कुम्भ
kumbhaपुं · masc.In 24 kośas: 44 synonym verses, 17 as a nānārtha head word, 15 as a meaning of another word.
नाभिश्च जितशत्रुश्च जितारिरथ संवरः ।मेघो धरः प्रतिष्ठश्च महासेननरेश्वरः ॥ ३६ ॥सुग्रीवश्च दृढरथो विष्णुश्च वसुपूज्यराट् ।कृतवर्मा सिंहसेनो भानुश्च विश्वसेनराट् ॥ ३७ ॥सूरः सुदर्शनः कुम्भः सुमित्रो विजयस्तथा ।समुद्रविजयश्चाश्वसेनः सिद्धार्थ एव च ॥ ३८ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 श्च (wrong syllable); pāda 4, syllable 3 श्च (wrong syllable)
genderपुंmasc.
स्थाल्युखा पिठरं कुण्डं चरुः कुम्भी घटः पुनः ।कुटः कुम्भः करीरश्च कलशः कलसो निपः ॥ १०१९ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
genderपुंmasc.
मूर्धपिण्डौ स्मृतौ कुम्भौ कुम्भयोरन्तरं विदुः ।करटः स्यात्कटो गण्डो वमथुः करसीकरः ॥ २१६ ॥
अनुष्टुप्
genderपुंmasc.
कोशिका मल्लिका प्रोक्ता पिधानं स्यादुदञ्चनम् ।घटः करीरः कलशः कुटः कुम्भो निपः स्मृतः ॥ ३१६ ॥
अनुष्टुप्
genderपुंmasc.
जलन्तु सलिलं नीरं क्षीरं वारि शम्बरम् ।शरं सारं जडं कुम्भमम्भश्चापश्च कथ्यते ॥ १६३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
अर्धोदयं सितं कुम्भं तारकं तु रसोदयम् ।तुषाग्निजं श्वेतचन्द्रं चान्द्रकं रसतारकम् ॥ ६० ॥
अनुष्टुप्
genderक्लीneut.
कुम्भौ तु शिरसः पिण्डौ तयोर्मध्ये पिचुः पुमान् ।घातकुम्भस्तयोः सन्धिरारक्षस्तु ततोऽप्यधः ॥ १६७ ॥
अनुष्टुप्
genderपुंmasc.
कुम्भश्च कलसोऽपि स्यात्करीरोऽपि कुटोऽस्त्रियाम् ।निपोप्यथ स्त्रियां पारी दोहनी रोहणीति च ॥ १०३ ॥
अनुष्टुप्
genderपुंmasc.
वृश्चिको ना धनुः क्लीबे मकरः कुम्भमीनकौ ।ते तत्तन्नामपर्याया मासं शुक्रबुधारुणाः ॥ २२६ ॥
अनुष्टुप्
genderपुंmasc.
खलको वायुसारोऽपि यातुकन्दः पलंकषः ।उलूखलं च कुम्भः स्यात्तन्निर्यासमिदं पुनः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
तित्तिरीफलमप्युक्तं द्रवन्तीसंभवं फलम् ।कुम्भस्त्रिभण्डी त्रिवृता सरला सरडा त्रिवृत् ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
प्रवेष्टं दन्तमांसं स्याद्वराङ्गं गजमस्तकम् ।कुम्भौ तु शिरसः पिण्डौ तयोर्मध्यं विदुः पुमान् ॥ ९५ ॥
अनुष्टुप्
genderपुंmasc.
वार्द्धनी कारकोऽस्त्री स करङ्को नालिकेरजः ।* * * * * * * * कुम्भी कुम्भीरुखा कुला ।चरुर्ना पिठरस्त्रय्यां कलशः कलसस्त्रिषु ।घटः कुम्भः करीरो ना न स्त्री कुट-निपावुभौ ।घटः कुम्भश्च मिथुने करीरोऽस्त्री कुटो निपः ॥ ६४ ॥
अनुष्टुप्metre not read in every line
genderपुंस्त्रीm. f.
नल्वणः कलशस्त्रय्यां राशिर्नोन्मनमन्तिमे ।द्रोणाभ्यां शूर्पकुम्भौ *[ च ] चतुःषष्टिशरावकः ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
कूपः कलम्बः कलशे तु कुम्भोगन्त्र्यङ्गके नाभिरथोर्मिशम्यौ ।भ्रमश्च मोहेऽथ च जित्य-मृत्यूस्याद्भागधेयोऽपि च राजदेये ॥ २७ ॥
उपजातिः
genderपुंस्त्रीm. f.
