अकूपार
akūpāraपुं · masc.In 17 kośas: 13 synonym verses, 6 as a nānārtha head word.
पारावारः सागरोऽवारपारोऽकूपारोदध्यंर्णवा वीचिमाली ।यादः स्रोतोवार्नदीशः सरस्वान्सिन्धुदन्वन्तौ मितद्रुः समुद्रः ॥ १०७३ ॥आकरो मकराद्रत्नाज्जलान्निधिधिराशयः ।द्वीपान्तरा असंख्यास्ते सप्तैवेति तु लौकिकाः ॥ १०७४ ॥
metre not recognised
genderपुंmasc.
समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः ।उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः ॥ १ ॥रत्नाकरो जलनिधिर्यादःपतिरपाम्पतिः ।तस्य प्रभेदाः क्षीरोदो लवणोदस्तथापरे ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
रत्नाकरः सरस्वानुदधिरुदन्वान्सरित्पतिरकूपारः ।पारावारस्तोयनिधिरर्णवजलराशिसागरसमुद्राः ॥ ६५२ ॥
metre not recognised
genderपुंmasc.
कन्या कालविका स्वल्पवाहिनी कृत्रिमा सरित् ।समुद्रोब्धिरकूपारः सिन्धुः सागरसम्भवः ॥ १०७ ॥
अनुष्टुप्
genderपुंmasc.
जलपर्यायराशिर्धिर्निधिर्नदनदीपतिः ।पारावारोप्यकूपारो महीप्रावरणार्थकः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
अवारपाराकूपारौ उदन्वान्मकराकरः ।रत्नाकरः सरस्वांश्च यादःपतिजलाशयौ ॥ ३५२ ॥
अनुष्टुप्
genderपुंmasc.
समुद्रः सागरः सिन्धुः सरस्वानर्णवोऽम्बुधिः ।अकूपारो जलनिधिः पारावारः पयोनिधिः ॥ २७८ ॥
अनुष्टुप्
genderपुंmasc.
समुद्रः सागरः सिन्धुरुदधिः सरितां पतिः ।वारिराशिरकूपारः सरस्वान्मकरालयः ॥ ११२ ॥
अनुष्टुप्
genderपुंmasc.
वारीशो वारिराशिश्च सरस्वान् धरणीप्लवः ।अकूवारो महाकच्छोऽकूपारो मकरालयः ॥ १८६७ ॥
अनुष्टुप्
genderपुंmasc.
अब्धिर्जलनिधिर्नीरनिधि[र्जलधि]रम्बुधिः ।पाथोनिधिरकूपारः पाथोधिर्यादसांपतिः ॥
अनुष्टुप्
genderपुंmasc.
वार्द्धिर्वारिनिधिरुत्सोत्सू अपांपतिरप्पतिः ।यादसांपतिश्च यादःपतिश्चाप्यकूपारवत् ॥ ९६ ॥
metre not recognised
genderपुंmasc.
अर्णव उदधिरुदन्वानब्धिरकूपार आपगानाथः ।वरुणालयमकरालयवाराकरसिन्धुसागरसमुद्राः ॥ ३१५ ॥
गीतिःmetre not read in every line
genderपुंmasc.
सरित्पतिरकूपारः पारावारोऽब्धिरर्णवः ।मितद्रुः संवरः पेरुः स्तंभी स्तंभिर्महोदधिः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.