः ।उन्मीलनं स्यादुन्मेषो निमेषस्तु निमीलनम् ।स्फुरितं स्पन्दितं चाथ भ्रुकुटिर्भ्रकुटिर्भृटीः ॥ १३९ ॥
अनुष्टुप्
genderक्लीneut.
गणितनाममाला Gaṇitanāmamālā · हरदत्त राशिसञ्ज्ञा Gaṇitanāmamālā 4.46 · p. 3
निमीलनं च निधनं रंध्रमृत्युर्विनाशनम् ।छिद्रं वसु ततो भाग्यं धर्मं च नवमं तपः ॥ ४६ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.166 · p. 92
उन्मीलनं स्यादुन्मेषो निमेषस्तु निमीलनम् ।आघूर्णमानमध्या या क्षामान्ताञ्चिततारका ॥दृष्टिर्विकसितापाङ्गा [60a]मदिरा साभिधीयते ।निक्षणं चुम्बनं चुम्बो मेलके सङ्ग-संगमौ ॥ १६६ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.73 · p. 270
पञ्चत्वमस्तं मरणं निमीलनंतत्रावसानं निधनस्तु न स्त्रियाम् ।मारिश्च मारी मरकः स सर्वत-श्चित्या चिता स्याच्च चितिस्तथा स्त्रियाम् ॥ ७३ ॥
इन्द्रवंशा
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.243 · p. 131
उन्मीलनं तथोन्मेषो निमेषः स्थान्निमीलने ।क्रोधाद्भ्रुवो विकारस्तु भ्रकुटिर्भ्रूकुटिः समे ॥ २४३ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.476 · p. 59
मृत्युः कालो मृतिः संस्था कालधर्मो निमीलनम् ।पञ्चत्वमवसानं च तथा निधनमत्ययः ॥ ४७६ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.928 · p. 141
नयनमीलनं प्रोक्तं निमेषश्च निमीलनम् ।अक्ष्णोर्बाह्यान्तावपाङ्गौ भ्रूरूर्द्धे रोमपद्धतिः ॥ ९२८ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1824 · p. 221
उन्मीलनं स्यादुन्मेषो निमेषस्तु निमीलनम् ।भ्रूकुटिर्भ्रुकुटिः सारी रेचितं त्वल्प(त्वेक?)या भ्रुवा ॥ १८२४ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.201 · p. 99
कालधर्मस्तु दिष्टान्तो निपातो गमिरन्धकः ।कटमोषो भूमिलाभो दीर्घनिद्रा निमीलनम् ॥ २०१ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.90 · p. 143
असौम्येऽक्षण्यदृष्टिः स्यादवलोकस्त्वधः कृतः ।उन्मीलनं स्यादुन्मेषो निमिषस्तु निमीलनम् ॥ ९० ॥
अनुष्टुप्
genderक्लीneut.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.23 · p. 20
निरासे च वधे चाथ मरणे स्यान्निमीलनम् ।निमेषे मुकुलीभावेऽप्यथो निवसनध्वनिः ॥ २३ ॥
अनुष्टुप्

निमीलन as a meaning in nānārtha verses