कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

ब

ba

In 4 kośas: 0 synonym verses, 11 as a nānārtha head word.

कोषकल्पतरु Koṣakalpataru · विश्वनाथ बान्ताः Koṣakalpataru 6.24.1 · p. 274
प्रचेतसि स्यात्कलहस्तथा बो
इन्द्रवज्राmetre not read in every line
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास प्रथमः परिच्छेदः Paramānandīyanāmamālā 1.31 · p. 4
फो झंझापवने फेने फूर्वातूलककुब्वचोः ।विण्नरेऽवस्करे वैश्ये बः पद्मघटयोरपि ॥ ३१ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश बान्ताः Śabdaratnāvalī 7.23.1 · p. 250
बकारो वरुणे कुम्भे बिः पक्षिण्यथवीर्गतौ ।
अनुष्टुप्
तन्त्राभिधान Tantrābhidhāna · अज्ञात मन्त्राभिधान Tantrābhidhāna 1.23 · p. 3
फ-कारश्च महेशानि! शिखी चैव जनार्दनः ।ब-कारो भूधरश्चैव दश गण्डो वरानने! ॥ २३ ॥
अनुष्टुप्
बोऽवनी भूधरो मार्गो घर्घरी लोचनप्रियः ।प्रचेताः कलसः पक्षी छगलण्डः कपर्दिनी ॥ १२८ ॥
अनुष्टुप्
पृष्ठवंशोऽभया माता शिखिवाहो युगन्धरः ।मु(सु)खबिन्दुर्बली घण्टा योद्धा त्रिलोचनप्रियः ॥ १२९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्रि (wrong syllable)
क्लेदिनी तापिनी भूमिः सुगमिन्द्रो बलिः प्रियः ।सुरभिर्मुख-विष्णू च संहारो वसुधाधिपः ॥ १३० ॥
अनुष्टुप्
षष्ठी पुरं च पेटा च मोदको गगनं प्रति ।पूर्वाषाढा-मध्यलिङ्गे शनिः कुम्भ-तृतीयकौ ॥ १३१ ॥
अनुष्टुप्
तन्त्राभिधान Tantrābhidhāna · अज्ञात एकाक्षरकोषः Tantrābhidhāna 3.26 · p. 25
वक्षःस्थले च बः प्रोक्तो गदायां समुदाहृतः ।नक्षत्रं भं बुधैः प्रोक्तं भ्रमरे भः प्रकीर्त्तितः ॥ २६ ॥
अनुष्टुप्
तन्त्राभिधान Tantrābhidhāna · अज्ञात बीजनिघण्टु Tantrābhidhāna 4.1 · p. 27
अ विद्युज्जिह्वा, आ कालवज्री, इ गर्जिनी,ई धूम्रभैरवी, उ कालरात्रिः, ऊ विदारी, ऋ महारौद्री,ॠ भयङ्करी, ऌ संहारिणी, ॡ करालिनी, ए ऊर्ध्वकेशी,ऐ उग्रभैरवी, ओ भीमाक्षी, औ डाकिनी, अं रुद्रराकिणी,अः चण्डिका, क क्रोधीशः, ख वामनः, ग चण्डः,घ विकारी, ङ उन्मत्तभैरवः, च ज्वालामुखः, छ रक्तदंष्ट्रः,ज असिताङ्गः, झ वडवामुखः, ञ विद्युन्मुखः, ट महाज्वालः,ठ कपाली, ड भीषणः, ढ रुरुः, ण संहारी, त भैरवः,थ दण्डी, द बलिभुक्, ध उग्रशूलधृक्, न सिंहनादी,प कपर्दी, फ करालाग्निः, ब भयङ्करः, भ बहुरूपी,म महाकालः, य जीवात्मा, र क्षतजोक्षितः, ल बलभेदी,व रक्तपटः, श चण्डीशः, ष ज्वलनध्वजः, स धूमध्वजः,ह व्योमवक्त्रः, क्ष त्र्यैलोक्यग्रसनात्मकः ॥
metre not recognised
तन्त्राभिधान Tantrābhidhāna · अज्ञात मध्वाचार्यविरचितमातृकानिघण्टु Tantrābhidhāna 6.40 · p. 44
पृष्ठवंशो गणेशश्छगलण्डः पुरुषोत्तमः ।बलवान् वज्रमुष्टिश्च सुरसो बा-र्णकः स्मृतः ॥ ४० ॥
अनुष्टुप्