कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

औरस

aurasaपुं · masc.

In 12 kośas: 11 synonym verses, 2 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.551 · p. 24
स्वजाते त्वौरसोरस्यौ मृते भर्तरि जारजः ।गोलकोऽथामृते कुण्डे भ्राता तु स्यात्सहोदरः ॥ ५५० ॥समानोदर्यसोदर्यसगर्भसहजा अपि ।सोदरश्च स तु ज्येष्ठः स्यात्पित्र्यः पूर्वजोऽग्रजः ॥ ५५१ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.28
स्वजाते त्वौरसोरस्यौ तातस्तु जनकः पिता ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.84 · p. 29
क्लीबे बीजं स्यादपत्यं तोकं तुगपि चास्त्रियाम् ।त्रिष्वालघ्वौरसौ रस्यौ धर्मपत्नीसमुद्भवे ॥ ८४ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.71 · p. 207
स्वजाते त्वौरसोरस्यौ सुतादौ क्षेत्रजोऽन्यजे ।अमृते जारजः कुण्डो मृते भर्त * [रि] गोलकः ॥ ७१ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.213 · p. 127
नटीसुतेऽथ नाटेरः कौलटेरोऽसतीसुतः ।औरस्येऽथौरसश्चैव क्षेत्रजो देवराङ्गजे ॥ २१३ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.57 · p. 5
पुत्रः सुतः स्वजः सूनुरात्मजस्तनयौरसौ ।पौत्रो नप्ता पुत्रपुत्रः पौत्री नप्त्री सुतात्मजा ॥ ५७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.577 · p. 132
औरसश्चाप्युरस्यो वै स्वस्त्रीजातः सुतो भवेत् ।
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.171 · p. 94
अथापत्यञ्च तोकञ्च द्वितीयं पुत्रकन्ययोः ।औरस्यमौरसञ्चेति स्वजातेऽपत्यमात्रके ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.143 · p. 200
स्वजाते त्वौरसौरस्यौ भवेद्गोलश्च गोलकः ।मृते पत्यौ जारजोऽथ भ्रातरि स्यात्सहोदरः ॥ १४३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1124 · p. 138
समे तोकमपत्यं द्वे औरस्यस्त्वौरसोऽप्युभौ ।स्वजातेऽथ पितृभ्राता पितृव्यो भगिनी स्वसा ॥ ११२४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.45 · p. 176
पौनर्भवः पुनर्भूज उरस्यस्त्वौरसः स्वजः ।नप्तारौ पौत्रदौहित्रौ प्रतिनप्ता प्रपौत्रकः ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.299 · p. 72
औजसं काञ्चनेऽथ स्यादोजःसम्बन्धिनि त्रिषु ।औरसो द्वे स्वजाते स्यात् पुत्त्रे ना सूक्ष्मजीरके ॥ २९९ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.300 · p. 72
उरःसम्बन्धिनि त्रिः स्यादौरभ्रस्तु पुमानयम् ।कम्बले मेषरोमोत्थे मेषसम्बन्धिनि त्रिषु ॥ ३०० ॥
अनुष्टुप्

औरस as a meaning in nānārtha verses