सागर
sāgaraपुं · masc.In 19 kośas: 21 synonym verses, 8 as a meaning of another word.
उत्सर्पिण्यामतीतायां चतुर्विंशतिरर्हताम् ।केवलज्ञानी निर्वाणी सागरोऽथ महायशाः ॥ ५० ॥विमलः सर्वानुभूतिः श्रीधरो दत्ततीर्थकृत् ।दामोदरः सुतेजाश्च स्वाम्यथो मुनिसुव्रतः ॥ ५१ ॥सुमतिः शिवगतिश्चैवात्यागोऽथ निमीश्वरः ।अनिलो यशोधराख्यः कृतार्थोऽथ जिनेश्वरः ॥ ५२ ॥शुद्धमतिः शिवकरः स्यन्दनश्चाथ संप्रतिः ।
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 नी (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 6 ग (wrong syllable); pāda 3, syllable 4 य (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable); pāda 3, syllable 4 तु (wrong syllable)
genderपुंmasc.
पारावारः सागरोऽवारपारोऽकूपारोदध्यंर्णवा वीचिमाली ।यादः स्रोतोवार्नदीशः सरस्वान्सिन्धुदन्वन्तौ मितद्रुः समुद्रः ॥ १०७३ ॥आकरो मकराद्रत्नाज्जलान्निधिधिराशयः ।द्वीपान्तरा असंख्यास्ते सप्तैवेति तु लौकिकाः ॥ १०७४ ॥
metre not recognised
genderपुंmasc.
समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः ।उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः ॥ १ ॥रत्नाकरो जलनिधिर्यादःपतिरपाम्पतिः ।तस्य प्रभेदाः क्षीरोदो लवणोदस्तथापरे ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
रत्नाकरः सरस्वानुदधिरुदन्वान्सरित्पतिरकूपारः ।पारावारस्तोयनिधिरर्णवजलराशिसागरसमुद्राः ॥ ६५२ ॥
metre not recognised
genderपुंmasc.
चतस्रश्चतुरो वेदा सागराब्धिकृताश्चतुः ।समुद्राम्भोनिधियुगा श्रुतिनीररगीश्वराः ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
कन्या कालविका स्वल्पवाहिनी कृत्रिमा सरित् ।समुद्रोब्धिरकूपारः सिन्धुः सागरसम्भवः ॥ १०७ ॥
अनुष्टुप्
genderपुंmasc.
समुद्रः सागरः सिन्धुस्तरिषस्तारिषोऽर्णवः ।लौहित्यस्तरणिर्धेनः पारावारो महाशयः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
रत्नाकरः सिन्धु-महासरौ[64b] च तरन्त-मीरौ मकरालयश्च ।महाशय-श्रीगुरु-सागराश्च मितद्रु-दभ्रार्णव-पाथिषः स्युः ॥ १६ ॥
उपेन्द्रवज्राmetre not read in every linenearly उपेन्द्रवज्रा: pāda 1, syllable 1 र (wrong syllable)
genderपुंmasc.
अभिधानशब्दः प्रत्येकमभिसम्बध्यते । संवत्सराभिधायिनां शब्दानां संवत्सरपर्यायाणां च । गिर्यादिपर्यायाणां च । पुंयोगः स्यादित्यर्थः । तद्यथा अयं संवत्सरः हायनोऽब्द इत्यादि । अयं गिरिः पर्वतः धरः शैल इत्यादि । मासाभिधायिनाम् । अयं मासः द्विपक्षः । मासविशेषोऽपि अयं चैत्रः वैशाखः ज्येष्ठः आषाढ इत्यादि । अर्णववाचिनाम् । अयमर्णवः समुद्रः सागरः पारावारः सरित्पतिरित्यादि । अयमृतुः वसन्तः ग्रीष्मः ।देववाचिनाम् । देवः सुरः । असुरवाचिनाम् । असुरः दैत्यः । शराभिधायिनाम् । शरः काण्डः । अयमसिः खड्गः मण्डलाग्रः । अयं पङ्कः कर्दमः जम्बालः । अयमरिः शत्रुः वैरी रिपुः विपक्ष इत्यादि ।भाष्कच्छुकशारज्ज्विष्टकाश्च नित्यं स्त्रि[स्त्री]यामीषिका च ।विद्युद्दिग्भूम्यभिधानं वल्ली सरितां च विज्ञेयम् ॥ ३१ ॥
metre not recognised
संवत्सरपुंहायनपुंअब्दपुंगिरिपुंपर्वतपुंधरपुंशैलपुंमासपुंचैत्रपुंवैशाखपुंज्येष्ठपुंआषाधपुंअर्णवपुंसमुद्रपुंसागरपुंपारावारपुंसरित्पतिपुंऋतुपुंवसन्तपुंग्रीष्मपुंदेवपुंसुरपुंअसुरपुंदैत्यपुंशरपुंकाण्डपुंअसिपुंखड्गपुंमण्डलाग्रपुंपङ्कपुंकर्दमपुंजम्बालपुंअरिपुंशत्रुपुंवैरिन्पुंरिपुपुंविपक्षपुंभास्स्त्रीकच्छुस्त्रीकशास्त्रीरज्जुस्त्रीइष्टकास्त्रीईषिकास्त्रीविद्युत्स्त्रीदिश्स्त्रीभूमिस्त्रीवल्लीस्त्रीसरित्स्त्री
genderपुंmasc.
