All kośas › Kalpadrukośa
कल्पद्रुकोशः Kalpadrukośa
4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)
स्वर्गस्कन्धः · स्त्र्यादिलिङ्गप्रकाण्डः (2/2)
विघसस्य वृत्तिकुटिवितस्तीनां कुटेरपि ।ऊमीशमीमेथिमेधिमसीनां पाटलेरपि ॥ १२२ ॥
3.5.122 · p. 474
metre not recognisednearly अनुष्टुप्
मषीषुधृत्यहिजटिजाटलीनां सृणेरपि ।मरीच्यशनिमौलीनां हलीकेल्योर्मणेरपि ॥ १२३ ॥
3.5.123 · p. 475
अनुष्टुप्
ईर्वार्ववटुसिन्धूनां मनोर्भृत्योरुरोरपि ।लव्यणिश्रेणिपर्णीनां गव्यूती रश्मिवाचिनाम् ॥ १२४ ॥
3.5.124 · p. 475
अनुष्टुप्
पालिश्रोण्यरणीनां च विष्टिमुष्ट्योर्मुनेरपि ।स्वातिशाल्मलियोनीनामाणिवस्त्योस्ततोऽपि च ॥ १२५ ॥
3.5.125 · p. 475
अनुष्टुप्
कर्कन्ध्वाखूहनूनां च कन्दुना सहगामिनाम् ।इति स्त्रीपुंसप्रकृतिरथ स्त्रीक्लीबयोर्नखम् ॥ १२६ ॥
3.5.126 · p. 475
अनुष्टुप्
शुक्तौ विश्वं च मधुकमौषधे लक्षमित्यपि ।षष्ठेऽङ्कस्थानके कल्पं क्रोडोऽङ्के तिन्दुकं फले ॥ १२७ ॥
3.5.127 · p. 475
अनुष्टुप्
यवाक्यं तरलं पुष्पे पाटलं तरलं च ये ।वसन्ततिलकं वृत्ते कपालं भिक्षुभाजने ॥ १२८ ॥
3.5.128 · p. 475
अनुष्टुप्
अर्द्धपूर्वपदोनावाद्यनकर्त्तनटौ क्वचित् ।चौराद्यमनोज्ञाद्यकञ् कथानककशेतके ॥ १२९ ॥
3.5.129 · p. 475
अनुष्टुप्metre not read in every line
वक्रोष्ठिकवंशिकयोस्तथैव कचकुल्वयोः ।पीठभक्तावहित्थानां सहैवाच्छोटनेन च ॥ १३० ॥
3.5.130 · p. 475
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क (wrong syllable)
रशनारसनाभ्यां च शंवतुंव महोदयैः ।मृगव्यकांस्यवीर्याणां वाष्पवाणिज्ययोरपि ॥ १३१ ॥
3.5.131 · p. 475
अनुष्टुप्
स्याद्गात्रापरनासीरमन्दिराणां ततः परम् ।मयूरकादम्बरयोः शस्त्रस्य नगरस्य च ॥ १३२ ॥
3.5.132 · p. 476
अनुष्टुप्
सक्षीरस्य तमिस्रस्य स्थालीकाहलयोरपि ।कदलीयुगलीजालस्थलानां पित्तलस्य च ॥ १३३ ॥
3.5.133 · p. 476
अनुष्टुप्
गोलावडिशयोश्छर्दिजम्ब्वलावूषसामपि ।गुणदामार्चिसदसां सरसां चोडुना सह ॥ १३४ ॥
3.5.134 · p. 476
अनुष्टुप्
तयडा मयडा तद्वदिति स्त्रीक्लीबयोरथ ।पुंक्लीबयोरब्जसंख्ये तद्वत्पद्मोऽब्जसंख्ययोः ॥ १३५ ॥
3.5.135 · p. 476
अनुष्टुप्
कंसोऽपुंसि कुशो बर्हौ बालो ह्रीवेरकेशयोः ।द्वापरः संशये छेदे पिप्पलो विटपोऽतरोः ॥ १३६ ॥
3.5.136 · p. 476
अनुष्टुप्