त्रिकमिति लिङ्गत्रितयम् । अयं बन्धुरः । इयं बन्धुरा । इदं बन्धुरं उत्तममांसम् । अयं विषाणः इयं विषाणम् शृङ्गम् । पल्वलम् । तृतीयं नपुंसकमित्यर्थम् । इदं पल्वलं अल्पसरः । एतानि नपुंसकानि जानीहि । इदं शकटं यानम् । इदमुशीरं वीरणमूलम् । कुतूहलं कुतूकम् । शरावं मृन्मयभाजनम् । वृन्दं समूहः ।यूकोल्काशुक्त्यौषधिवर्त्तिभ्रुकुटयः स्त्रिया[यां]मुदिताः ।वाल्मीक्यध्वनिर्यूहव्यूहमुस्तकाः पुंसि कुम्भश्च ॥ ८४ ॥
metre not recognised
genderपुंmasc.
हस्त्यश्वरथपादातं बलं स्याच्चतुरङ्गकम् ।कुम्भो मतङ्गजो हस्ती दन्ती कुम्भी करी रदी ॥ १६४ ॥
अनुष्टुप्
genderपुंmasc.
चुल्यधिश्रयिणी स्थाली पिठरोखे चरुस्तथा ।कुटो निपो कटः कुम्भः करीरकलसौ समौ ॥ २९७ ॥
अनुष्टुप्
genderपुंmasc.
समानौ शिरसः पिण्डौ कुम्भौ तत्रान्तरं विदुः ।वातकुम्भः पुच्छमूले पेचकः कथितो बुधैः ॥ १४२ ॥
अनुष्टुप्
genderपुंmasc.
नक्षत्रार्थेऽश्लेषहस्तश्रवणाः स्युस्तथैव च ।कणो लेशे स्फुलिङ्गेऽपि कुम्भः स्यात्कलशे तथा ॥ १०५ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
मलिकोऽलिञ्जरो वेल्लः चरुपाशी सनासिका ।कम्बुग्रीवो घटः कुम्भः शरावो वर्द्धमानकः ॥ २६६ ॥
अनुष्टुप्
genderपुंmasc.
कुम्भकारः कुलालश्च कुम्भस्तु कलशो घटः ।स्वर्णकारः कलादश्च मालाकारस्तु मालिकः ॥ ५७ ॥
अनुष्टुप्
genderपुंmasc.
कृतवर्मा नृपो सिंहसेनो भानुर्नरेश्वरः ।विश्वसेनस्तथा सूरः सुदर्शनश्च कुम्भराट् ॥ २३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्श (wrong syllable)
genderपुंmasc.
शूकरो श्येनको वज्रं मृगः छागः सुलाञ्छनम् ।नन्द्यावर्तश्च कुम्भश्च कूर्मो नीलोत्पलं ततः ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
घटः कुम्भः करीरश्च कलशः कलसः कुटः ।निपश्चेत्यादिनामानि मन्यन्ते पण्डितै जनैः ॥ १७५३ ॥
अनुष्टुप्
genderपुंmasc.
गुग्गुलो गुग्गुलुः कुम्भः कौशिकश्च पलङ्कषः ॥ २०२० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कुम्भयोरध आरक्षो नाम वै कथ्यते किल ।कुम्भौ तु शिरसःपिण्डौ विदुः कुम्भयोर्मध्यकम् ॥ २२१९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 यो (wrong syllable)
genderपुंmasc.
genderपुंmasc.
कुम्भोलूखलकं कुम्भमनूखलकमित्यपि ।बहुवारः शेलुशीतौ श्लष्मातो बहुवारकः ॥
अनुष्टुप्
genderक्लीneut.
मदप्रयोगे व्यस्तारः वमथुः करशीकरः ।विदुर्णा कुम्भसन्धौ तु कम्भो मस्तकपिण्डयोः ॥
अनुष्टुप्
genderपुंmasc.
द्वयोर्घटः कुटनिवापस्त्री तु कलशस्त्रिषु ।कलसश्च द्वयोः कुम्भः कुम्भी च कलसी घटी ॥
अनुष्टुप्
genderपुंmasc.
कलसः कलशः कुम्भस्त्रिष्वङ्गारकपात्रिका ।हसन्तिका हसन्ती च हसनी चाम्बरीषवत् ॥ ६१ ॥
अनुष्टुप्
genderपुंmasc.
मध्वष्ठीलो मधुष्ठीलो मधुश्चापि, पलङ्कषे ।गुग्गुलो गुग्गुलुः कुम्भं कुम्भोलूश्च कुभोलुवत् ॥ १६० ॥
अनुष्टुप्
genderक्लीneut.
मातङ्गः करटीभवारणकरिस्तम्बेरमानेकपाःशुण्डालद्विपहस्तिनागमदमुक्शूर्पश्रवःकुजराः ।वेतण्डद्विरदौ महाबलगजौ दन्तावलः सिन्धुरःपद्मी सामभवो रदी च करिणः कुम्भौ शिरःपिण्डकौ ॥ ६९८ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 2, syllable 17 कु (wrong syllable)
genderपुंmasc.
