कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पिण्ड

piṇḍaपुं · masc.

In 18 kośas: 45 synonym verses, 13 as a nānārtha head word, 12 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.104 · p. 20
ग्रासो गुडेरकः पिण्डो गडोलः कवको गुडः ॥ ४२५ ॥गण्डोलः कवलस्तृप्ते त्वाघ्रातसुहिताशिताः ।
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.285 · p. 25
इन्द्रियायतनमङ्गविग्रहौ क्षेत्रगात्रतनुभूघनास्तनूः ।मूर्तिमत्करणकायमूर्तयो वेरसंहननदेहसंचराः ॥ ५६३ ॥घनो बन्धः पुरं पिण्डो वपुः पुद्गलवर्ष्मणी ।कलेवरं शरीरेऽस्मिन्नजीवे कुणपं शवः ॥ ५६४ ॥मृतकं रुण्डकबन्धौ त्वपशीर्षे क्रियायुजि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.158 · p. 40
लोहं कालायसं शस्त्रं पिण्डं पारशवं घनम् ॥ १०३७ ॥गिरिसारं शिलासारं तीक्ष्णकृष्णामिषे अयः ।
अनुष्टुप्
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.189 · p. 41
बोलो गन्धरसः प्राणः पिण्डो गोपरसः शशः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.37
कुम्भौ तु पिण्डौ शिरसस्तयोर्मध्ये विदुः पुमान् ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.98
लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी ।अश्मसारोऽथ मण्डूरं सिंहाणमपि तन्मले ॥ ९८ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.104
वोलगन्धरसप्राणपिण्डगोपरसाः समाः ॥ १०४ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.510 · p. 58
तनुस्तनूः संहननं शरीरं,कलेवरं विग्रहदेहकायाः ।अङ्गं वपुर्वर्ष्म पुरं च पिण्डं,क्षेत्रं च गात्रं च घनश्च मूर्तिः ॥ ५१० ॥
उपजातिः
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.127 · p. 34
जटुकः कालकश्चापि पिप्लुश्च तिल इत्यपि ।क्षेत्रं कलेवरं क्लीबे पिण्डोऽस्त्री विग्रहः पुमान् ॥ १२७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.307 · p. 166
ग्रासो गुडेरकः पिण्डो द्वयोर्गण्डोलको गुडः ।क्लीबे स्याद्गिरणं गीर्णिगीर्णी तुल्ये गिरिर्गिटी ॥ ३०७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.142 · p. 477
पिरजङ्गलसस्वातिपिटकामांसजन्तुषु ।मधुपिण्डौ सुरातन्वौ नामसेवालमध्ययोः ॥ १४२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शैलवर्गः Koṣakalpataru 2.2.68 · p. 132
लोहोऽस्त्री गिरिसारं स्याच्छिलासारमयो घनम् ।शस्त्रं पिण्डं पारशवं तीक्ष्णं कालायसं तथा ॥ ६८ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.17 · p. 177
रसगन्धो गन्धरसो बोलो जातीरसो रसः ।प्राणः शशश्च पिण्डश्च गोप-गोपरसावपि ॥गञ्जा पिका मातुलानी भङ्गिका विजया जया ।उन्मादि[नी] हर्षिणी स्याद्भङ्गराजस्तु मार्कवः ॥ १७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ग (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.44 · p. 213
पिण्डोऽस्त्री विग्रहः कायः सरः (संचरः) स्कन्धपञ्चरः (रौ) ।अप्तुर्घनो भूघनोऽङ्गमिन्द्रियायतनं पुरम् ॥ ४४ ॥
metre not recognisednearly अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.36 · p. 231