अब्दो वर्षे दरस्त्रासे कुकूलस्तु तुषानले ।स्याज्जन्यस्तु परीवादे पर्यङ्के तल्प इत्यपि ॥ १३७ ॥
3.5.137 · p. 476
अनुष्टुप्
उष्णे धर्मस्तपो माघे हृदि वस्तो वरो भवेत् ।तुल्ये गोले च भक्ष्ये च वर्णः शुक्लादिकेषु च ॥ १३८ ॥
3.5.138 · p. 476
अनुष्टुप्
अकारादौ संपरायो रणे लोणे तु सैन्धवः ।भूतः प्रेते तमो राहौ शुक्रः स्यादग्निमासयोः ॥ १३९ ॥
3.5.139 · p. 476
अनुष्टुप्
स्वदायोकस्वरे कृच्छ्रं व्रते तु स्याच्छदे दलः ।कर्पूरस्वर्णयोश्चन्द्रः स्यादृक्षश्चन्द्रयोषिति ॥ १४० ॥
3.5.140 · p. 476
अनुष्टुप्
धर्मः स्वभावे रुचको भूषाभिन्मातुलुङ्गयोः ।पाताले वाडवो वध्रः सीस आमलकः फले ॥ १४१ ॥
3.5.141 · p. 477
अनुष्टुप्
पिरजङ्गलसस्वातिपिटकामांसजन्तुषु ।मधुपिण्डौ सुरातन्वौ नामसेवालमध्ययोः ॥ १४२ ॥
3.5.142 · p. 477
अनुष्टुप्
एकाद्रात्रः समाहारे तथा सूतकुकूलकौ ।वलीकवैनीतकयोस्तद्वद्भ्रमरकस्य च ॥ १४३ ॥
3.5.143 · p. 477
अनुष्टुप्
वल्कवल्मीकमरककल्कानां पुलकस्य च ।करकस्य व्यलीकस्य पङ्कवर्चस्कयोरपि ॥ १४४ ॥
3.5.144 · p. 477
अनुष्टुप्
स्यान्मणिकस्तबकयोर्वितङ्कैडूकयोस्ततः ।तटाकचूचकाभ्यां च तडाकेन सहैव च ॥ १४५ ॥
3.5.145 · p. 477
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 णि (wrong syllable)
वालंकालकतङ्कानां निष्कतालकयोरपि ।स्यान्मूलकफलकयोस्तिलकान्दुकयोस्ततः ॥ १४६ ॥
3.5.146 · p. 477
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क (wrong syllable)
स्याच्छाटककुन्दुकयोर्नाकमञ्चकयोरपि ।विटङ्कशाकयोः सत्रा मेचकेन ततोऽपि च ॥ १४८ ॥
3.5.148 · p. 477
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क (wrong syllable)
पुस्तकेन पिभाकेन तथैव मुस्तकेन च ।मस्तकस्य वर्णकस्य मुक्कमूषिकयोरपि ॥ १४९ ॥
3.5.149 · p. 477
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable); pāda 3, syllable 4 स्य (wrong syllable)
स्यान्मस्तिकमोदकयोस्तथा तरण्डकस्य च ।स्याच्चण्डातकपिण्याकातङ्करोचककञ्चुकैः ॥ १५० ॥
3.5.150 · p. 478
अनुष्टुप्metre not read in every line
समं चेरकशूकाभ्यां शङ्खस्य मखपुंसयोः ।मुखस्य चाधिकाङ्गस्य संयुगस्य भगस्य च ॥ १५१ ॥
3.5.151 · p. 478
अनुष्टुप्
स्यात्पद्मरागायुगरुद्योगशृङ्गारयोस्ततः ।टङ्गस्य च निदाघस्य कूर्चक्रकचयोरनु ॥ १५२ ॥
3.5.152 · p. 478
अनुष्टुप्