अलिञ्जरो द्वयोः कुम्भघटौ पुंसि निपः कुटः ।कलशं त्रिषु वा क्लीबे करीरः कर्करी स्त्रियाम् ॥ ८९७ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
जूटो वराटः कर्कन्धूः शाल्मलिर्बलिडाडिमौ ।मृत्युः कुम्भो भुजो बाहुर्ज्वालः कीलोऽशनिः फणः ॥ २३२६ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
कुम्भोलूखलं कुम्भं कुम्भोलुः खलकं वरम् ॥ ९९ ॥
genderक्लीneut.
अपुत्रो ब्राह्मणः कुम्भः कल्माषः पिण्डिजातकम् ।अधिमुख्यं श्रेष्ठिजातं दमयन्ती महाकपिः ।बोधिर्ब्रह्मा महाबोधिर्वानरः शरभो रुरुः ॥
अनुष्टुप्
genderपुंmasc.
भृङ्गारो हेमकरकः करंको नालिकेरजः ।निपो घटः कुटः कुंभः करीरः कलशी त्रयी ॥ ५८ ॥
अनुष्टुप्
genderपुंmasc.doubtful
उपदंशो लिंगशोफ उदावर्त्तो गुदग्रहः ।नेत्ररुक्कामला क्लीबं कुंभः स्यात्सा महत्तरा ॥ १३२ ॥
अनुष्टुप्
genderपुंmasc.doubtful
अर्मणं नल्वलं शौर्पमुन्मानं तद्द्वयं पुनः ।कुंभः शूर्पोऽस्त्रियां तौ द्वौ गोणी वाहस्तु तद्द्वयम् ॥ ५६ ॥
अनुष्टुप्
genderपुंmasc.doubtful
कुम्भौ समाध्यन्तरराशिभेदौकुम्भो घटे वारणगण्डपिण्डे ।कुम्भं स्मृतं गुग्गुलकेऽथ कुम्भीस्यात्कट्फले पाटलिवारिपर्ण्योः ॥
इन्द्रवज्रा
श्रोण्यौषध्योः कटो मोहे भ्रमः कुम्भो घटेऽपि च ।वृन्दागोलकयोः पिण्डः स्फुलिङ्गलेशयोः कणः ॥ १११ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्ग (wrong syllable)
meaningsघट
जम्भस्तु दैत्ये नरि भक्षणे चजृम्भे रदे दन्तशठे तु न स्त्री ।कुम्भो घटे स्यान्मिथुने च कुम्भ-कर्णस्य पुत्रे गणिकापतौ च ॥ ४० ॥
इन्द्रवज्रा
राशिप्रभेदे गजमूर्द्धपिण्डेपुमांस्त्रिवृद्गुग्गुलुगस्तु षण्ढे ।स्त्री वारिपर्ण्यां गमि(?) पाटलायांगर्भोऽर्भके स्याज्जठरे च संधौ ॥ ४१ ॥
उपजातिः
doubtful
धनुर्मकरकुम्भानां क्रमाद्द्वादशराशिनि ।ध्वजधूममृगेन्द्राणां श्वोक्षरासभहस्तिनाम् ॥ १० ॥
अनुष्टुप्
meanings
कामिलाख्यव्याधिभेदे द्रोणाख्यपरिमाणके ।तस्य द्वये विंशतौ च खारीणां पञ्चविंशतौ ॥ २१८ ॥
अनुष्टुप्
doubtful
कट्फलादेस्तु मूले च प्रसवे च नपुंसकम् ।यथाप्रयोगं बोद्धव्यं कुटस्तु कलशे पुमान् ॥ २२१ ॥
अनुष्टुप्
doubtful
कुम्भो ना कुम्भिमूर्द्धांशे राशौ च राक्षसान्तरे ॥
अनुष्टुप्metre not read in every line
वारस्त्री कामुके मत्ते घटे क्लीबन्तु गुग्गुलौ ।कुम्भी स्त्रियामुखापृश्नी पाटला कट्फलेषु च ॥
अनुष्टुप्
कण्ठः शब्दे गले कुम्भो घटद्विपशिरोंऽशयोः ।कूटोऽस्त्री पुञ्जमायाद्रिशृङ्गायोघनवेश्मसु ॥ १८८८ ॥
अनुष्टुप्
कुम्भो वारस्त्रियाः कान्ते रक्षोराशिप्रभेदयोः ।वीणा प्रसेवे ककुभो रागभेदेऽर्ज्जुनद्रुमे ॥ २८५ ॥
अनुष्टुप्