ताम्बूलदो वागुरिकः * * * [ताम्बूल]पिटकस्त्रिषु ।स्त्रियौ तु पेटा-मञ्जूषे पुटकं पुस्तकादिभृत् ।वंशजे भाजने पिण्ड-कण्डोलौ पिटक[96a]स्त्रिषु ।समुद्गकः संपुटकः प्रसेवः स्यूत इत्यपि ।कटस्त्रिषु किलिञ्जो नासने वीरणनिर्मिते ।कटकोणः(लः) प्रतिग्राहः पतद्ग्राहः पतद्ग्रहः ॥ ३६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.76 · p. 259
गुडः पिण्डो गडोलश्च गण्डोलः कवकोऽपि सः ।कवलोऽस्त्री स्वयं त्वेष बद्धः सिन उदीर्यते ।स्यात्सितोऽन्यस्तर्पणं तु तृप्तिः सौहित्यमित्य[131b]पि ॥ ७६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.90 · p. 314
प्रतिसारणमङ्गुल्या घर्षणं वदनादिषु ।पिण्डो रसक्रिया चूर्णस्तिस्रोऽञ्जनविकल्पनाः ॥ ९० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.92 · p. 314
रसक्रियावलेहः स्यात्पिण्डस्तु गुटिका मता ।आश्च्योतनं त्वक्षिसेकस्तस्य कालो निशा मता ॥ ९२ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंलिङ्गाधिकारः Koṣakalpataru 4.1.15 · p. 95
करण्ड-कूष्माण्ड-वरण्ड-रुण्ड-भारुण्ड-गुण्डा लगुडः शिखण्डः ।गुडः पिचण्डोऽथ जपाप्रसून-निवाप-कोपेषु च पिण्ड उक्तः ॥ १५ ॥
उपजातिः
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीपुंसलिङ्गाधिकारः Koṣakalpataru 4.4.22 · p. 109
genderपुंस्त्रीm. f.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.317 · p. 44
शस्त्रं पिण्डं शिलासारं गिरिसारमयोऽपि च ।तीक्ष्णकृष्णामिषे पारशवं तत्किट्टके पुनः ॥ ३१७ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.337 · p. 46
प्राणो गोपरसः पिण्डस्तथा गन्धरसः स्मृतः ।कुरुविन्दो हंसपादो हिङ्गुलोऽथ शिलाजतु ॥ ३३७ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.142 · p. 69
समानौ शिरसः पिण्डौ कुम्भौ तत्रान्तरं विदुः ।वातकुम्भः पुच्छमूले पेचकः कथितो बुधैः ॥ १४२ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.86 · p. 112
प्रातराशः कल्यवर्तः सग्धिः स्यात्सहभोजने ।गुडो गुडेरको ग्रासपिण्डौ कवक इत्यपि ॥ ८६ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंस्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.4.104 · p. 224
आकरार्थे तथा गञ्जो भूरुहे बाणपिप्पलौ ।वृन्दे गोले च पिण्डोऽपि वराटो रज्जुशस्त्रयोः ॥ १०४ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.127 · p. 227
जीवे सत्त्वो मधुर्मद्ये फलेऽप्यामलकस्तथा ।एकाद्रात्रः समाहारे तनौ पिण्डोऽपि कथ्यते ॥ १२७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.145 · p. 44
तुन्दं पिण्डश्च (पिचण्डः?) कुक्षौ स्यादंशे स्कन्ध इतीरितः ।बाहौ प्रवेष्टः पुंसि स्याद्दोरस्त्री परिकीर्तितः ॥ १४५ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.543 · p. 95
ताम्रे त्वौदुम्बरं शुल्बं दृ(ह्य?)ष्टं म्लेच्छमुखं रितिः(री?) ।वरिष्ठमथ तीक्ष्णं च शस्त्रकं पिण्ड इत्यपि ॥ ५४३ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.552 · p. 96
गैरेयं गिरिजं चार्थ(र्थ्य?)मश्मजं चाश्मकं तथा ।बोले तु स्याद्गन्धरसः प्राणः पिण्डोऽपि गोपनः ॥ ५५२ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.98 · p. 7
आत्मा गात्रं तनुः पिण्डं शरीरं पाञ्चभौतिकम् ।पर्वलेखाऽङ्गुलिग्रन्थिः पार्वी मुद्राङ्गुलीयके ॥ ९८ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.20 · p. 21
