पिशाच
piśācaपुं · masc.In 14 kośas: 16 synonym verses, 2 as a nānārtha head word, 9 as a meaning of another word.
स्युः पिशाचा भूता यक्षा राक्षसाः किंनरा अपि ।किंपुरुषा महोरगा गन्धर्वाश्चान्तरा अमी ॥ ९१ ॥
metre not recognised
genderपुंmasc.
विद्याधराप्सरोयक्षरक्षोगन्धर्वकिन्नराः ।पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
यक्षराक्षसगन्धर्वसिद्धकिन्नरगुह्यकाः ।विद्याधराप्सरोभूतपिशाचा देवयोनयः ॥ ८७ ॥
अनुष्टुप्
genderपुंmasc.
विद्याधराप्सरोयक्षरक्षोगंधर्वकिंनराः ।पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
अस्रपः कर्वरोऽपि स्यात् क्रव्यादो जातुधानकः ।क्रव्याच्चापि पिशाचश्च कापिशेयोऽस्य मातरि ॥ ६१ ॥
अनुष्टुप्
genderपुंmasc.
विद्याधराः किंपुरुषाः पिशाचारक्षांसि यक्षाः सुरगाथकाश्च ।कद्रूसुता गुह्यकसिद्धभूताःकान्ता दिवो दैवतयोनयः स्युः ॥ १२ ॥
इन्द्रवज्रा
genderपुंmasc.
पुरी वस्वौकसाराऽस्य तस्यामेवालका प्रभा ।यक्षो बकः [17b] पुण्यजनः पिशाचो भूतमस्त्रियाम् ।…गुह्यकस्तु वटान[श्र]यः ॥ १७२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
महाराजिकरुद्राद्याः साध्याः प्रोक्ता गणेश्वराः ।किन्नराप्सरसःसिद्धा रक्षोभूतपिशाचकाः ॥ ३५१ ॥
अनुष्टुप्
genderपुंmasc.
विद्याधराप्सरोयक्षरक्षोगन्धर्वकिंनराः ।पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः ॥ ५० ॥
अनुष्टुप्
genderपुंmasc.
स्युः पिशाचाश्च भूताश्च यक्षाश्च राक्षसास्तथा ।ततश्च किन्नरा देवाः किंपुरुषा महोरगाः ॥ ७३ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable); pāda 4, syllable 3 रु (wrong syllable)
genderपुंmasc.
रक्षःपिशाचभूताश्च गुह्यका देवयोनयः ।असुरे स्युर्दितिसुताः पूर्वदेवाः क्रतुद्विषः ॥
अनुष्टुप्
genderपुंmasc.
विद्याधराप्सरः सिद्धयक्षराक्षसगुह्यकाः ।पिशाचभूतगन्धर्वकिंनराः सुरयोनयः ॥ ८३ ॥
अनुष्टुप्
genderपुंmasc.
पिशाचाः कापिशेयाः स्युः सिद्धास्तु सनकादयः ।सुधा त्वमृतपीयूषे सुधर्मा दिविषत्सभा ॥ ९० ॥
अनुष्टुप्
genderपुंmasc.
पिशाचो मेघनादस्तु वरुणो वः परञ्जयः ।दैत्यदेवश्च वातिस्तु नभःप्राणो जगद्बलः ॥ ७४ ॥
अनुष्टुप्
genderपुंmasc.
स्याद्वर्मणः पिच्छिलत्वग्धवस्तु मधुरत्वचः ।पिशाचः पीतफलः शाकोटः कर्कशच्छदः ॥ १३ ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
विद्याधरास्तु द्युचराः खेचराः सत्ययौवनाः ।पिशाचः स्यात् कापिशेयो ऽनृजुर्दर्वश्च पिण्डकः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
पिशाचस्तु द्वयोर्दैवजातिभेदेऽथ भेद्यवत् ।उन्मादिनीत्यय चार्थः शाकटायनभाषितः ॥ ११६३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 य (wrong syllable)
पिशाच as a meaning in nānārtha verses
- धरणिकोश भूतभूतं क्ष्मादौ पिशाचादौ न्याय्ये जन्तूपमानयोः । भूतं प्राप्तेऽपि वृत्ते च देवयोन्यन्तरेऽपि च ॥ Dharaṇikośa 15.3.4
- धरणिकोश सत्त्वसत्त्वं द्रव्ये स्वभावेऽपि पिशाचादौ गुणे रसे । आयुधे व्यवसाये च वृद्धौ प्राणेषु जन्तुषु ॥ Dharaṇikośa 28.3.3
- कोषकल्पतरु भूतसत्ये व्यतीतेऽप्युचितोपमान- प्राप्तप्रवृत्तेषु विशेष्यगामि । भूम्यादिपञ्चस्वपि चेतनेऽन्त्ये प्रेते पिशाचेऽपि च भूतमस्त्री ॥ १५ ॥ Koṣakalpataru 6.16.15
- कोषकल्पतरु सत्त्वस्त्री तेजनीस्पृक्क्षितिपाङ्गनासु सत्त्वोऽस्त्रियां जन्तुपिशाचयोश्च । गुणेऽसुषु क्लीबमिहात्मतायां द्रव्ये स्वभावे व्यवसायधाम्नोः ॥ ९९ ॥ Koṣakalpataru 6.29.99
- नानार्थार्णवसंक्षेप सत्त्वमाहात्म्ये पौरुषे त्वस्त्री पिशाचादौ च जन्तुषु । प्राणे चाथ समं तुल्ये साधौ च त्रिषु स त्वयम् ॥ १४४१ ॥ Nānārthārṇavasaṃkṣepa 2.5.1441
- शब्दरत्नावली सूचकसूचकः पिशुने काके बिडाले बोधके शुनि । सीवनद्रव्यभेदे च वृद्धे सिद्धपिशाचयोः ॥ Śabdaratnāvalī 7.1.151
- शब्दरत्नावली जजो विषे वेगिते भुक्तौ तेजः पिशाचजेतृषु । जूः स्याद्वियतिभारत्यां पिशाच्यां यवने स्त्रियाम् ॥ Śabdaratnāvalī 7.8.1
- शब्दरत्नावली भूतभूतिः स्यात्कुम्भिशृङ्गारभस्मसम्पत्त्रिषु स्त्रियाम् । अथ भूतं पृथिव्यादौ पिशाचादिषु जन्तुषु ॥ Śabdaratnāvalī 7.16.34
- वैजयन्ती सत्त्वआत्मभावे पिशाचादौ द्रव्ये सत्तास्वभावयोः । प्राणे बलेऽन्तः करणे स्वामी पत्यौ षडानने ॥ ९४ ॥ Vaijayantī 6.5.94