शनि
śaniपुं · masc.In 15 kośas: 17 synonym verses, 10 as a meaning of another word.
शुक्रो मघाभवः काव्य उशना भार्गवः कविः ॥ ११९ ॥षोडशार्चिर्दैत्यगुरुर्धिष्ण्यः शनैश्चरः शनिः ।छायासुतोऽसितः सौरिः सप्तार्ची रेवतीभवः ॥ १२० ॥मन्दः क्रोडो नीलवासाः स्वर्भाणुस्तु विधुंतुदः ।तमो राहुः सैंहिकेयो भरणीभूरथाहिकः ॥ १२१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सौरिः स्थिरगतिः कोणो दीर्णाङ्गो युगवर्तकः ।श्रुतकर्मा नीलवासा वक्रः कोलस्थितः शनिः ॥ ४८ ॥
अनुष्टुप्
genderपुंmasc.
रतिकीलो गृहमृगः कुक्कुरः क्रोधनः शनिः ।पक्ष इन्द्रमृगः श्वालः कपिलो मण्डलः शुनः ॥ ३१६ ॥
अनुष्टुप्
genderपुंmasc.
पङ्गुर्मन्दो रवेः सूनुर्मार्तंडस्तनयो शनिः ।सूर्यजो सूर्यतनयः छायातनयसंज्ञकः ॥ ७३ ॥
अनुष्टुप्
genderपुंmasc.
मार्तण्डजो सूर्यसुतो भानुभुर्भानुजः शनिः ।सूर्यपुत्रो भानुसुतो दिनेशो नन्ददनोऽसितः ॥ ७४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
नीलो मन्दः शनिः शौरिः शौरी सौरोऽव्ययं शनैः ।सौरिः क्रोडो रेवतीजो राहुस्तु सिंहिकासुतः ॥ २०९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्तु (wrong syllable)
genderपुंmasc.
भाटी पिण्डिः शरारिश्च गानिः कानिः फलिर्जनिः ।वारिर्हानिः प्रधिः कंविः चुल्हिश्चण्डिस्तरिः शनिः ॥ ३९ ॥
अनुष्टुप्
genderस्त्रीfem.
मन्दश्-छायातनयः पातंगि-क्रूरदृक्-शनयः ।असित-शनैश्चर-नीलाम्बर-यम-सप्तार्च्चिषः कोणः ॥ ५४ ॥
उपगीतिः
genderपुंmasc.
प्र[च?]क्षाः प्रचक्षा वाग्वाग्मी [गी]रथश्च महामतिः ।रविरिन्दुः कुजः सौम्यो वागीश उशनाः शनिः ।राहुः केतुश्चेति नव ग्रहाः खेटाश्च कीर्त्तिताः ॥ १०५ ॥
अनुष्टुप्
genderपुंmasc.
धिष्ण्यश्छायासुतः सौरिरसितो रेवतीभवः ।नीलवासाः शनिर्मन्दः क्रोडसप्तार्चिषौ तथा ॥ ११७ ॥
अनुष्टुप्
genderपुंmasc.
शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः ।शनिः शनैश्चरः शौरिर्मन्दश्छायासुतोऽसितः ॥ ७५ ॥
अनुष्टुप्
genderपुंmasc.
उशनाश्च भृगुश्चैव दैत्यगुरुर्मघाभवः ।शनैश्चरः शनिः सौरिः सप्तार्चिःरेवतीभवः ॥ ११० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 गु (wrong syllable)
genderपुंmasc.
स्यादिन्दुपुत्रः पत्राग्निरेकाङ्गोज्ञश्च बोधनः ।शनिः शनैश्वरः सौरिः पातङ्गिर्ग्रहनायकः ॥
अनुष्टुप्
genderपुंmasc.
भार्गवेऽप्यर्कपुत्रे तु शनैश्चर-शनी-शनैः ।अव्ययं, सौरि-सौरौ द्वौ, दन्त्य-तालव्यपूर्वकौ ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
उशना भार्गवः शुक्रः काव्यो दैत्यगुरुः कविः ।शनिश्छायात्मजो मन्दः सौरिः पङ्गुः शनैश्चरः ॥ १८६ ॥
अनुष्टुप्
genderपुंmasc.