संहननं घनो बन्धः पुरः पिण्डं च पुद्गलम् ।हृषीकमक्षं करणं ग्रहणं च खमिन्द्रियम् ॥ २० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable)
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.642 · p. 84
ग्रासो गुडश्च गण्डोलो गडोलश्च गुडेरकः ।कवकः कवलः पिण्डश्चेत्यादि ग्रासनामकाः ॥ ६४२ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.901 · p. 136
अङ्गं गात्रं तनुः क्षेत्रं तनूः संहननं सिनम् ।वपुश्च पुद्गलः पिण्डः कायः प्रजनुकः पुरम् ॥ ९०१ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1791 · p. 293
लोहं शस्त्रं तथा तीक्ष्णं धीनं च धीवरं घनम् ।गिरिसारं शिलासारं पिण्डं पारशवं पुनः ॥ १७९१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.347 · p. 300
पिण्डः प्राणश्च नामाऽपि बोलस्य कथ्यते बुधै ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्य (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.265 · p. 100
क्षेत्रं तलुः कुलं पिण्डं कन्धं स्कन्धं कलेवरम् ।द्वेऽस्त्रियौ कायदेहौ च तनूर्मूर्तिस्तनुः स्त्रियः ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.57 · p. 141
वंशादिनिर्मिते भाण्डे कण्डोलः पिण्ड इत्यपि ।वीरणादिविरचिते स्यातां कटकिलिञ्जकौ ॥क्लीबे महानसं पाकस्थानं रसवती स्त्रियाम् ।स्यातां महानसाध्यक्षे पौरोगवपुरोगवौ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 दि (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.189 · p. 150
अस्त्रियौ लौहलोहौ च पिण्डं तीक्ष्नञ्च शास्त्रकम् ।कालायसायसी क्लीबे स्यादश्मसार इत्यपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्म (wrong syllable)
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.199 · p. 151
रसगन्धो गन्धरसः प्राणः पिण्डो रसः शशः ।वोलो गोपो गोपरसो वोलजो गोपकोऽपि च ।हिण्डीरः स्यादब्धिकफः फेणो हिण्डिर इत्यपि ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पर्वताध्यायः Śabdaratnākara 2.2.430 · p. 57
शुक्लधातौ पाकशुक्ला कंटिनी कर्कटी कटी ।बोलः पिण्डः शशः प्राणो गोलो गण्ड(न्ध?)रसो रसः ॥ ४३० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1060 · p. 132
देहोऽस्त्री विग्रहः कायः पिण्डो मूर्तिस्तनुस्तनूः ।वपुः संहननं वर्ष्म गात्रं क्षेत्रं कलेवरम् ॥ १०६० ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव मनुष्यवर्गः Trikāṇḍaśeṣa 2.6.19 · p. 52
जिह्वामलं तु कुलुकं पिप्पिका दन्तजे मले ।पिण्डोऽस्त्रियां कुलं क्षेत्रं शरीरं स्कन्धपञ्जरौ ॥ १९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव सङ्कीर्णवर्गः Trikāṇḍaśeṣa 3.2.27 · p. 90
अप्रतिरूपकथा स्यात्सङ्गणिका छोरणं परित्यागः ।स्यादुद्वर्धनमन्तर्हासस्त्रिषु पिण्डमाहारः ॥ २७ ॥
आर्या
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश शैलाध्यायः Vaijayantī 3.2.15 · p. 42
बोलो गोलः शशः पिण्डः प्राणो गन्धरसो रसः ।अभ्रकं व्योममेघाख्यं चक्रसंज्ञं नु माक्षिकम् ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.101 · p. 167
