कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अम्बष्ठ

ambaṣṭhaपुं · masc.

In 13 kośas: 13 synonym verses, 7 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.749 · p. 36
क्षत्त्रियायां द्विजान्मूर्धाभिषिक्तो विट्स्त्रियां पुनः ॥ ८९५ ॥अम्बष्ठोऽथ पारशवनिषादौ शूद्रयोषिति ।
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 थ (wrong syllable); pāda 3, syllable 5 ष्यो (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शूद्रवर्गः Amarakośa 2.10.2
शूद्राविशोस्तु करणोऽम्बष्ठो वैश्याद्विजन्मनोः ।शूद्राक्षत्रिययोरुग्रो मागधः क्षत्रियाविशोः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.5 · p. 202
पुत्रो मूर्द्धावसिक्ताख्योम्बष्ठो वैश्योदरोद्भवः ।शूद्रोदर्यः पारशवः क्षत्रियस्य विशोदरात् ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.13 · p. 10
हारिद्रकः कादम्बर्यः पुलकी पर्वताह्वयः ।धूलीकदम्बे त्वम्बष्ठः सुवासो वृत्तपुष्पकः ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.565 · p. 98
शूद्रायां वैश्यपुरुषाज्जाते करण इष्यते ।वैश्यायां विप्रपुरुषाज्जातेऽम्बष्ठ इतीष्यते ॥ ५६५ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1507 · p. 239
द्विजाद्वैश्यस्त्रियां जातोऽम्बष्ठो हि कथ्यते पुनः ।पारशवो निषादश्च जातः शूद्रस्त्रियां द्विजात् ॥ १५०७ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 हि (wrong syllable); pāda 3, syllable 3 श (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शूद्रवर्गप्रक्लाशः Śabdaratnāvalī 3.8.3 · p. 153
करणो वैश्यशूद्राजोऽम्बष्ठो वैश्याद्विजातिजः ।उग्रः शूद्रा क्षत्रियजः क्षत्ता वैश्यासु शूद्रजः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वसुंधराध्यायः Śabdaratnākara 2.1.377 · p. 51
कोसलकेकयहूणा घूर्जरयौधेयहेहया मत्स्याः ।गान्धारसिन्धुजावकसिंहलकाम्बोजसोमकाम्बष्ठाः ॥ ३७७ ॥
गीतिः
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1510 · p. 183
मूर्धावसिक्तोऽम्बष्ठश्च त्रयः पारशवोऽप्यमी ।संजाताः क्षत्रियावैश्याशूद्रासु क्रमतो द्विजात् ॥ १५१० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.4 · p. 72
वैश्यांबष्ठं निषादं तु शूद्रा पारशवश्च सः ।एते विवाहजाः पुत्रा व्यभिचारसुताः पुनः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.doubtful
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.65 · p. 77
मूर्धावसिक्तः सेनेशो धनुर्वेद्यस्त्रधारकः ।मणिमन्त्रौषधिज्ञश्च सोंऽबष्ठो यानशिक्षया ॥ ६५ ॥
अनुष्टुप्
genderपुंmasc.doubtful
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.66 · p. 77
चिकित्सागणितज्योतिर्ज्ञानी स्यादभिषिक्तकः ।अंबष्ठो भृज्जकण्ठोऽस्य चिकित्सा शस्त्रसाधना ॥ ६६ ॥
अनुष्टुप्
genderपुंmasc.doubtful
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.70 · p. 77
स एव मंकुशोऽथासौ निषादः सस्यरक्षया ।जीवन् सवर्णो नक्षत्रैः सोंऽबष्ठो वैद्यशास्त्रवित् ॥ ७० ॥
अनुष्टुप्
genderपुंmasc.doubtful
धरणिकोश Dharaṇikośa · धरणिदास ठश्लोकः Dharaṇikośa 11.3.2 · p. 43
अम्बष्ठा विद्धकर्णी स्यादम्बष्ठा चाम्ललोणिका ।अम्बष्ठो देशभेदे स्याद्वैश्यापुत्रे च विप्रजे ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ ठान्ताः Koṣakalpataru 6.11.14 · p. 188
विप्राच्च वैश्यातनये स्त्रियां तुपाठाम्ललोणीगणिकौषधीषु ।
उपजातिः
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.132 · p. 58
अग्नौ क्ली रश्मिहविषोरम्बष्ठस्तु द्वयोरयम् ।वैश्यायां ब्राह्मणाज्जाते विवाहादपरे पुनः ॥ १३२ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.133 · p. 58
ब्राह्मणात् क्षत्त्रियाजाते विवाहेनेति मन्वते ।सवर्णाख्ये नृपात् तूढवैश्यायामपरे विदुः ॥ १३३ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.134 · p. 58
जाते माहिष्यसंज्ञाके स्त्री त्वम्बष्ठा विधीयते ।पाठाशार्ङ्गाष्ठयोर्यूथीचाङ्गेर्योः स्थावरान्तरे ॥ १३४ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ठान्ताः Śabdaratnāvalī 7.12.9 · p. 204
अपष्ठुः पुंसि कामे स्याद् वामे तु वाच्यलिङ्गकः ।अम्बष्ठो द्विजवैश्याजे देशे हस्तिपके पुमान् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.105 · p. 127
वैश्याद्विजन्मजेऽम्बष्ठः पाठायूथिकयोः स्त्रियाम् ॥ १०५ ॥
अनुष्टुप्

अम्बष्ठ as a meaning in nānārtha verses