उदन्वत्
udanvatपुं · masc.In 11 kośas: 11 synonym verses.
पारावारः सागरोऽवारपारोऽकूपारोदध्यंर्णवा वीचिमाली ।यादः स्रोतोवार्नदीशः सरस्वान्सिन्धुदन्वन्तौ मितद्रुः समुद्रः ॥ १०७३ ॥आकरो मकराद्रत्नाज्जलान्निधिधिराशयः ।द्वीपान्तरा असंख्यास्ते सप्तैवेति तु लौकिकाः ॥ १०७४ ॥
metre not recognised
genderपुंmasc.
समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः ।उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः ॥ १ ॥रत्नाकरो जलनिधिर्यादःपतिरपाम्पतिः ।तस्य प्रभेदाः क्षीरोदो लवणोदस्तथापरे ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
रत्नाकरः सरस्वानुदधिरुदन्वान्सरित्पतिरकूपारः ।पारावारस्तोयनिधिरर्णवजलराशिसागरसमुद्राः ॥ ६५२ ॥
metre not recognised
genderपुंmasc.
तरीषो नभसः पेरुरुदन्वान्पृथिवीप्लवः ।गङ्गाधरो महाकच्छो मितद्रुर्दारदश्च सः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
प्रसन्नमच्छं विमलं कलुषेऽनच्छमाविलम् ।पिच्छिलं स्याद्विजयिनं द्राग्भृतं तत्क्षणोद्धृतम् ॥ऋक्षरं वारिधारा स्याद्घर्घरो वारिनिःस्वनः ।देशं विनाद्भिरन्वीतमन्वीपं भेद्यलिङ्गकम् ॥पारावारः समुद्रो जलनिधिरुदधिर्वीचिमाली समीचःपारापारश्च पारीस्तिमिरपि पुरणः स्यात्सरस्वानुदन्वान् ।गङ्गानाथो नदीनोदरथि-कधि-महाकच्छ-शीतांशुताता-कूपारावारपारा भुविरविष-पयो एगप्से(?)पांपतिश्च ॥ १५ ॥
स्रग्धराmetre not read in every linenearly स्रग्धरा: pāda 2, syllable 16 ग (wrong syllable)
genderपुंmasc.
अवारपाराकूपारौ उदन्वान्मकराकरः ।रत्नाकरः सरस्वांश्च यादःपतिजलाशयौ ॥ ३५२ ॥
अनुष्टुप्
genderपुंmasc.
यादःपतिर्जलनिधिरुदन्वानब्धिरर्णवः ।रत्नाकरो मितद्रुश्च पारावारो नदीश्वरः ॥ ११३ ॥
अनुष्टुप्
genderपुंmasc.
नदीशो यादईशश्च स्रोतईशश्च दारदः ।यादःपति उदन्वान् वै मितद्रुर्मकराकरः ॥ १८६८ ॥
अनुष्टुप्
genderपुंmasc.
वाङ्कः कचङ्गलः पेरुर्मितद्रुर्वाहिनीपतिः ।गङ्गाधरो दारदः स्याद् उदन्वान् उदधिस्तिमिः ॥
अनुष्टुप्
genderपुंmasc.
अर्णव उदधिरुदन्वानब्धिरकूपार आपगानाथः ।वरुणालयमकरालयवाराकरसिन्धुसागरसमुद्राः ॥ ३१५ ॥
गीतिःmetre not read in every line
genderपुंmasc.
रत्नाकरो जलनिधिः समुद्रो मकरालयः ।उदन्वान्वरुणावासः सरितांपतिरप्पतिः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.