कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गोग्रन्थि

gogranthiपुं · masc.

In 11 kośas: 8 synonym verses, 4 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.92 · p. 49
तत्र शुष्के तु गोग्रन्थिः करीषछगणे अपि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व्यं (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.50 · p. 286
गवां मले गोमयोऽस्त्री भूमिलेपनमित्यपि ।साढो गोग्रन्थिरुपलोत्पले न स्त्री करीषवत् ॥पिष्टकं छगणं छाणं शुष्के गोमूत्र-गोजले ।आपीनोऽस्त्री क्लीबमूधः कीलः पुष्पलकः शिवः ॥तिष्ठद्गु त्वव्ययं दोहसमयः क[137a]थितो गवाम् ।स्यादायतीगवं तद्वद्यत्रागच्छन्ति धेनवः ॥ ५० ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.94 · p. 20
गोशकृद्गोमयोऽप्यस्त्री गोग्रन्थिः शुष्कगोमयः ।करिषं दोहलं हव्यं नकुलं गोधनं समे ॥ ९४ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.179 · p. 74
------------------------- आपीनं तूधसा सह ।गोमयं भूमिलेपोऽथ गोग्रन्थिः शुष्कगोमये ॥ १७९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2297 · p. 372
गोविट् गोमयमाख्यातं पवित्रं भूमिलेपनम् ।गोग्रन्थिः छगणं चैव करीषं शुष्कगोमयम् ॥ २२९७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.767 · p. 98
गोग्रन्थिर्गोमये शुष्के करीषोऽस्त्री च दोहलम् ।गोकुलं गोधनं जीवधनं चापि गवां व्रजे ॥ ७६७ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव वैश्यवर्गः Trikāṇḍaśeṣa 2.9.21 · p. 74
करकं गोमयच्छत्रे गोग्रन्थिः शुष्कगोमयम् ।करीषश्छगणो हम्भा रेभणं च गवां ध्वनौ ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.60 · p. 70
नैचिकी गोः शिरोदेशः सास्ना तु गलकंबलः ।गोशकृद्गोमयो न स्त्री गोग्रन्थिः शुष्कगोमयः ॥ ६० ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास थपादः Dharaṇikośa 16.1.3 · p. 89
निर्ग्रन्थः क्षपणे निःस्वे क्षवथुः क्षुतकासयोः ।मन्मथौ स्मरकपित्थौ सिद्धार्थौ बुद्धसर्षपौ ।गोग्रन्थिः करवीरे तु षड्ग्रन्था तु शटी वचा ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ थान्ताः Koṣakalpataru 6.18.12 · p. 233
निर्मन्थ उक्तोऽथ करीरगोष्ठ-दार्वीषु गोग्रन्थिरिति प्रदिष्टिः ।अथाव्यथोऽहौ नरि निर्व्यथेऽन्य-लिङ्गोऽभयायां गदितः स्त्रियां सः ॥ १२ ॥
उपजातिः
शिवकोष Śivakoṣa · शिवदत्तमिश्र थत्रिः Śivakoṣa 13.2.217 · p. 20
कायस्थामलकीछिन्नाप्रमथ्यातुलसीषु च ।गोग्रन्थिर्ना करीषे स्यादपि गोजिह्विकौषधौ ॥ २१७ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश थान्ताः Śabdaratnāvalī 7.17.12 · p. 227
कायस्था स्त्री हरीतक्यां ना नृजातिपरात्मनोः ।गोग्रन्थिर्गोष्ठगोजिह्वाकरीषेषु भवेत्पुमान् ॥
अनुष्टुप्