कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

नैचिकी

naicikīस्त्री · fem.

In 14 kośas: 16 synonym verses, 1 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1270 · p. 49
नैचिकी तूत्तमा गोषु पलिक्नी बालगर्भिणी ॥ १२७० ॥
अनुष्टुप्
genderस्त्रीfem.
अभिधानचिन्तामशिलोञ्छ Abhidhānacintāmaśiloñcha · जिनदेवमुनीश्वर तिर्यक्काण्डः Abhidhānacintāmaśiloñcha 4.112 · p. 4
नैचिकं नैचिकी च स्यान्मलिनी बालगर्भिणी ॥ ११२ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.118
अर्जुन्यघ्न्या रोहिणी स्यादुत्तमा गोषु नैचिकी ।
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.271 · p. 33
ऊधः स्यादापीनं पीनोध्नी पीवरस्तनी प्रोक्ता ।श्रेष्ठा च नैचिकी स्याद्द्रोणदुघा प्रचुरदुग्धा च ॥ २७१ ॥
metre not recognised
genderस्त्रीfem.
नैचिकी निचिकी च स्यान्नीचिकी नीचकस्तथा ।अनड्वाही छन्दसि स्याद् भाषायामनडुह्यपि ॥ २४० ॥
अनुष्टुप्
genderस्त्रीfem.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम Gīrvāṇabhāṣābhūṣaṇa 60 · p. 6
माहेयी वीरमाता च शुभा वञ्जुलिकापि च ।गौ रोहिणी महार्घ्या च सरसा नैचिकीति च ॥ ६० ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.42 · p. 285
नैचिकी तूत्तमा गोषु सैव स्याद्गोमतल्लिका ।वर्णादिभेदात्संज्ञाः स्युः शबलीधवलादयः ॥ ४२ ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.1.42 · p. 4
निःश्रेणिस्त्वधिरोहण्यां खर्जूरीभूरुहेऽप्यथ ।शेफालिकायां निर्गुण्डी सिन्दुवारेऽथ नैचिकी ॥ ४२ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.497 · p. 89
उस्रा करौटी घाटी च कमला मोदकारिणी ।बहुक्षीरादिसुगुणयुक्तायां नैचिकी मता ॥ ४९७ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2280 · p. 370
ककुत् चांऽशकूटं स्यात् ककुदं कुकुदं पुनः ।नैचिकं नैचिकी तस्य शिरो लोकेषु कथ्यते ॥ २२८० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2292 · p. 372
धेनुष्या पीतदुग्धा च संस्थिता दुग्धबन्धके ।नैचिकी स्यादुत्तमा गौः मलिनी बालगर्भिणी ॥ २२९२ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.132 · p. 146
अनड्वाही चानडुही त्विज्या चाघ्न्याऽर्जुनीत्यपि ।नैचिकी निचिकी सा स्यादुत्तमा गोषु या भवेत् ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.308 · p. 243
स्त्रीराट्चिह्ने शैलाग्रे श्रेष्ठेऽपि द्वयमन्तिमम् ।नैचिकं नैचिकी शीर्षे कूणिकायां तु कूणिवत् ॥ ३०८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ह्ने (syllables merged)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.753 · p. 96
नीली पिशङ्गी कल्माषी शोणी चेत्येवमादयः ।वर्णभेदेन संज्ञाः स्युरुत्तमा गोषु नैचिकी ॥ ७५३ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.46 · p. 68
नैचिकी गौर्गवां श्रेष्ठा भद्रा गौर्गोमतल्लिका ।काल्योपसर्या प्रजने पलिक्नी बालगर्भिणी ॥ ४६ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.60 · p. 70
नैचिकी गोः शिरोदेशः सास्ना तु गलकंबलः ।गोशकृद्गोमयो न स्त्री गोग्रन्थिः शुष्कगोमयः ॥ ६० ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.1.43 · p. 4
उत्तमायां गवि प्रोक्ता शिरोदेशे च सा गवाम् ।प्रक्रिया त्वधिकारे स्याच्छब्दस्योत्पादनेऽपि च ॥ ४३ ॥
अनुष्टुप्
doubtful