यवन
yavanaपुं · masc.In 10 kośas: 13 synonym verses, 4 as a nānārtha head word, 1 as a meaning of another word.
पाश्चात्या यवना नीचास्तुरुष्का अपि हिन्दुकाः ।म्लेच्छास्तु वाह्लिकाः कीर्णा अजात्यास्तु प्रकीर्तिताः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
चोलश्चोडोथ यवनो जवनः पारसीककः ।स च पारसिकोपि स्यात् वानायुस्तु वनावुकः ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
गन्धार्थमङ्गलाच्चाथ तुरुष्को यवनः कपिः ।पिण्याकः कपिजो धूम्रः शिल्पिसारः सुगन्धकः ॥ ४०९ ॥
अनुष्टुप्
genderपुंmasc.
इतरः पामरो मर्मरीकः प्राकृत-बर्बरौ ।क्षुधुनो यवनो म्लेच्छो मातङ्गस्तु जनंगमः ॥अन्तावसायी श्वपचः श्वपाको निष्ट्य-नाहलौ ।अन्तेवासी दिवाकीर्तिः पुल्कसः प्लव इत्यपि ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
मातङ्गः श्वपचोऽस्पृश्यश्चण्डालः पुक्कसः प्लवः ।म्लेच्छः तुरुष्को यवनो विद्धकर्णो वराहभुक् ॥ ७५ ॥
अनुष्टुप्
genderपुंmasc.
तुरुष्का यवना म्लेच्छाः पारसीकाः शकास्तथा ।प्रष्टाना मुद्गलाश्चैव स साहिस्तेषु योऽधिपः ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
अथ सिन्धुः सिन्धुखेलस्तुरुण्डः पारदण्डकः ।पारसीकः पारसिको यवनो जवनोऽपि च ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 पा (wrong syllable)
genderपुंmasc.
निकाय्य-निकायौ स्यातां स्यादागारमगारवत् ।चतुःशाले चातुःसाली जवनं यवनं समः ॥ ३६ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable); pāda 3, syllable 5 चा (wrong syllable)
genderक्लीneut.
तुलुष्का यवनाश्वेद्याश्चेदयो दारुकाश्च ते ।सिन्धवोऽमी तु काश्मीरप्रमुखाः पुंसि भूम्नि च ॥ ३८६ ॥
अनुष्टुप्
genderपुंmasc.
गांधारास्तु दिहण्डाः स्युर्यवनास्तु हुरुष्कराः ।संभालाः स्युः शूरसेना अपि ते शूरसेनयः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
सूतं विप्रा नृपाद्वैश्या माहिष्यं यवनश्च सः ।अश्वपण्यमनूढा सा शूद्रानूढैव शूलिकम् ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
उग्रो दण्ड्यान्दण्डयेत्स दौः षन्तो मत्स्यघातनात् ।निषादो व्यालादिवधाद्यवनः कुञ्जरग्रहात् ॥ ७२ ॥
अनुष्टुप्
genderपुंmasc.
ऊषमूषरजं क्षेत्र्यं पांसुजं यवनं पटु ।शूलिका तु महाजाली वेष्टावारं महाविडम् ॥ १२३ ॥
अनुष्टुप्
genderक्लीneut.
यवनस्तु द्वयोर्मर्त्यजातिभेदे यदुद्भवः ।शूद्रायां क्षत्त्रियादन्ये पुनराहुर्मनीषिणः ॥ १४६० ॥
अनुष्टुप्
meaningsमर्त्यजातिभेद
वैश्यायां क्षत्त्रियाज्जात इति पुम्भून्नि तु स्मृतः ।नीवृद्भेदे हि यवना हुरुष्करसमाख्यके ॥ १४६१ ॥
अनुष्टुप्
meaningsनीवृद्भेद
तद्देशजातमर्त्ये तु द्वयोः सर्ववचस्यपि ।क्लीबं तु मिश्रणेऽथ स्याद् यजत्रं क्लीबलिङ्गकम् ॥ १४६२ ॥
अनुष्टुप्
doubtful
मार्जनो लोध्रवृक्षे स्यात्क्लीबं मार्ष्टौ तु मार्जनम् ।मानिनी तु स्त्रियां फल्यां मानी मानवति त्रिषु ॥मैथुनं सङ्गते क्लीबं सुरते च नपुंसकम् ।यमनो ना यमे क्लीबं बन्धे चोपरतावपि ॥यवनो जातिभिद्देशभिदोर्वेगाश्वयोरपि ।यवन्योषधिभेदे स्त्री वेगिनि त्वभिधेयवत् ॥यापनं स्यान्निरसने कालक्षेपे च वर्त्तने ।युवा श्रेष्ठे च तरुणे निसर्गबलसंयुते ॥योजनं स्याच्चतुष्क्रोश्यां योगमाने परात्मनि ।रसनं स्वादने शब्दे स्याद्रास्नाजिह्वयोः स्त्रियाम् ॥
अनुष्टुप्
यवन as a meaning in nānārtha verses
- शब्दरत्नावली जूजो विषे वेगिते भुक्तौ तेजः पिशाचजेतृषु । जूः स्याद्वियतिभारत्यां पिशाच्यां यवने स्त्रियाम् ॥ Śabdaratnāvalī 7.8.1