कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गगन

gaganaक्ली · neut.

In 20 kośas: 18 synonym verses, 17 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.163 · p. 10
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह व्योमवर्गः Amarakośa 1.2.1
द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम् ।नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम् ॥वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी ।विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम् ॥तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम् ।विहायाः शकुने पुंसि गगने पुन्नपुंसकम् ॥ १ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.137 · p. 17
नभो मरुद्वर्त्म वियद्विहाय-स्तारापथः पुष्करमन्तरिक्षम् ।व्योमाम्बरं विष्णुपदं च खं द्यौ-र्विहायसा स्याद्गगनं तथा द्युः ॥ १३७ ॥
उपजातिः
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वितीयोपदेशः Bālaprabodhikā 2.32 · p. 68
आकाशश्च नभो व्योम गगनं सुरवर्त्म खम् ।महाबिलं शब्दगुणं तारकापथमित्यपि ॥ ३२ ॥
अनुष्टुप्
genderक्लीneut.
गणितनाममाला Gaṇitanāmamālā · हरदत्त एकाद्यङ्कानां सञ्ज्ञा Gaṇitanāmamālā 3.26 · p. 2
गोनन्दाङ्कनवानां च ग्रहखेटा खगास्तथा ।शून्याभ्रगगनं व्योम खमंबर नभो वियत् ॥ २६ ॥
अनुष्टुप्
genderक्लीneut.
गणितनाममाला Gaṇitanāmamālā · हरदत्त राशिसञ्ज्ञा Gaṇitanāmamālā 4.47 · p. 3
त्रिकोणं च तथाकाशं व्यापारं दशमं विपत् ।कर्माम्बराख्यं व्योमं च गगनं पुष्करं नभः ॥ ४७ ॥
अनुष्टुप्
genderक्लीneut.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम अन्तरिक्षाधिकारो द्वितीयस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 2.1 · p. 20
अन्तरिक्षं नभो व्योम गगनं सुरवर्त्म खम् ।वियद्विष्णुपदं दिव्यं वायुवर्त्म विहायसम् ॥ १ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव अङ्कुरोद्गमः Kalpadrukośa 1.1.22 · p. 3
पुंस्याकाशः क्लीबपुंसोर्विहायाः षण्नभोम्बरम् ।पुष्करं व्योम गगनमनन्तं खं दिवं वियत् ॥ २२ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.1 · p. 25
व्योमाम्बरं पुष्करमन्तरिक्ष-मत्रान्तरिक्षे सरकोऽस्त्रियां खम् ।अनन्तमाष्ट्रं गगनं वियच्चनभो नभाकं नभसो नभश्च ॥ १ ॥
उपजातिः
genderक्लीneut.
अयं मुण्डो मुण्डितशिराः ।नितम्बः पश्चाद्भागः स्त्रीकट्याः । ह्रस्वशाखामूलको वृक्षः क्षपः । गुल्मः शाखापत्रप्रावरणः । सानुः पर्वतैकदेशः । अङ्कश्चिह्नम् । वंशोऽन्वयः । पूगः क्रमुकः । शङ्खः कम्बुः । रथः स्यन्दनः । नपुंसकाधिकारात् जघनादयो नपुंसके स्युः । इदं जघनं कटिप्रदेशः । अम्बरमाकाशं वस्त्रं च । फलं वृक्षादीनाम् । मूलं शिफा । अङ्गमवयवः ।क्षीरोदस्विन्नवनीतवर्षकुण्डाण्डघृतभगगगनानि ।विद्यान्नपुंसकान्योदनश्च पुंसि स्त्रियां ज्या च ॥ ३९ ॥
metre not recognised
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 53 · p. 28
खं विहायो वियद्व्योम गगनाकाशमम्बरम् ।द्यौर्नभोऽभ्रोऽन्तरीक्षं च मेघवायुपथोऽप्यथ ॥ ५३ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.332 · p. 45
खर्जूरं पीतनं वंशपत्रकं चालपीतके ।अभ्रकं गगनं स्वच्छपत्रं च गिरिजामले ॥ ३३२ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.249 · p. 17
रङ्गं चङ्गं त्रपुः शीतं नागं सर्पाह्वसीसके ।अभ्रकं गगनाकाशौ गन्धकं शक्तिशुक्रकम् ॥ २४९ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त दिक्पालमरीचिः Pañcatattvaprakāśa 6.1.331 · p. 23
आकाशो गगनं नाकः स्वर्गस्त्रिदिवमम्बरम् ॥ ३३१ ॥
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.59 · p. 7
आकाशमभ्रं गगनं व्योम विष्णुपदं नभः ।अम्बरं पुष्करं खं द्यौरन्तरिक्षं मरुत्पथः ॥ ५९ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.164 · p. 23
वियद्विष्णुपदं खञ्च द्यौदिवौ च मरुत्पथः ।व्योमाऽनन्तं विहायश्च पुष्करं गगनं नभः ॥ १६४ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ग्रहाध्यायः Śabdaratnākara 1.4.159 · p. 21
genderपुंक्लीm. n.
वैजयन्ती Vaijayantī · यादवप्रकाश ज्योतिरध्यायः Vaijayantī 2.1.1 · p. 17
अंतरिक्षं नभो व्योम गगनं सुरवर्त्म खम् ।वियद्विष्णुपदं दिव्यं वायुवर्त्म विहायसम् ॥ १ ॥
अनुष्टुप्
genderक्लीneut.