स्यात्पञ्चार्चिः श्रविष्ठाजः श्यामाङ्गैकाङ्गरोधनाः ।शनैश्चरो नीलवासा मन्दश्छायात्मजः शनिः ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
श्रुतकर्मा नीलवासा वक्रः कोलः स्थिरः शनिः ।स्वर्भानुर्ग्रहकल्लोलः सैंहिकेयो विधुन्तुदः ॥ ३६ ॥
अनुष्टुप्
genderपुंmasc.
शनि as a meaning in nānārtha verses
- कोषकल्पतरु क्रोडहिण्डिः स्त्रियां बालकरात्रिरक्षा- चारे भवान्यामपि भाष्यतेऽसौ । क्रोडः शनौ घोणिनि पुंस्त्वहीनो भुजान्तरे प्रावरणान्तरे तु । देशेऽपि चोडः श्रवणामये तु क्ष्वेडो ध्वनौ[276b]ना गरलेऽन्यवत्तु ॥ ६१ ॥ Koṣakalpataru 6.12.61
- नानार्थार्णवसंक्षेप स्थिरस्थिरं त्रिर्निश्चले ना तु शनौ स्त्री तु स्थिरा भुवि । सालपर्ण्याख्यभैषज्येऽप्यथ स्थित इति त्रिषु ॥ १५१० ॥ Nānārthārṇavasaṃkṣepa 2.5.1510
- परमानन्दीयनाममाला क्रोडक्रोडः कोले शनावङ्के कृष्णो विष्णौ पिकेऽर्जुने । काके वर्णे तथा व्यासे कृष्णं मरिचलोहयोः ॥ ९० ॥ Paramānandīyanāmamālā 5.7.90
- शब्दरत्नावली क्रोडक्रोडोऽङ्कवक्षसोरस्त्री शनिशूकरयोः पुमान् । खण्डोऽस्त्री शकले पुंसि मणिदोषेक्षुपाकयोः ॥ Śabdaratnāvalī 7.13.8
- शब्दरत्नावली मन्दभेदो विदारणे द्वैधे स्याद्विशेषोपजापयोः । मदो गर्वे च कस्तूर्यां वीर्ये च हर्षदानयोः ॥ मन्दः स्वैरे च तीक्ष्णे च मूर्खे चाभाग्यरोगिणोः । अल्पे च त्रिषु पुंसि स्यात्कविजात्यान्तरे शतौ ॥ Śabdaratnāvalī 7.18.6
- शब्दरत्नावली वक्रदेशभेदे पुमानेव पिङ्गलेऽपि च वाच्यवत् । वक्रः शनौ पुटे क्लीबं कुटिलक्रूरयोस्त्रिषु ॥ वारी मतङ्गवन्धन्यां कलस्यामपि च स्त्रियाम् । वारिर्वाणीभ-वन्धन्योः स्त्रियां क्लीबेऽम्बुवालयौः ॥ Śabdaratnāvalī 7.27.36
- शब्दरत्नाकर मन्दमन्दः शनौ सरोगेऽज्ञे निर्भाग्येऽल्पेऽपटौ त्रिषु । अजागलस्तने रत्नेऽलिञ्जरेऽपि मणिर्द्वयोः ॥ १९७५ ॥ Śabdaratnākara 4.1.1975
- तन्त्राभिधान पदक्षपार्श्वश्च सेनानीर्मरीचिः पवनः शनिः । उड्डीशं जयिनी कुम्भोऽलसो रेखाः च मोहकः ॥ १२३ ॥ Tantrābhidhāna 2.38.123
- तन्त्राभिधान बषष्ठी पुरं च पेटा च मोदको गगनं प्रति । पूर्वाषाढा-मध्यलिङ्गे शनिः कुम्भ-तृतीयकौ ॥ १३१ ॥ Tantrābhidhāna 2.40.131
- वैजयन्ती जसुरिचङ्कुरः स्यन्दने दैत्ये चाक्रिकौ तैलघाण्टिकौ । चिकिरोऽहौ गेहबभ्रौ जसुरिः पावके शनौ ॥ २५ ॥ Vaijayantī 7.1.25