कुंभो गजशिरोऽन्तेऽपि पक्ष्यर्केष्वनिलाः खगाः ।खरुः पुंस्मररुद्रेषु गर्मुद्रुक्मे खगे रवौ ॥ १८ ॥
अनुष्टुप्
doubtful
धनुर्मकरकुंभानां क्रमाद्द्वादशराशिषु ।सर्पस्य सीसके नागकेसरे द्विपसर्पयोः ॥ १५ ॥
अनुष्टुप्
meanings
doubtful
कुम्भ as a meaning in nānārtha verses
- धरणिकोश घटघटो गजशिरः कूटे समाध्यन्तरकुम्भयोः । घटा स्याद्घटने हस्तिश्रेण्यां च परिकीर्तिता ॥ Dharaṇikośa 10.3.5
- नानार्थार्णवसंक्षेप कुण्डजलाशयविशेषे च देवतादेरथो पुनः । सज्जनः प्राह कुम्भेऽपि कुण्डी तु स्त्री कमण्डलौ ॥ २३६ ॥ Nānārthārṇavasaṃkṣepa 2.5.236
- नानार्थार्णवसंक्षेप घटीमुहूर्ताख्येऽथ ना कुम्भराशौ द्रोणाख्यमानके । नृस्त्रियोस्तु घटी कुम्भे घ्राणा तु स्त्रीनपुंसकम् ॥ ३८६ ॥ Nānārthārṇavasaṃkṣepa 2.5.386
- नानार्थार्णवसंक्षेप कलशवर्णे तद्वति तु त्रिः क्ली मध्वासव इति श्रुते । मद्यभेदेऽथ कलशः कुम्भे लिङ्गद्वयान्वितः ॥ ३१२ ॥ Nānārthārṇavasaṃkṣepa 4.312
- नानार्थार्णवसंक्षेप विष्णुपदीवृषवृश्चिककुम्भेषु सिंहे च स्त्रीनपुंसकम् । सादि पूर्ववदत्रापि विष्णुकान्ता पुनः स्त्रियाम् ॥ ५६५ ॥ Nānārthārṇavasaṃkṣepa 6.565
- परमानन्दीयनाममाला कुटकुजो वृक्षे महीपुत्रे कुटः कुम्भे गृहे द्रुमे । क्रमस्तु परिपाट्यां स्यात्पदशक्त्योः कठो मुनौ ॥ ८८ ॥ Paramānandīyanāmamālā 5.7.88
- शिवकोष भीमभीमः कुम्भोलुखलके बकपुष्पे च वेतसे । रामा श्यामा हिङ्गुनाड्योः क्लीबं वास्तूककुष्ठयोः ॥ ३३० ॥ Śivakoṣa 20.1.330
- शिवकोष श्यामनीलीचपलासोमे श्यामोऽब्दे वृद्धदारके खदिरे । श्यामं तु काललवणे मारीचे भूस्तृणे कुम्भे ॥ ३३३ ॥ Śivakoṣa 20.1.333
- शिवकोष वरवर्यभीरौ वरं धीरकुम्भसिन्धुगुडत्वचि । वरा वन्ध्याचन्द्रहासापौत्रीपाठाफलत्रिके ॥ ३८३ ॥ Śivakoṣa 22.2.383
- शब्दरत्नावली कटखादकरङ्गाजीवे रसोत्साहे कक्षावेक्षक इत्यसौ । फेरुभोक्तृकाककाचकुम्भेषु कटखादकः ॥ Śabdaratnāvalī 7.1.209
- शब्दरत्नावली घटघटः कुम्भशिरः कूटे समाधिभिदि पुंस्ययम् । घटागोष्ठीभघटनाघटनेष्वपि च स्त्रियाम् ॥ Śabdaratnāvalī 7.11.12
- शब्दरत्नावली बबकारो वरुणे कुम्भे बिः पक्षिण्यथवीर्गतौ । Śabdaratnāvalī 7.23.1
- तन्त्राभिधान पदक्षपार्श्वश्च सेनानीर्मरीचिः पवनः शनिः । उड्डीशं जयिनी कुम्भोऽलसो रेखाः च मोहकः ॥ १२३ ॥ Tantrābhidhāna 2.38.123
- तन्त्राभिधान बषष्ठी पुरं च पेटा च मोदको गगनं प्रति । पूर्वाषाढा-मध्यलिङ्गे शनिः कुम्भ-तृतीयकौ ॥ १३१ ॥ Tantrābhidhāna 2.40.131
- त्रिकाण्डशेष कुटकुलीरे कर्कटो राशौ कृष्टिः कर्षे बुधे पुमान् । अप्रियेऽपि कटुः कुम्भे कुटो ना भवने द्वयोः ॥ ९४ ॥ Trikāṇḍaśeṣa 3.3.94