मूर्धन्
mūrdhanपुं · masc.In 14 kośas: 13 synonym verses, 17 as a meaning of another word.
उत्तमाङ्गं शिरो मूर्धा मौलिर्मस्तकमुण्डके ॥ ५६६ ॥वराङ्गं करणत्राणं शीर्षं मस्तिकमित्यपि ।
अनुष्टुप्
genderपुंmasc.
उत्तमाङ्गं शिरः शीर्षं मूर्धा ना मस्तकोऽस्त्रियाम् ।
अनुष्टुप्
genderपुंmasc.
शीर्षं स्यात्करणत्राणं मुण्डं मूर्द्धा कमव्ययम् ।चिकुरश्चिहुरः केशो मूर्द्धजो वृजिनोऽङ्गजः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.doubtful
स्रगादयः शब्दाः स्त्रियां भवन्ति । तद्यथा । इयं स्रक् माला । इयं स्रुक् यज्ञोपकरणभाण्डम् । इयं स्फिक् कटिप्रदेशः । इयं त्वक् बहिश्चर्म । इयं वाक् वाणी । इयं योषित् बाला । द्यौश्च नौश्च द्युनावौ च स्त्रियां भवतः इयं द्यौः स्वर्गः । इयं नौः जलतरणिः । हिशब्दः पादपूरणे । दीधितिमेकां वर्ज्जयित्वा रश्मिवाचकाः शब्दाः पर्यायाश्च ये ते पुंसि भवन्ति । तद्यथा इमे रश्मयः प्रग्रहाः किरणाः अंशवः पादाः मयूखाः अभीषवः गभस्तयः घृणय इत्येवमादयः । तुशब्दः पादपूरणे ।मूर्द्ध्नोऽक्षतक्षमज्जश्लेष्मात्माश्मयु[यू]वपूषराजभी रहितम् ।सर्वं द्व्यच्कं नान्तं नपुंसकं पुंसि वा भवेद्ब्रह्मा ॥ १९ ॥
metre not recognised
genderपुंmasc.doubtful
मूर्द्धन् उक्षन् तक्षन् मज्जन् श्लेष्मन् आत्मन् अश्मन् युवन् पूषन् इत्येतैः शब्दै रहितं वर्जितं यदन्यत् द्व्यच्कं द्विस्व[श्व]रं च नान्तं प्रातिपदिकं तत्सर्वं नपुंसकं भवति । यथा इदं चर्म वर्म शर्म भस्म सद्म लोम इत्येवमादयः । मूर्द्धादयोऽपि नान्तत्वात् द्व्यच्का अतस्तेषामपि नपुंसकता प्राप्नोति । तदर्थमिति प्रतिषेधः कृतः मूर्द्धोऽक्षतक्षेत्यादि पुंल्लिङ्गाधिकारात्पुंसि भवन्ति । यथा अयं मूर्द्धा शिरः । उक्षा वृषभः । मज्जा सारः । तक्षा वर्द्धकिः । श्लेष्मा धातुविकारः । आत्मा शरीरस्थः । अश्मा नीलः । युवा तरुणः । पूषादित्यः पुंसि वा भवेद्ब्रह्मेति । द्वच्कत्वान्नान्तत्वाच्च ब्रह्मशब्दस्य नपुंसकत्वे प्राप्ते पुंस्त्वं वा विधीयते ब्रह्मशब्दो वा नपुंसकलिङ्गो भवति । इदं ब्रह्मा वेदाध्ययनमीश्वरश्च । अयं ब्रह्मा प्रजापतिः । यद्येवं यत् द्व्यच्कं नान्तं तन्नपुंसकम् । एवं सति राजन् शब्दस्यापि नपुंसकता स्यात् पुंस्यन्तर्भावो द्रष्टव्यः ।त्रुटिसीमसन्ध्यारात्रयः स्त्रियां धूलिवेणिखार्यश्च ।पुंसि निशीथो ज्योत्स्नादयाशलाका स्त्रियां नित्यम् ॥ २० ॥
metre not recognised
genderपुंmasc.doubtful
शिरो मूर्धोत्तमाङ्गं कम्प्रारभ्यं प्रेरितेरितम् ।वाग्वचो वचनं वाणी भारती गीः सरस्वती ॥ १०४ ॥
अनुष्टुप्
genderपुंmasc.
वराङ्गं मस्तकं मूर्धोत्तमाङ्गं शिर इत्यपि ।करणत्राणशीर्षे च मस्तिकं कं नपुंसके ॥ २३२ ॥
अनुष्टुप्
genderपुंmasc.
मूर्द्धोत्तमाङ्गं मौलिः कं मस्तकं शीर्षकं शिरः ।शिरोरुहः शिरसिजः कुन्तलश्चिकुरः कजः ॥ ७८ ॥
अनुष्टुप्
genderपुंmasc.doubtful
शीर्षकं मस्तकं मुण्डं मौलिर्मस्तं च मस्तिकम् ।उत्तमाङ्गं शिरो मूर्धा करणत्राणमेव च ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
मस्तकं मस्तिकं मुण्डं मूर्धा मौलिस्तथा शिरः ॥ ९०६ ॥
अनुष्टुप्
genderपुंmasc.
स्याद्वषः शष्कुली चेति द्वितयं कर्णरन्ध्रके ।पुंसि मूर्धाशिरः शीर्षं मुण्डं मस्तकमस्त्रियाम् ॥
अनुष्टुप्
genderपुंmasc.
मूर्धाथ कुन्तलं केशो वालः शिरसिजः कचः ।शिरोरुहोऽथ तंद्वृन्दे कौशिकं कैश्यमित्युमे ॥ १०८८ ॥
अनुष्टुप्
genderपुंmasc.
