कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

उष्णीष

uṣṇīṣaक्ली · neut.

In 13 kośas: 21 synonym verses, 7 as a nānārtha head word, 8 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.651 · p. 28
नायकस्तरलो हारान्तर्मणिर्मुकुटं पुनः ॥ ६५० ॥मौलिः किरीटकोटीरमुष्णीषं पुष्पदाम तु ।मूर्ध्नि माल्यं माला स्रक्स्वगर्भकः केशमध्यगम् ॥ ६५१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मा (wrong syllable)
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.667 · p. 28
पत्रोर्णं धौतकौशेयमुष्णीषो मूर्धवेष्टनम् ॥ ६६७ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.565 · p. 64
आहुः किरीटमुष्णीषं कोटीरं मुकुटं समम् ।राढा शोभा विभूषा स्यादभिख्या सुषमा समाः ॥ ५६५ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.250 · p. 48
अस्त्री किरीटं मुकुटमुष्णीषमवतंसकम् ।कोटीरमपि कौटीरस्तथैव शेखरोऽपि च ॥ २५० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.189 · p. 482
कुलिशाकाशकोशानां तथा कणिशकाशयोः ।पाशाङ्कुशोष्णीषवेषाम्बरीषाणां विषस्य च ॥ १८९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.69 · p. 224
न स्त्री किरीट-कोटीरोष्णीषाणि मुकुटं तथा ।मकुटं नरि मौलिः स्यात्पत्रपाश्या ललाटिका ॥[91b]बालपाश्या पारितथ्या शङ्खचर्चापि सा मता ।कर्णपूरोऽवतंसोऽस्त्री कर्णिका कर्णभूषणम् ॥ ६९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.99 · p. 227
बीटीका चोलकग्रन्थिरुष्णीषं पुनरस्त्रियाम् ।तिरीटं च शिरोवेष्टः शिरोवेष्टनमित्यपि ॥ ९९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.21 · p. 307
शुनामलर्कोऽजाव्योस्तु स प्रलेपकनामकः ।उष्णीषसंज्ञः सर्पाणामन्नानां चूर्णको मतः ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.71 · p. 115
genderपुंक्लीm. n.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.301 · p. 138
हारमध्यस्थिते तस्मिन्नायकस्तरलः समौ ।कोटीरमुकुटे मौलिः किरीटोष्णीष इत्यपि ॥ ३०१ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.314 · p. 140
धौतकौशेयपत्रोर्णे उष्णीषं मूर्धवेष्टनम् ।धौतवस्त्रयुगं तूद्गमनीयं च निगद्यते ॥ ३१४ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.162 · p. 231
genderपुंक्लीm. n.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.45 · p. 24
मौलिः किरीटं कोटीरमुष्णीषं मुकुटं तथा ।आपीडः शेखरोत्तंसावतंसाः शिरसः स्रजि ॥ ४५ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.56 · p. 25
क्षौमं दुकूलं दुगुलं पट्टकूलं पटोत्तमम् ।वेषो नेपथ्यमाकल्पमुष्णीषो मूर्धवेष्टनम् ॥ ५६ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1054 · p. 162
उष्णीषं मुकुटं मौलिः किरीटं मकुटस्तथा ।कोटीरं चेति नामानि मन्यते मुकुटस्य हि ॥ १०५४ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1086 · p. 167
पत्रोणं धौतकौशेयं क्षोमवस्त्रं हि कथ्यते ।मूर्धवेष्टनमुष्णीषः ख्यातं शिरसि वेष्टनम् ॥ १०८६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.338 · p. 104
उष्णीषो वेष्टनञ्चैव शिरोवेष्टनवेष्टकम् ।बालपाश्या पारितथ्या सीमन्तपटुके द्वयम् ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पुराध्यायः Śabdaratnākara 2.6.877 · p. 110
तद्भेदे चोलकः पुंसि वराशिः स्थूलशाटकः ।निचोलः प्रच्छदपट उष्णीषं शीर्षवेष्टनम् ॥ ८७७ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.124 · p. 168
मशकहरी तु चतुष्की शिरसि सिगुष्णीषमस्त्री स्यात् ।काण्डपटः स्यादपटी प्रतिसारा यवनिका तिरस्करिणी ॥ १२४ ॥
उद्गीतिः
genderपुंक्लीm. n.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.135 · p. 169
वालिका कर्णपृष्ठस्था कुण्डलं कर्णवेष्टनम् ।मौलिः कोटीर उष्णीषं किरीटं मकुटोऽस्त्रियाम् ॥ १३५ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.85 · p. 180
घाटाप्यवटुरक्लीब उत्तमांगं पुनः शिरः ।उष्णीषं शीर्षमक्षत्रं पुंसि मूर्धा च मस्तिकः ॥ ८५ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.425
पक्षः सहायेऽप्युष्णीषः शिरोवेष्टकिरीटयोः ।
अनुष्टुप्
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.796 · p. 92
करणं कायेऽपि स्यादुष्णीषो मूर्धवेष्टनेऽप्युक्तः ।मात्रा परिच्छदेऽपि क्षुद्रः क्रूरे श्रुतौ निगमः ॥ ७९६ ॥
metre not recognised
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शान्ताः Koṣakalpataru 6.30.50 · p. 374
उष्णीषमस्त्रीह किरीटमूर्ध-वेष्टाह्वये लक्षणभिद्यपि स्यात् ।तरीतरि(?) स्यात्त्रितये तरीषोरम्याकृतौ पुंसि तु भेलके स्यात् ॥ ५० ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.256 · p. 69
चुल्ल्यामुद्गमने च त्रिः पुनः स्यादुद्गते तथा ।उष्णीषमस्त्री मकुटे शिरोवेष्टेऽप्यथ द्वयोः ॥ २५६ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास उकारादयः Paramānandīyanāmamālā 5.3.69 · p. 170
शरण्यारण्ययोश्चैवं प्रयोजनविशेषयोः ।उन्मत्तः कितवे धूर्ते उष्णीषं शीर्षवेष्टने ॥ ६९ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास उकारादयः Paramānandīyanāmamālā 5.3.70 · p. 170
शेखरेऽथोत्पलं शून्ये पङ्कजान्तरपत्रयोः ।उच्छ्वासः प्राणने गद्यबन्धभिच्छ्वासयोरपि ॥ ७० ॥
अनुष्टुप्
meaningsशेखर
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश षान्ताः Śabdaratnāvalī 7.31.18 · p. 292
अध्यक्षोऽधिकृते पुंसि प्रत्यक्षेऽतिप्रधानके ॥अभीषुः प्रग्रहे कामकिरणानुरागेषु ना ।उष्णीषोऽस्त्री शिरोवेष्टे किरीटचिह्नभेदयोः ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 रा (wrong syllable); pāda 4, syllable 3 ट (wrong syllable)

उष्णीष as a meaning in nānārtha verses