कवचार्द्धर्चयोः पुच्छकच्छाच्छानां व्रजस्य च ।निकुञ्जोटजकुञ्जानां तथैवापुञ्जभूर्जयोः ॥ १५३ ॥
3.5.153 · p. 478
अनुष्टुप्
स्याद्धजमलयजयोः कालकूटारकूटयोः ।स्यात्कवटकपटयोः खेटकर्पटयोस्ततः ॥ १५४ ॥
3.5.154 · p. 478
metre not recognised
पिष्टलोष्टतुराणां च सहैव निकटेन च ।मुण्डमण्डाण्डचूडानां दृढस्य श्रवणस्य च ॥ १५५ ॥
3.5.155 · p. 478
अनुष्टुप्
कार्षापणपक्वणयोर्वारवाणापराह्णयोः ।वाणस्य कङ्कणद्रोणसुवर्णानां तृणस्य च ॥ १५६ ॥
3.5.156 · p. 478
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ण (wrong syllable)
निकेतपूर्त्तयोस्तद्वद्युतप्रयुतयोरपि ।पारताक्षतयोरैरावतक्ष्वेडितयोस्ततः ॥ १५८ ॥
3.5.158 · p. 478
अनुष्टुप्
हस्तोपवीतपलितवृन्तानां दैवतस्य च ।लोहितव्रतबुद्धानां वसन्तध्वान्तयोरपि ॥ १५९ ॥
3.5.159 · p. 479
अनुष्टुप्
मुहूर्त्तरतमुस्तानां शतस्यैवायुतस्य च ।द्यूतपुस्तघृतानां च वरूथप्रस्थयोरपि ॥ १६० ॥
3.5.160 · p. 479
अनुष्टुप्
गूथयूथमोथतीर्थपुलिन्दानां ततः पुनः ।ककुदाम्बुदयोः कुन्दपदयोः ककुदस्य च ॥ १६१ ॥
3.5.161 · p. 479
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 थ (wrong syllable)
पट्टदोहदयोर्नादमुदयोः छादकुन्दयोः ।कुमुदायुधोत्सेधानां कवन्धश्रामयोरपि ॥ १६२ ॥
3.5.162 · p. 479
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 धो (wrong syllable)
अन्धसौधौषधानां च राजादनवितानयोः ।शिश्नचन्दनमौनानां गन्धमादनपीनयोः ॥ १६३ ॥
3.5.163 · p. 479
अनुष्टुप्
केतनासनयोर्वर्द्धमानस्य च दिनस्य च ।ओदनस्थानयोस्तद्वच्छतमानविमानयोः ॥ १६५ ॥
3.5.165 · p. 479
अनुष्टुप्
भवनस्यानुमानस्य लशुनस्य ततः पुनः ।गृञ्जनस्यापि शयनद्वीपयोः कुतपस्य च ॥ १६८ ॥
3.5.168 · p. 480
अनुष्टुप्
चापावायस्तूपसूर्यकुणपानां तिपस्य च ।विटपोडुपशष्पाणां मण्डपद्वीपयोरपि ॥ १६९ ॥
3.5.169 · p. 480
अनुष्टुप्
वष्पविष्टपयोश्चापि तथैव शफबिम्बयोः ।डिंभजम्भकुसुम्भानां निभस्य कलभस्य च ॥ १७० ॥
3.5.170 · p. 480
अनुष्टुप्
ककुभस्यार्मघस्रामसंक्रमाणां हिमस्य च ।कामहेमललामानामुद्यामोद्यमयोरपि ॥ १७१ ॥
3.5.171 · p. 480
अनुष्टुप्
संगमक्षामयोर्यूपतूर्ययोः समयस्य च ।कम्बलिबाह्यमैरेयजन्यानां प्रचयस्य च ॥ १७२ ॥
3.5.172 · p. 480
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 लि (wrong syllable)
हिरण्यारण्यसख्यानां राजसूयकषाययोः ।स्याद्वाजपेयमलयशल्यानां वलयस्य च ॥ १७३ ॥
