कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मस्तिक

mastikaक्ली · neut.

In 9 kośas: 10 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.288 · p. 25
उत्तमाङ्गं शिरो मूर्धा मौलिर्मस्तकमुण्डके ॥ ५६६ ॥वराङ्गं करणत्राणं शीर्षं मस्तिकमित्यपि ।
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.132 · p. 35
उत्तमाङ्गं शिरः शीर्षं कं शिरं मस्तकोऽस्त्रियाम् ।मूर्द्धा पुंसि च मुण्डोऽस्त्री मस्तिकोऽपि कमव्ययम् ॥ १३२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.150 · p. 478
स्यान्मस्तिकमोदकयोस्तथा तरण्डकस्य च ।स्याच्चण्डातकपिण्याकातङ्करोचककञ्चुकैः ॥ १५० ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.19 · p. 221
काकुदन्तालु युग्ये तु मौलिर्मस्तकमस्त्रियाम् ।मस्तिकं चोत्तमाङ्गं कं वराङ्ग - शिरसी शिरः ॥ १९ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.232 · p. 129
वराङ्गं मस्तकं मूर्धोत्तमाङ्गं शिर इत्यपि ।करणत्राणशीर्षे च मस्तिकं कं नपुंसके ॥ २३२ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.132 · p. 42
गोर्दं मस्तिष्कमस्तिष्यमस्तकालयमस्तिकाः ।वसा शुक्रमसृङ्मज्जा मूत्रं विट्कर्णविण्नखाः ॥ १३२ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.23 · p. 22
शीर्षकं मस्तकं मुण्डं मौलिर्मस्तं च मस्तिकम् ।उत्तमाङ्गं शिरो मूर्धा करणत्राणमेव च ॥ २३ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.906 · p. 138
मस्तकं मस्तिकं मुण्डं मूर्धा मौलिस्तथा शिरः ॥ ९०६ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.154 · p. 201
शवः सान्तं भवेत् षण्ढे, मूर्ध्नि मस्तक-मस्तिके ।शिरः सान्तं स्मृतं क्लीबे शिरोदन्तो मतो नरि ॥ १५४ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.85 · p. 180
घाटाप्यवटुरक्लीब उत्तमांगं पुनः शिरः ।उष्णीषं शीर्षमक्षत्रं पुंसि मूर्धा च मस्तिकः ॥ ८५ ॥
अनुष्टुप्
genderपुंmasc.