रत्नाकर
ratnākaraपुं · masc.In 15 kośas: 15 synonym verses, 1 as a nānārtha head word, 1 as a meaning of another word.
पारावारः सागरोऽवारपारोऽकूपारोदध्यंर्णवा वीचिमाली ।यादः स्रोतोवार्नदीशः सरस्वान्सिन्धुदन्वन्तौ मितद्रुः समुद्रः ॥ १०७३ ॥आकरो मकराद्रत्नाज्जलान्निधिधिराशयः ।द्वीपान्तरा असंख्यास्ते सप्तैवेति तु लौकिकाः ॥ १०७४ ॥
metre not recognised
genderपुंmasc.doubtful
समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः ।उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः ॥ १ ॥रत्नाकरो जलनिधिर्यादःपतिरपाम्पतिः ।तस्य प्रभेदाः क्षीरोदो लवणोदस्तथापरे ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
रत्नाकरः सरस्वानुदधिरुदन्वान्सरित्पतिरकूपारः ।पारावारस्तोयनिधिरर्णवजलराशिसागरसमुद्राः ॥ ६५२ ॥
metre not recognised
genderपुंmasc.
रत्नाकरो नदीनाथः कन्धिः शरधिरुच्यते ।लावणो लवणाम्भोधिः मन्थाब्धिः कलशाम्बुधिः ॥ १०८ ॥
अनुष्टुप्
genderपुंmasc.
विततश्चन्द्रपर्यायजनको यादसां पतिः ।रत्नाकरोऽपि जलदस्तद्भेदा लवणादयः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
रत्नाकरः सिन्धु-महासरौ[64b] च तरन्त-मीरौ मकरालयश्च ।महाशय-श्रीगुरु-सागराश्च मितद्रु-दभ्रार्णव-पाथिषः स्युः ॥ १६ ॥
उपेन्द्रवज्राmetre not read in every linenearly उपेन्द्रवज्रा: pāda 1, syllable 1 र (wrong syllable)
genderपुंmasc.
तत्पतिश्च भवत्यब्धिः पारावारोऽमृतोद्भवः ।अपारवारकूपारौ रत्नमीनाऽभिधाऽकरः ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.doubtful
श्रीदः शितोदरो रत्नाकरः किंपुरुषेश्वरः ।एकपिङ्गश्चैलविलः कुहेश्वरसखौ पुनः ॥ ७१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्चै (wrong syllable)
genderपुंmasc.
अवारपाराकूपारौ उदन्वान्मकराकरः ।रत्नाकरः सरस्वांश्च यादःपतिजलाशयौ ॥ ३५२ ॥
अनुष्टुप्
genderपुंmasc.
रत्नाकरः सरिद्भर्त्ता यादोनाथो हिमांशुभूः ।सूधा पीयूषाममृतं सुरान्धः षड्रसाधिकम् ॥ २७९ ॥
अनुष्टुप्
genderपुंmasc.
यादःपतिर्जलनिधिरुदन्वानब्धिरर्णवः ।रत्नाकरो मितद्रुश्च पारावारो नदीश्वरः ॥ ११३ ॥
अनुष्टुप्
genderपुंmasc.
पारावारस्तथाऽवारपारो रत्नाकरोऽर्णवः ।प्रसिद्धो रत्नराशिश्च वीचिमाली किल पुनः ॥ १८६९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 ल (wrong syllable)
genderपुंmasc.
रत्नाकरस्तोयनिधिः कीलालधिरपांपतिः ।अर्णवो धरणीपूरः क्षीराब्धिर्धरणीप्लवः ॥
अनुष्टुप्
genderपुंmasc.
रत्नाकरः पयोराशिः पारावारः पयोनिधिः ।सरस्वानूर्मिमाली च तत्प्रभेदाः स्युरुत्तरे ॥ ३१६ ॥
अनुष्टुप्
genderपुंmasc.
रत्नाकरो जलनिधिः समुद्रो मकरालयः ।उदन्वान्वरुणावासः सरितांपतिरप्पतिः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
धर्मपुत्रेऽपि शक्रेऽथ रत्नाकर इति ध्वनिः ।रत्नानामाकरेऽम्भोधौ रञ्जसानस्तु वारिदे ॥ १०२ ॥
अनुष्टुप्
meaningsअम्भोधि
रत्नाकर as a meaning in nānārtha verses
- कोषकल्पतरु यादसाम्पतिअथ यादसां पतिः स्याद्वरुणे रत्नाकरे तद्वत् । पृथिवीपतिरवनीशे वृषभाह्वे चौषधे पुंसि ॥ ८९ ॥ Koṣakalpataru 6.17.89