चमस
camasaपुंक्ली · m. n.In 8 kośas: 8 synonym verses, 3 as a nānārtha head word.
निर्यासांसोपवासानां मांसवीतंसयोरपि ।चमसांसयोश्च गेहस्य निवहस्य गृहस्य च ॥ १९२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंक्लीm. n.
खड्गप्रतिकृतिः स्फ्यः स्यात्सोमपानस्य भाजने ।चमसस्त्रिषु शम्या तु दृषदानहनी च सा ।शम्यायास्तु स्थविष्ठोऽन्तः प्रोच्यते कुम्बमन्तिमे ॥ ६७ ॥
अनुष्टुप्
genderविadj.
कार्पास-कांस-चमसाः पनसोपवासौस्यादिष्वसः सदिवसोऽपि रसो बुसोऽपि ।दोर्वद्विहाय उदितं हृदये तु वत्संमाघे तपोऽथ नृपनाम्नि तथैव कंसः ॥ ७३ ॥
वसन्ततिलका
genderपुंक्लीm. n.
एते स्त्रियां भवन्ति । हानिरपचयः । ग्लानिरशक्तिः । वापी पुष्करिणी । विपणी पण्यवी[वि]थिका । सारी पटोलिका । स्वाहा मन्त्रावसानम् । लक्ष्म्यादयः स्त्रियां भवन्ति । इयं लक्ष्मीः श्रीः । मनःशिला धातुद्रव्यम् । इयमुपानत् पन्नध्री । स्थाण्वादयः पुंसि भवन्ति । अयं स्थाणुः शिवः कीलश्च । अणुः सूक्ष्मः । ज्वरो रोगः ।पुंसि स्यात्प्राग्वंशस्त्रिषु लिङ्गेषु शृङ्खलं विद्धि ।चमसस्तम्भनिदाघ[घः]पशुशूकविटकाश्च पुंस्युक्ताः ॥ ७६ ॥
metre not recognised
genderपुंmasc.
वीतंसमासं चमसांसकांसाःकर्पासमाकाशमथोपवासः ।बुसेत्थुसेचिक्कसगेहचाटुतनूरुहं देहगृहेऽथ बर्हः ॥ १६३ ॥
उपजातिः
genderपुंक्लीm. n.
चमसी चमसश्चापि पिष्टवर्त्तिरपीष्यते ।वटको वटकञ्चावसेकिमश्च निगद्यते ॥ ५९५ ॥
अनुष्टुप्
genderपुंmasc.
तद्विशेषाः शरावाग्राः स्त्रीजुहूरुपभृत् ध्रुवा ।यज्ञवस्तुनि पात्रीरः चमसं सोमपात्रके ॥
अनुष्टुप्
genderक्लीneut.
चमसोऽस्त्रीति पात्राणि वायव्यं सौमिके त्रिषु ।परिप्लवार्थदण्डा स्रुक् दर्वी तु घृतलेखनी ॥ १०१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
खादने चमसो न स्त्री यज्ञपाने परः पुनः ।कर्णावयवभेदे चेत्याह मेधे तु पुंस्ययम् ॥ ७२२ ॥
अनुष्टुप्
ओक आश्रयमात्रे स्यान्मन्दिरे च नपुंसकम् ।कीकसं क्रिमिजातौ स्यात्क्लीबं कुल्ये तु कर्कशे ।चमसा पिष्टके यज्ञपात्रभेदे नपुंसकम् ॥
अनुष्टुप्