गभीर
gabhīraवि · adj.In 12 kośas: 11 synonym verses, 2 as a nānārtha head word.
genderविadj.
genderविadj.
अतलस्पर्शमगाधं गम्भीरं स्याद्गभीरमस्थागम् ।नावा तार्यं नाव्यं द्राग्भृतकं तत्क्षणोद्धृतं तोयम् ॥ ६४९ ॥
गीतिः
genderविadj.
तन्द्री तन्द्रा तन्द्रिका च निमेषनिमिषौ समौ ।गभीरमपि गम्भीरं स्यादुच्चैरुच्चकैरपि ॥ ५२ ॥
अनुष्टुप्
genderविadj.
परिवाहः परीवाहो जलोच्छ्वासेऽथ निम्नके ।गभीरमतलस्पर्शं गम्भारं चाप्यमी त्रिषु ॥ २५ ॥
अनुष्टुप्
genderविadj.
भवेदस्थाघमस्थागमस्ताघं च समार्थकम् ।निम्नं गभीरं गम्भीरमुत्तानं तु ततोऽन्यथा ॥ १३ ॥
अनुष्टुप्
genderविadj.
अस्थाघं च तथा प्रोक्तं निम्ने गम्भीरमुच्यते ।गभीरं शब्दभेदेनोत्तानं स्यात्तद्विलक्षणम् ॥ ३४८ ॥
अनुष्टुप्
genderविadj.
द्वीपोऽन्तरीपं तोयोत्थं शादो जंवीनकर्द्दमौ ।अगाधमतलस्पर्शं गभीरं निम्नकान्तरे ॥ २९१ ॥
अनुष्टुप्
genderक्लीneut.
गभीरं गम्भीरं निम्नमस्ताधार्थस्य वाचकम् ।उत्तानमुच्यते तत्र यत्र किञ्चिज्जलं भवेत् ॥ १८६२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 म्भी (wrong syllable)
genderविadj.
अप्रसन्नस्तु कलुषोऽनच्छ आविल इत्यपि ।अथ निम्नं गभीरञ्च गम्भीरञ्च गभीरकम् ॥
अनुष्टुप्
genderविadj.
सरिरं त्रिपकारं च पिप्पलं, स्यादगाधके ।अस्थाघमस्ताघा-ऽस्तागे गम्भीरं च गभीरवत् ॥ ९४ ॥
अनुष्टुप्
genderविadj.
गीतसत्यां च काञ्च्यां च स्त्रीत्येवमजयोऽपठीत् ।बहुवेदी गभीरं तु त्रिर्निम्ने वाचि तु स्त्रियाम् ॥ ६३० ॥
अनुष्टुप्
meaningsनिम्न
गभीरा द्यावापृथिव्योर्गभीरे इति नप् पुनः ।जलेऽथ त्रिषु गम्भीरं निम्ने हर्षस्तु बुद्धिमान् ॥ ६३१ ॥
अनुष्टुप्
meaningsजल