All kośas › Dharaṇikośa
धरणिकोश Dharaṇikośa
1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)
डान्ताः · डश्लोकः
॥ डश्लोकः ॥
काण्डं चावसरे बाणे नाले स्कन्धे च शाखिनाम् ।स्तम्बे रहसि वृन्दे च गर्ह्यपानीययोरपि ॥
12.2.1 · p. 45
अनुष्टुप्
भाण्डं भूषणमात्रे स्यात्तुरंगाभरणेऽपि च ।मूलं वणिग्धनं भाण्डं [भाण्डं] भाजन इष्यते ॥
12.2.2 · p. 45
अनुष्टुप्
कुण्डः स्यात्पतिवत्नीनां जारसंजनितः सुतः ।देवानां च जलाधारः कुण्डं कुण्डमुखा स्मृता ॥
12.2.3 · p. 45
अनुष्टुप्
गण्डो व्याधौ कपोले स्यादश्वभूषणबुद्धदे ।गण्डश्चाप्यतिगण्डश्च ग्रहयोगे प्रकीर्तितौ ॥
12.2.4 · p. 45
अनुष्टुप्
दण्डो दमे मानभेदे चण्डाशोः पारिपार्श्वके ।दण्डो लगुडमन्थानयमसैन्येषु वाजिनि ॥
12.2.5 · p. 45
अनुष्टुप्
चण्डो दैत्यान्तरे तीव्रे चण्डो दासे यमस्य च ।चण्डौषधिरुमा चण्डी चण्डी स्यात्कोपनाङ्गना ॥
12.2.6 · p. 45
अनुष्टुप्
पिण्डं गन्धरसे गृहाग्रिमगृहे स्यात्पिण्डमाजीवनेजङ्घायाः पिशिते तथौड्रकुसुमे दाने पितृव्येऽपि च ।पिण्डौ सिह्लकगोलकौ च तगरीखर्जूरभेदौ स्मृतौपिण्डी ज्ञाननिरूपणार्थक उपन्यासस्तथालाबुका ॥
12.2.7 · p. 46
शार्दूलविक्रीडितम्
ताडः स्मृतो देवताडे ताडी तालिदलद्रुमः ।मुष्टिमेयतृणादौ च ताडः स्यात्ताडनेऽपि च ॥
12.2.8 · p. 46
अनुष्टुप्
क्ष्वेडः कर्णामये शब्दे विषघोषकयोरपि ।योधानां सिंहनादोऽपि क्ष्वेडा वाद्यं च वैणवम् ॥
12.2.9 · p. 46
अनुष्टुप्
गुडः स्याद्धस्तिसंनाहे गुडो गोलेक्षुपाकयोः ।[26] गुडा तु गुडिका ज्ञेया स्नुही च कथिता गुडा ॥
12.2.10 · p. 46
अनुष्टुप्
कुष्माण्डः स्यात्तु कर्कारुः कुष्माण्डः प्रमथान्तरम् ।औषधिश्चापि कुष्माण्डी [कुष्माण्डी] चण्डिका स्मृता ॥
12.2.11 · p. 46
अनुष्टुप्
अपोगण्डस्तु वलिभिर्व्याप्तदेहः प्रकीर्तितः ।शिशुर्दशसमा यावदपोगण्डः स्मृतो बुधैः ॥
12.2.12 · p. 47
अनुष्टुप्