माहिष्य
māhiṣyaपुं · masc.In 10 kośas: 10 synonym verses, 3 as a meaning of another word.
genderपुंmasc.
genderपुंmasc.
महिष्यः स्यात्तु शूद्रायामुग्रपुत्रस्ततः परम् ।वैश्यात् शूद्रोदराज्जातः करणश्चानुलोमजाः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.doubtful
वैश्यायां स्तः पारशव-निषादौ शूद्रयोषिति ।माहिष्यो विट्स्त्रियां क्षत्रादुग्रस्तु वृषलस्त्रियाम् ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
वैश्यायां क्षत्रियाज्जातो म(मा?)हिष्य इति कथ्यते ।आ(अ?)र्यायां शूद्रजः क्षत्ता क्षतकोऽपि च दृश्यते ॥ ५६७ ॥
अनुष्टुप्
genderपुंmasc.
क्षत्राद्वैश्यस्त्रियां जातो माहिष्यो मन्यते स वै ।उग्रश्च कथ्यते क्षत्रादुत्पन्नो विट्स्त्रियां भुवि ॥ १५०८ ॥
अनुष्टुप्
genderपुंmasc.
माहिष्यः क्षत्रवैश्याजः वैश्यात् क्षत्रासु मागधः ।ब्राह्मणी क्षत्रजः सूतो वैदेहो ब्राह्मणीविशोः ॥
अनुष्टुप्
genderपुंmasc.
क्षत्रियायां विशोऽर्यायां क्षत्रियाल्लब्धसंभवौ ।क्रमान्मागधमाहिष्यौ क्षत्तार्याशूद्रयोः सुतः ॥ १५१२ ॥
अनुष्टुप्
genderपुंmasc.
सूतं विप्रा नृपाद्वैश्या माहिष्यं यवनश्च सः ।अश्वपण्यमनूढा सा शूद्रानूढैव शूलिकम् ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
शूलिको दण्डयेद्दण्ड्यान् शूलारोपादिकर्मणा ।निषादो मृगघातात्स माहिष्यो नृत्तगीतवित् ॥ ६९ ॥
अनुष्टुप्
genderपुंmasc.
माहिष्य as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप मद्गुमर्त्यजात्यन्तरे निष्ट्यवरुटीजे तथा पुनः । माहिष्य आयुर्वेदेन जीवत्यम्बष्ठसंज्ञके ॥ ९६४ ॥ Nānārthārṇavasaṃkṣepa 2.5.964
- नानार्थार्णवसंक्षेप अम्बष्ठजाते माहिष्यसंज्ञाके स्त्री त्वम्बष्ठा विधीयते । पाठाशार्ङ्गाष्ठयोर्यूथीचाङ्गेर्योः स्थावरान्तरे ॥ १३४ ॥ Nānārthārṇavasaṃkṣepa 4.134
- नानार्थार्णवसंक्षेप रथकारब्राह्मणीसंज्ञके कीटभेदे साद्यत्र पूर्ववत् । वर्धकौ रथकारस्त्रिर्मर्त्यजात्यन्तरे द्वयोः ॥ ५१९ ॥ Nānārthārṇavasaṃkṣepa 6.519