गगन as a meaning in nānārtha verses

  • धरणिकोश नाकस्तोकः स्याच्चातके स्वल्पे शूकोऽनुक्रोशशुङ्गयोः । नाको गगने स्वर्गे च तर्क ऊहाभिकाङ्क्षयोः ॥ Dharaṇikośa 1.1.2
  • धरणिकोश भुवनभुवनं गगने प्रोक्तं सलिले विष्टपे जने । शमनं च वधे शान्तौ शमनो यमराट् स्मृतः ॥ Dharaṇikośa 19.2.28
  • धरणिकोश द्योद्युरह्नि त्रिदिवेऽपि स्याज्ज्या स्यान्मौर्वी वसुंधरा । द्योशब्दो गगने स्वर्गे यः सर्वनाम्नि योऽनिले ॥ Dharaṇikośa 25.1.1
  • धरणिकोश चराचरचराचरं जगदिदं गगने गतिमत्यपि । अनुत्तरः स्थिरेऽनूर्ध्वे श्रेष्ठेऽवाच्योऽप्यनुत्तरः ॥ Dharaṇikośa 26.2.70
  • धरणिकोश पुष्करपुष्कराणि विदुरोषधीतीर्थ- द्वीपनागविहगोरगभेदान् । पद्मवारिगगनानि च भेरी खड्गकाण्डमिभमुण्डमुखं च ॥ Dharaṇikośa 26.3.39
  • कोषकल्पतरु तिलकतिलकालके द्रुभेदे गगने सौवर्चले प्रोक्तः । कुलिको नागविशेषे वृक्षविशेषे त्रये कुलश्रेष्ठे ॥ ३४ ॥ Koṣakalpataru 6.1.34
  • कोषकल्पतरु दिव्[77b]ऊर्ध्वं तु तुङ्गोत्थितयोः परस्मिं- स्तथोपरिष्टादपि कीर्तितं च । द्यौः स्वर्गलोके गगनेऽपि च स्त्री मेषे त्वविर्भूभृति भास्करे च ॥ ७ ॥ Koṣakalpataru 6.29.7
  • नानार्थार्णवसंक्षेप अन्तरिक्षना यस्य न विशेषोऽस्ति तत्र स्याद्भेद्यलिङ्गकः । अन्तरिक्षं तु गगने क्ली साम्नोरुभयोरपि ॥ ९ ॥ Nānārthārṇavasaṃkṣepa 6.9
  • परमानन्दीयनाममाला अभ्रअक्षमिन्द्रिय आकाशे तथा सौवर्चले स्मृतम् । अलिर्भृङ्गे सुरायां चाभ्रं घने गगनेऽभ्रके ॥ ५ ॥ Paramānandīyanāmamālā 5.1.5
  • परमानन्दीयनाममाला अम्बरमञ्जिष्ठातिविषा श्यामाथाम्बरं गगनेंऽशुके । द्रव्ये तूले सुगन्धेऽथार्जुनो धवलकेकिनोः ॥ ३१ ॥ Paramānandīyanāmamālā 5.1.31
  • शब्दरत्नावली भुवनभावना स्यान्न ना ध्यानपर्यालोचाधिवासने । भुवनं गगणे नीरे पिष्टपे च जनेऽपि च ॥ Śabdaratnāvalī 7.20.66
  • शब्दरत्नावली अभ्रअराऽन्यवत् शीघ्रगे स्यात्क्लीबं चक्राङ्गशीघ्रयोः । अग्रमालम्बने वृन्दे परिमाणे पलस्य च ॥ पुरस्तादुपरिप्रान्ते एकाग्रे च नपुंसकम् । अतिरिक्ते प्रधाने च प्रमाणे चाभिधेयवत् ॥ अस्त्रं चापे प्रहरणे कृपाणे च नपुंसकम् । अभ्रं धातुभिदि स्वर्णे गगने स्याद्घनेऽपि च ॥ Śabdaratnāvalī 7.27.3
  • शब्दरत्नावली देहयात्रादेहयात्रा भोजने स्यात्कृतान्तगगनेऽपि च । द्वैमातुरश्च हेरम्बे जरासन्धे नृपेऽपि च ॥ Śabdaratnāvalī 7.27.127
  • शब्दरत्नावली विहायस्वरीयान् योगभेदे स्याद्युनि श्रेष्ठवरिष्ठयोः । विहायाश्च खगे पुंसि गगणे पुनरस्त्रियाम् ॥ विभावसुर्दिनकरे हारभेदे च पावके । श्वश्रेयसन्तु कल्याणे सुखे च परमात्मनि ॥ Śabdaratnāvalī 7.32.53
  • तन्त्राभिधान हह-कारो नकुलीशोऽपि हंसः प्राणोऽङ्गुलं प्रिये । महेशो नकुली चैव वराहो गगनं रविः ॥ २९ ॥ Tantrābhidhāna 1.29
  • तन्त्राभिधान बषष्ठी पुरं च पेटा च मोदको गगनं प्रति । पूर्वाषाढा-मध्यलिङ्गे शनिः कुम्भ-तृतीयकौ ॥ १३१ ॥ Tantrābhidhāna 2.40.131
  • तन्त्राभिधान हहः शिवो गगनं हंसो नागलोकोऽम्बिकापतिः । नकुलीशो जगत्प्राणः प्राणेशः कपिलाऽमलः ॥ १६३ ॥ Tantrābhidhāna 2.50.163