कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मितद्रु

mitadruपुं · masc.

In 9 kośas: 9 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य जलकायः Abhidhānacintāmaṇi 4.2.1074 · p. 42
पारावारः सागरोऽवारपारोऽकूपारोदध्यंर्णवा वीचिमाली ।यादः स्रोतोवार्नदीशः सरस्वान्सिन्धुदन्वन्तौ मितद्रुः समुद्रः ॥ १०७३ ॥आकरो मकराद्रत्नाज्जलान्निधिधिराशयः ।द्वीपान्तरा असंख्यास्ते सप्तैवेति तु लौकिकाः ॥ १०७४ ॥
metre not recognised
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.2 · p. 344
तरीषो नभसः पेरुरुदन्वान्पृथिवीप्लवः ।गङ्गाधरो महाकच्छो मितद्रुर्दारदश्च सः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.16 · p. 100
रत्नाकरः सिन्धु-महासरौ[64b] च तरन्त-मीरौ मकरालयश्च ।महाशय-श्रीगुरु-सागराश्च मितद्रु-दभ्रार्णव-पाथिषः स्युः ॥ १६ ॥
उपेन्द्रवज्राmetre not read in every linenearly उपेन्द्रवज्रा: pāda 1, syllable 1 र (wrong syllable)
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.351 · p. 48
समुद्रः सागरः सिन्धु[27]र्वीचिमाली नदीपतिः ।पारावारो जलनिधिर्मितद्रुश्चार्णवोदधी ॥ ३५१ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.113 · p. 13
यादःपतिर्जलनिधिरुदन्वानब्धिरर्णवः ।रत्नाकरो मितद्रुश्च पारावारो नदीश्वरः ॥ ११३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि अप्कायनामानि Suśīlanāmamālā 5.2.1868 · p. 305
नदीशो यादईशश्च स्रोतईशश्च दारदः ।यादःपति उदन्वान् वै मितद्रुर्मकराकरः ॥ १८६८ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.36 · p. 39
वाङ्कः कचङ्गलः पेरुर्मितद्रुर्वाहिनीपतिः ।गङ्गाधरो दारदः स्याद् उदन्वान् उदधिस्तिमिः ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव वारिवर्गः Trikāṇḍaśeṣa 1.9.1 · p. 25
पाथोधिसिन्धुमकरालयवारिराशि- गंगाधरेन्दुजनकास्तिमिरूर्मिमाली ।वार्धिर्मितद्रुतिमिकोषमहाशयाश्चक्लीबं च शैलशिबिरं धरणीप्लश्च ॥ १ ॥
वसन्ततिलकाmetre not read in every linenearly वसन्ततिलका
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश जलाध्यायः Vaijayantī 4.2.12 · p. 155
सरित्पतिरकूपारः पारावारोऽब्धिरर्णवः ।मितद्रुः संवरः पेरुः स्तंभी स्तंभिर्महोदधिः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.