3.5.173 · p. 480
अनुष्टुप्
गोमयाव्ययकुल्यानां परिहार्यस्य चैव हि ।कचियक्षत्रशिखरावराणां कूवरस्य च ॥ १७४ ॥
3.5.174 · p. 480
अनुष्टुप्
पारावारातिखरयोस्तद्वद्वस्त्रोपवस्त्रयोः ।कूटालिंजरवेराणां मेढ्रहिञ्जीरयोरपि ॥ १७५ ॥
3.5.175 · p. 480
अनुष्टुप्
संसारतीरनीहारसूत्राणां तुवरस्य च ।सहस्रवक्त्रनेत्राणां पत्रशृङ्गारयोस्तथा ॥ १७६ ॥
3.5.176 · p. 480
अनुष्टुप्
केदारान्तरपद्राणां कर्णपूरपवित्रयोः ।सीरान्धकारसमरवप्राणां विशरस्य च ॥ १७७ ॥
3.5.177 · p. 481
अनुष्टुप्
चक्रचुक्रकुलीराणां तुषाराङ्गारयोरपि ।शिशिराडम्बरक्षीरकोटराणां ततोऽपि च ॥ १७८ ॥
3.5.178 · p. 481
अनुष्टुप्
… गह्वराणां तिमिरभ्राष्ट्रयोस्तथा ।राष्ट्रकुञ्जरतक्राणां वारकर्पूरयोरपि ॥ १७९ ॥
3.5.179 · p. 481
अनुष्टुप्metre not read in every line
जीरपञ्जरमञ्जीरजठराणां ततः परम् ।युगन्धरनूपुरयोर्दुरोदरकुटीरयोः ॥ १८० ॥
3.5.180 · p. 481
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
अपि वासरकासारविहाराणां तथापि च ।स्यात्कान्तारतोमरयोर्वप्रकेसरयोस्ततः ॥ १८१ ॥
3.5.181 · p. 481
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
पलालमूलमुकुलचषालानां नानस्य च ।विशालतैलतूलानां स्यात्कुद्मलतमालयोः ॥ १८३ ॥
3.5.183 · p. 481
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ना (wrong syllable)
स्याद्धलाहलजम्बालवल्कलानां ततः पुनः ।सहेन्द्रनीलगरललाङ्गूलैः खण्डलस्य च ॥ १८६ ॥
3.5.186 · p. 482
अनुष्टुप्
गाण्डीवगाण्डिवोल्वानां पार्श्वत्रिदिवयोरपि ।भावारावपारशवशरावाणां शवस्य च ॥ १८७ ॥
3.5.187 · p. 482
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 व (wrong syllable)
क्लीबप्राग्रीवनिष्ठेवताण्डवानामथापि च ।दैवपूर्वपल्लवानां लल्वकर्शांशयोरपि ॥ १८८ ॥
3.5.188 · p. 482
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्व (wrong syllable)
कुलिशाकाशकोशानां तथा कणिशकाशयोः ।पाशाङ्कुशोष्णीषवेषाम्बरीषाणां विषस्य च ॥ १८९ ॥
3.5.189 · p. 482
अनुष्टुप्
शेषरोहिषमाषाणां प्रत्यूषामिषयोरपि ।पेषकोषकरीषाणां तथैव यूषकर्षयोः ॥ १९० ॥
3.5.190 · p. 482
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
निर्यासांसोपवासानां मांसवीतंसयोरपि ।चमसांसयोश्च गेहस्य निवहस्य गृहस्य च ॥ १९२ ॥