कबलः कबतो ग्रासो गुडः पिण्डो गुडेरकः ।गण्डोरश्च गडोलश्च चर्वणं चूषणं रदैः ॥ १०१ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास डश्लोकः Dharaṇikośa 12.2.7 · p. 46
पिण्डं गन्धरसे गृहाग्रिमगृहे स्यात्पिण्डमाजीवनेजङ्घायाः पिशिते तथौड्रकुसुमे दाने पितृव्येऽपि च ।पिण्डौ सिह्लकगोलकौ च तगरीखर्जूरभेदौ स्मृतौपिण्डी ज्ञाननिरूपणार्थक उपन्यासस्तथालाबुका ॥
शार्दूलविक्रीडितम्
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.111 · p. 473
श्रोण्यौषध्योः कटो मोहे भ्रमः कुम्भो घटेऽपि च ।वृन्दागोलकयोः पिण्डः स्फुलिङ्गलेशयोः कणः ॥ १११ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्ग (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ डान्ताः Koṣakalpataru 6.12.76 · p. 189
दण्डोऽस्त्री लगुडे बले मथि दमे मानेऽभिमाने यमेचण्डांशोश्च गणे घटीग्रहभिदाकोणे प्रकाण्डे हये ।गोण्डः पामरजातिगो नरि महानाभौ भवेद्भेद्यवत्द्वन्द्वे स्यात्कवले गणे च वपुषि त्वस्त्री गृहाङ्गे बले ॥ ७६ ॥
शार्दूलविक्रीडितम्
doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ डान्ताः Koṣakalpataru 6.12.77 · p. 190
सान्द्रे ना तु निवापसिल्हकजपापुष्पेषु लोहेऽन्तिमेखर्जूरीभिदि तुम्बि[276a] कासु तगरे पिण्डः स्त्रियां सम्मतः ॥ ७७ ॥
metre not recognised
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.770 · p. 108
पिण्डो गुडोरके पुंसि सङ्घाताजीवयोरपि ।अजयस्तु निवापेऽपि शब्दवित् प्राब्रवीदमुम् ॥ ७७० ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.771 · p. 109
पुङ्गले बोलसंज्ञे च भेषजे वपुषि त्वमुम् ।पुमांसं कश्चिदाह स्म शण्डं पिण्डी त्वियं स्त्रियाम् ॥ ७७१ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पकारादयः Paramānandīyanāmamālā 5.19.298 · p. 199
पिङ्गा गोरोचनागौर्योः पिङ्गं बालकपीतयोः ।पिण्डः सिह्ले जपापुष्पे वोलेऽपि कवलाङ्गयोः ॥ २९८ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र डद्विः Śivakoṣa 10.1.148 · p. 14
पिण्डं लोहे बले पिण्डो जयापुष्पे च सिल्हके ।पिण्ड्यलाबूतगरयोः पिण्डा खर्जूवरानिशि ॥ १४८ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश डान्ताः Śabdaratnāvalī 7.13.19 · p. 205
पिण्डो गृहैकदेशे ना बले बाणे च सान्द्रके ।पितृदाने देहमात्रे गोलसिह्लकयोरपि ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश डान्ताः Śabdaratnāvalī 7.13.20 · p. 205
ओड्रपुष्पे च पुंसि स्यात् पिण्डमाजीवलीहयोः ।स्यात्पिण्डी पिण्डतगरे तुम्बी खर्जूरभेदयोः ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1949 · p. 237
देशक्रिमीक्षुतिलकातिमुक्तेषु विशेषके ।पुण्ड्रः पिण्डस्तु वपुषि गुडे वृत्ते सुसंहते ॥ १९४९ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.114 · p. 130
पिण्डः सान्द्रे गृहांशेऽङ्गे पण्डः षण्डे मत स्त्रियाम् ।स्तम्बे शस्ते प्रकाण्डोऽस्त्री वरण्डो वदनामये ॥ ११४ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 6.1.31 · p. 216
नाशः पलायने मृत्यौ परिध्वंसेऽप्यदर्शने ।नग्ना वैतालिकाद्याश्च पिण्डो वृत्ते तनौ गुडे ॥ ३१ ॥
अनुष्टुप्

पिण्ड as a meaning in nānārtha verses