कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पितृव्य

pitṛvyaपुं · masc.

In 10 kośas: 9 synonym verses, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.553 · p. 24
जघन्यजे यविष्ठः स्यात्कनिष्ठोऽवरजोऽनुजः ।स यवीयान्कनीयांश्च पितृव्यश्यालमातुलाः ॥ ५५२ ॥पितुः पत्न्याश्च मातुश्च भ्रातरो देवृदेवरौ ।देवा चावरजे पत्युर्जामिस्तु भगिनी स्वसा ॥ ५५३ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.31
पितुर्भ्राता पितृव्यः स्यान्मातुर्भ्राता तु मातुलः ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.6 · p. 210
भ्राता पितृव्यो मातुस्तु तत्र मातुल-मामकौ ।मातुलानी मातुली च मामिका चास्य कामिनी ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.217 · p. 128
पितृव्यस्तु पितुर्भ्राता मातुलो मातृसोदरे ।पत्नीभ्राता मतः श्यालो देवरः पतिबान्धवे ॥ २१७ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.48 · p. 4
स्वसृजो भगिनीपुत्रः सोदर्य्यः सोदरात्मजः ।भ्रातृव्यो भ्रातृतनयः पितृव्यः पितृसोदरः ॥ ४८ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.884 · p. 133
पितुः पत्न्याश्च मातुश्च भ्राता लोके निगद्यते ।पितृव्यश्च तथा श्यालः मातुलः क्रमशोऽत्र वै ॥ ८८४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.177 · p. 95
पतिपत्न्योश्च पितरि श्वशुरः पूज्य इत्यपि ।पितृव्यो जनकभ्राता ज्येष्ठतातोऽग्रजो यदि ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1124 · p. 138
समे तोकमपत्यं द्वे औरस्यस्त्वौरसोऽप्युभौ ।स्वजातेऽथ पितृभ्राता पितृव्यो भगिनी स्वसा ॥ ११२४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.31 · p. 175
सहजः स्वसरो भ्राता कनिष्ठोऽवरजोऽनुजः ।पूर्वजस्त्वग्रजो ज्येष्ठः पितृव्याः सहजाः पितुः ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.

पितृव्य as a meaning in nānārtha verses

  • धरणिकोश पिण्डपिण्डं गन्धरसे गृहाग्रिमगृहे स्यात्पिण्डमाजीवने जङ्घायाः पिशिते तथौड्रकुसुमे दाने पितृव्येऽपि च । पिण्डौ सिह्लकगोलकौ च तगरीखर्जूरभेदौ स्मृतौ पिण्डी ज्ञाननिरूपणार्थक उपन्यासस्तथालाबुका ॥ Dharaṇikośa 12.2.7