3.5.192 · p. 482
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कशिपुस्थाण्डजन्तूनां जीवातोश्च पलाण्डुना ।सिन्धुदोस्तितऊनां च कम्बुना सह सक्तुभिः ॥ १९४ ॥
3.5.194 · p. 482
अनुष्टुप्
कर्माष्ठीवद्गुरुदन्तोममहिम्नां नाम पक्ष्मणोः ।धनुषः स्यादिति क्लीबपुंसयोः प्रकृतिस्थिताः ॥ १९५ ॥
3.5.195 · p. 483
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
स्वतस्थिलिञ्जेः सरकोऽनुतर्षे शललः शले ।करकोऽब्दोपले कोशः शिम्बा खड्गपिधानयोः ॥ १९६ ॥
3.5.196 · p. 483
अनुष्टुप्
जीवः प्राणेषु केदारे वलजः पवने खलः ।बहुलं वृत्तनक्षत्रपुराद्याभरणाभिधाः ॥ १९७ ॥
3.5.197 · p. 483
अनुष्टुप्
भल्लातकामलकयोस्तारकाठकयोरपि ।हरीतकपिटकयोस्तद्वद्विभीतकस्य च ॥ १९८ ॥
3.5.198 · p. 483
अनुष्टुप्metre not read in every line
विलिङ्गस्य स्फुलिङ्गस्य कपाटस्य पुटस्य च ।वटवाटपुटानां च तटस्य शकटस्य च ॥ १९९ ॥
3.5.199 · p. 483
अनुष्टुप्
मुस्ताकुथेङ्गुदानां च जृम्भदाडिमयोरपि ।पुरोदरप्रतिसरविवराणामतः पुनः ॥ २०१ ॥
3.5.201 · p. 483
अनुष्टुप्
स्याच्छृङ्खलमण्डलयोः पटलार्गलयोरपि ।पूलकन्दलयोरित्थमवहेलस्य तत्पुनः ॥ २०३ ॥
3.5.203 · p. 483
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ल (wrong syllable)
कलशस्य कटाहस्य रश्मिषष्ट्योरितीहदिक् ।परलिङ्गं स्वप्रधाने द्वन्द्वे तत्पुरुषेऽपि तत् ॥ २०४ ॥
3.5.204 · p. 484
अनुष्टुप्
अर्थान्ताः प्राद्यलंप्राप्ताः पदपूर्वाः परोपगाः ।तद्धितार्थो द्विगुः संख्या सर्वनामतदन्तकाः ॥ २०५ ॥
3.5.205 · p. 484
अनुष्टुप्
प्रकृते लिङ्गवचने बाधन्ते स्वार्थिकाः क्वचित् ।हरीतक्यादिप्रकृतिर्नलिङ्गमतिवर्त्तते ॥ २०६ ॥
3.5.206 · p. 484
अनुष्टुप्
वचनं खलतिकादिर्बह्वर्थोत्पत्तिपूर्वकम् ।स्त्रीपुंनपुंसकानां तु सहोक्तौ परलिङ्गता ॥ २०७ ॥
3.5.207 · p. 484
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
कृतः कर्त्तर्यसंज्ञायां कृत्याः कर्त्तरि कर्मणि ।अणाद्यन्तास्ते न रक्ताद्यर्थे नानार्थभेदकाः ॥ २०८ ॥
3.5.208 · p. 484
अनुष्टुप्
षट्सञ्ज्ञकास्त्रिषु समा युष्मदस्मत्तिङव्ययम् ।परं विधेये शेषे तु ज्ञेयं शिष्टप्रयोगतः ॥ २०९ ॥
3.5.209 · p. 484
अनुष्टुप्
कल्पद्रौ केशवकृते फलिते नाम सत्फलैः ।स्त्र्यादीनामिति लिङ्गानां प्रकाण्डः सिद्धिमागतः ॥ २१० ॥
3.5.210 · p. 484
अनुष्टुप्