घाटाप्यवटुरक्लीब उत्तमांगं पुनः शिरः ।उष्णीषं शीर्षमक्षत्रं पुंसि मूर्धा च मस्तिकः ॥ ८५ ॥
अनुष्टुप्
genderपुंmasc.
मूर्धन् as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् वराङ्गशृङ्गं प्राधान्यसान्वोश्च वराङ्गं मूर्धगुह्ययोः । Amarakośa 3.3.51
- नामलिङ्गानुशासनम् कम्अमा सह समीपे च कं वारिणि च मूर्धनि । Amarakośa 3.3.488
- कोषकल्पतरु मुण्डषण्ढे पुंसि मतौ तु योषिति भवेत्पण्डोऽथ पाण्डुः सिते कुन्तीभर्तरि चास्त्रियां तु गदितः शाके च मस्तुन्यपि । एरण्डेऽपि च मण्डनेऽग्रगजले सारे च मण्डोऽथ स स्त्री धात्र्यां ना तु विधुंतुदे च दनुजे मुण्डोऽस्त्रियां मूर्धनि ॥ ७८ ॥ Koṣakalpataru 6.12.78
- नानार्थार्णवसंक्षेप कम्अजयस्तु शरीरेऽपि पुंस्येवैनमभाषत । कं नाम्न्यप्सु सुखे मूर्ध्नि गूर्ना यत्ने गुदे स्त्रियाम् ॥ २ ॥ Nānārthārṇavasaṃkṣepa 1.5.2
- नानार्थार्णवसंक्षेप चूडारोगभेदे पशूनां च लक्षणीयेऽथ मूर्धनि । चूडा शिखावलभ्योश्च चूलिस्तु धनुषोऽटनौ ॥ ३५ ॥ Nānārthārṇavasaṃkṣepa 2.1.35
- नानार्थार्णवसंक्षेप शिरस्शिरो मूर्ध्नि पुरःसैन्ये सामस्तोत्रान्तरे तथा । प्रधानेऽप्यथ शीर्षं स्यान्मूर्ध्नि चागुरुसंज्ञके ॥ ६५ ॥ Nānārthārṇavasaṃkṣepa 2.3.65
- नानार्थार्णवसंक्षेप मौलिमौलिस्तु नृस्त्रियोर्मूर्ध्नि चूडामकुटयोरपि । तथा संयतकेशेषु यक्षो वैश्रवणे पुमान् ॥ १०३९ ॥ Nānārthārṇavasaṃkṣepa 2.5.1039
- नानार्थार्णवसंक्षेप शिखाशिखा तु स्त्री शिफाशाखाघृणिज्वालासु मूर्धनि । चूडायां केकिचूडायां चूचुकेऽप्यग्रमात्रके ॥ १३६५ ॥ Nānārthārṇavasaṃkṣepa 2.5.1365
- नानार्थार्णवसंक्षेप गोशीर्षताम्रसारे गवां मूर्ध्नि चमकं तु प्रकीर्तितम् । ह्रीबेरेऽपि यजुर्मन्त्राध्यायभेदेऽथ चामरम् ॥ ३२ ॥ Nānārthārṇavasaṃkṣepa 3.3.32
- नानार्थार्णवसंक्षेप वरावरा मूर्ध्नि गुह्ये च हस्ते चोचाख्यभेषजे । क्ली वराङ्गा चतुर्वर्षसुरभौ स्त्री द्वयोः पुनः ॥ १६०४ ॥ Nānārthārṇavasaṃkṣepa 4.1604
- शब्दरत्नावली मुण्डमुण्डो दैत्यप्रभेदे स्याद् राहो ना मुण्डिते त्रिषु । मुण्डा मुण्डीरिकौषध्यां मुण्डमन्द्रीतु मूर्द्धनि ॥ Śabdaratnāvalī 7.13.23
- शब्दरत्नाकर कम्ए दुःखभावने कोपे प्रत्यक्षे सन्निधावपि । ॐ स्याद्ब्रह्मण्यनुज्ञायां कं सुखेऽम्भसि मूर्धनि ॥ २२५१ ॥ Śabdaratnākara 5.1.2251
- त्रिकाण्डशेष मुण्डराहौ दैत्यान्तरे मुण्डो मूर्ध्न्यस्त्री मुण्डिते त्रिषु । रण्डा स्याद्विधवौषध्योर्वितण्डा शाकभिद्यपि ॥ ११६ ॥ Trikāṇḍaśeṣa 3.3.116
- वैजयन्ती वराङ्गलांगूलं वालधौ मेढ्रे वर्जनं त्यागहिंसयोः । वरांगं स्त्रीभगे मूर्ध्नि च्छेदे वृद्धौ च वर्धनम् ॥ २९ ॥ Vaijayantī 7.3.29
- वैजयन्ती अधिपतिपुमानधिपतिर्मूध्न आवर्तेऽधीश्वरे त्रिषु । कांचने शारिफलके स्यादष्टापदमस्त्रियाम् ॥ २ ॥ Vaijayantī 8.5.2
- वैजयन्ती ककाश्चित्तात्मार्कधीधातृवाता मूर्ध्नि सुखेऽप्सु कम् ॥ ३६ ॥ Vaijayantī 8.5.36
- वैजयन्ती कओं स्याद्ब्रह्मण्यनुज्ञायां के सुखेंऽभसि मूर्ध्नि च । प्रश्ने क्षेपे विकल्पे किं कु पापेऽल्पार्थकुत्सयोः ॥ ३ ॥ Vaijayantī 8.7.3