समुद्रो वारिराशिश्च सरस्वान् सागरोऽर्णवः ।सीमोपकण्ठं तीरञ्च पारं रोधोऽवधिस्तटम् ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
समुद्रः सागरः सिन्धु[27]र्वीचिमाली नदीपतिः ।पारावारो जलनिधिर्मितद्रुश्चार्णवोदधी ॥ ३५१ ॥
अनुष्टुप्
genderपुंmasc.
समुद्रः सागरः सिन्धुः सरस्वानर्णवोऽम्बुधिः ।अकूपारो जलनिधिः पारावारः पयोनिधिः ॥ २७८ ॥
अनुष्टुप्
genderपुंmasc.
समुद्रः सागरः कन्धिः पयोधिर्जलशेवधिः ।नदीनः सिन्धुरम्भोधिः पयस्वान्पवनानुगः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
समुद्रः सागरः सिन्धुरुदधिः सरितां पतिः ।वारिराशिरकूपारः सरस्वान्मकरालयः ॥ ११२ ॥
अनुष्टुप्
genderपुंmasc.
जिनेन्द्रः केवलज्ञानी निर्वाणी सागरस्ततः ।महायशाश्चतुर्थश्च पञ्चमो विमलाभिधः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
समुद्रः सागरः सिन्धुस्तिमिकोशो महाशयः ॥ १८६५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सत्त्ववृत्तास्त्रिषु द्वे ते पीडापर्याय ईरितः ।समुद्रः सागरः सिन्धुः सरस्वान् सरितां पतिः ॥
अनुष्टुप्
genderपुंmasc.
अयुनं प्रयुतं कोटिरर्वुदो वृन्द इत्यपि ।अथ खर्वो निखर्वश्च शङ्खः पद्मश्च सागरः ।अन्त्यो मध्यः परार्धञ्च संख्या निगदिताः क्रमात् ॥
अनुष्टुप्
genderपुंmasc.
अर्णव उदधिरुदन्वानब्धिरकूपार आपगानाथः ।वरुणालयमकरालयवाराकरसिन्धुसागरसमुद्राः ॥ ३१५ ॥
गीतिःmetre not read in every line
genderपुंmasc.
वः खड्गीशः स्वायुयुतो(एव) वज्रस्फिक् मुखमेव हि ।वरुणः सागरश्चैव जगद्भाषा शुचिस्तथा ॥ ५४ ॥
अनुष्टुप्
genderपुंmasc.
आवालमालवालं स्यात्सेतौ वारणसंवरौ ।उदधिः सागरोऽपारो जलराशिरपांपतिः ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
सागर as a meaning in nānārtha verses
- धरणिकोश लौहित्यअपत्ये दुहितृसुतौ लौहित्यौ व्रीहिसागरौ । श्वशुर्यौ देवरश्यालौ विस्मयाऽद्भुतगर्वयोः ॥ Dharaṇikośa 25.1.12
- कोषकल्पतरु लौहित्यआकल्पेऽपि च रङ्गभुव्यतिथिषु त्वातिथ्य उक्तोऽन्तिमे स्यादर्थेऽतिथये सुते दुहितरि प्राज्ञैरपत्यं स्मृतम् । सामर्थ्यं किल योग्यतातिबलयोर्व्रीहौ पुनः सागरे लौहित्यश्चरमे पुनर्निगदितो ज्ञैर्लोहितत्वार्थकः ॥ ७२ ॥ Koṣakalpataru 6.26.72
- परमानन्दीयनाममाला गोपतिगोलको जारजे रण्डापुत्रे मणिकसंज्ञके । गोपतिर्वल्लवे रुद्रे सागरे वरुणेन्द्रयोः ॥ १६३ ॥ Paramānandīyanāmamālā 5.9.163
- परमानन्दीयनाममाला सिन्धुस्थूलः पीने जडे सालो दुर्गे वृक्षान्तरे स्मृतः । सिन्धुर्दन्तिमदे नद्यां नदसागरयोरपि ॥ ३६५ ॥ Paramānandīyanāmamālā 5.27.365
- शब्दरत्नाकर नभस्योगाङ्गेऽथ वृषे शुभ्रे धवलो धवली गवि । धनदो दातरि श्रीदे नभसो व्योम्नि सागरे ॥ २१०८ ॥ Śabdaratnākara 4.1.2108
- तन्त्राभिधान वउत्कारीशस्तु नीवीको वज्रं स्फिक् सागरः शुचिः । त्रिधातुः शङ्करः श्रेष्ठो विशेषो यमसादनम् ॥ १५२ ॥ Tantrābhidhāna 2.46.152
- तन्त्राभिधान क्षपरात्मा क्रोध-संहारौ वनान्तो मेरुवाचकः । सर्वाङ्गं सागरः कामः संयोगान्तस्त्रिपूरकः ॥ १७१ ॥ Tantrābhidhāna 2.52.171
- वैजयन्ती नभस्धाराटश्चातकेऽश्वे च नभसौ व्योमसागरौ । निवेशौ शिबिरोद्वाहौ निरोधौ रोधसंक्षयौ ॥ ३३ ॥ Vaijayantī 7.1.33