निमेष
nimeṣaपुं · masc.In 15 kośas: 19 synonym verses, 4 as a nānārtha head word, 2 as a meaning of another word.
genderपुंmasc.
genderपुंmasc.
genderपुंmasc.
उल्लोक उपदृष्टिः स्यात् अवलोकस्त्वधः कृतः ।उन्मीलनं स्यादुन्मेषो निमेषस्तु निमीलनम् ।स्फुरितं स्पन्दितं चाथ भ्रुकुटिर्भ्रकुटिर्भृटीः ॥ १३९ ॥
अनुष्टुप्
genderपुंmasc.
तन्द्री तन्द्रा तन्द्रिका च निमेषनिमिषौ समौ ।गभीरमपि गम्भीरं स्यादुच्चैरुच्चकैरपि ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
भ्रुवौ स्त्रियां चिल्लिका स्यादस्त्रियां कूर्चकूर्पके ।नेत्ररोमणि पक्ष्मास्त्री निमेषनिमिषौ समौ ॥ १५१ ॥
अनुष्टुप्
genderपुंmasc.
निमेषनिमिषौ तुल्यौ व्यापारे नेत्रपक्ष्मणोः ।अष्टादश निमेषास्तु काष्ठास्त्रिंशत्तु ताः कलाः ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
लघ्वक्षरोच्चारणतुल्यमात्रःकालो निमेषो निमिषोऽपि पुंसि ।द्वयोस्तुटिस्तौ दशभिस्तु ताभिःप्राणोऽथ षड्भिः किल तैर्विनाडी ॥ ६ ॥
उपजातिः
genderपुंmasc.
उन्मीलनं स्यादुन्मेषो निमेषस्तु निमीलनम् ।आघूर्णमानमध्या या क्षामान्ताञ्चिततारका ॥दृष्टिर्विकसितापाङ्गा [60a]मदिरा साभिधीयते ।निक्षणं चुम्बनं चुम्बो मेलके सङ्ग-संगमौ ॥ १६६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
उन्मीलनं तथोन्मेषो निमेषः स्थान्निमीलने ।क्रोधाद्भ्रुवो विकारस्तु भ्रकुटिर्भ्रूकुटिः समे ॥ २४३ ॥
अनुष्टुप्
genderपुंmasc.
निमेषो नयनोन्मेषः पक्ष्म तारकृतोरणम् ।ओष्ठोऽधरो वक्त्रपर्णं[र्ण] हनुश्चिबुकपोत्रकम् ॥ ८६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
अष्टादश निमेषाः स्युः काष्ठा काष्ठाद्वयं भवेत् ।लवस्तु तैः कला पञ्चदशभिरपि ज्ञायताम् ॥ १२२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नयनमीलनं प्रोक्तं निमेषश्च निमीलनम् ।अक्ष्णोर्बाह्यान्तावपाङ्गौ भ्रूरूर्द्धे रोमपद्धतिः ॥ ९२८ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable)
genderपुंmasc.
व्यञ्जनान्तमदन्तञ्च शब्दमेतद्द्विधा जगुः ।पक्ष्मस्पन्दनकाले तु निमेषो निमिषोऽपि च ॥
अनुष्टुप्
genderपुंmasc.
अथापाङ्गौ च नेत्रान्तौ कटाक्षोपाङ्गदृष्टिषु ।निमेषो निमिषश्चैव भवेद्दृष्टिनिमीलने ॥
अनुष्टुप्
genderपुंmasc.
कनीनिकायां तारा स्यात् तारकाऽप्यर्धवीक्षणे ।काक्षः कटाक्षो नेत्रस्य मीले मेष-मिषौ नितः ॥ १५९ ॥
अनुष्टुप्
genderपुंmasc.doubtful
कालस्तु समयोऽनेहा दिष्टः सूक्ष्मस्तु स त्रुटिः ।अष्टौ तु ता निमेषस्तौ लिप्तिका स्यादमूर्नव ॥ २३० ॥
अनुष्टुप्
genderपुंmasc.
उन्मीलनं स्यादुन्मेषो निमेषस्तु निमीलनम् ।भ्रूकुटिर्भ्रुकुटिः सारी रेचितं त्वल्प(त्वेक?)या भ्रुवा ॥ १८२४ ॥
अनुष्टुप्
genderपुंmasc.
तौ निमेषो लिप्तिका तु तौ द्वौ काष्ठा तु ता नव ।ते द्वे लवो लवाः पञ्च कला दश च तद्द्वयम् ॥ ५३ ॥
अनुष्टुप्
genderपुंmasc.
स्याद्धेमले ना निकषः स्त्रियां तुरक्षोजनन्यां नहुषोऽहिराज्ञोः ।पापेऽन्तिमे स्यात्कलुषं परस्मिं-स्तदाविले कल्मषरोगयोस्तु ।तथापराधेऽपि च किल्बिषं स्या-त्स्पन्दे दृशोः स्यान्निमिषो निमेषः ॥ ४६ ॥
इन्द्रवज्राtwo metres in one verse
meanings
स्यात्सूक्ष्मकाले परुषं तु रूक्षेचित्रेऽन्यवन्निष्ठुरभाषके च ।स्यात्पूरुषाभः पुरुषो नरे चक्षेत्रज्ञपुंनागकवृक्षयोश्च ॥ ४७ ॥
इन्द्रवज्रा
meaningsसूक्ष्मकाल
doubtful
निवेशने च रचना स्थितिर्निषदने तथा ।निमेषोऽष्टादशांशे स्यात् काष्ठायाश्च निमीलने ॥ ११४ ॥
अनुष्टुप्
नहुषो नागभेदे स्यात्सूर्यवंशनृपान्तरे ।निकषः शानफलके स्त्रियां राक्षसमातरि ॥निमेषनिमिषौ कालप्रभेदेऽक्षिनिमीलने ।परुषं कर्बुरे रूक्षे तथा निष्ठुरभाषणे ॥प्रदोषः पुंसि दोषे स्यात्तथा च समयान्तरे ।प्रत्यूषः स्याद्दिनमुखे चण्डांशुवसुभेदयोः ॥
अनुष्टुप्
निमेष as a meaning in nānārtha verses
- हलायुधकोशः (अभिधानरत्नमाला) कालइराशब्दो बुधैर्ज्ञेयो भुवि वाच्यशनेऽम्भसि । निमेषादौ यमे वर्णे कालो मृत्यौ च कीर्त्यते ॥ Abhidhānaratnamālā (Halāyudha) 5.83
- नानार्थार्णवसंक्षेप निमीलननिरासे च वधे चाथ मरणे स्यान्निमीलनम् । निमेषे मुकुलीभावेऽप्यथो निवसनध्वनिः ॥ २३ ॥ Nānārthārṇavasaṃkṣepa 6.23