कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वातमृग

vātamṛgaपुं · masc.

In 10 kośas: 8 synonym verses, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1296 · p. 49
वातप्रमीर्वातमृगः शशस्तु मृदुलोमकः ॥ १२९५ ॥शूलिको लोमकर्णोऽथ शल्ये शललशल्यकौ ।श्वाविच्च तच्छलाकायां शललं शलमित्यपि ॥ १२९६ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.7
वातप्रमीर्वातमृगः कोकस्त्वीहामृगो वृकः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर पञ्चदशोपदेशः Bālaprabodhikā 15.311 · p. 94
वातायुः स्याद्वातमृगे प्रियको रोमभिर्युतः ।शम्याकः श्वेतबिन्दुः स्यात्कदली तु बिलेशयः ॥ ३११ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.35 · p. 321
भारशृङ्गोऽपि बिन्द्वङ्गः शम्बरोऽथ महाजवः ।वातप्रमीर्वातमृगो जङ्घालो जाङ्घिकश्च सः ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.157 · p. 378
वातमृगो वातप्रमी वायुवेगसमो मृगः ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.18 · p. 83
गोधिका सदृशोऽपि स्यात् खोके इति निगद्यते ।श्वावित् क्रकचपादः स्यात् छेदारः शल्य इत्यपि ॥एतस्य लोम्नि शललं शलली शलमित्यपि ।वातप्रमीर्वातमृगो वाताटहरिणे द्वयम् ॥कोक ईहामृगेऽपि स्याद् वृक ईहावृकोऽपि च ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.690 · p. 88
चतुरा तु घनस्निग्धरोमा श्यामा सचन्द्रका ।वातप्रमीर्वातमृगश्चीनस्तु त्रिंशदङ्गुलः ॥ ६९० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.16 · p. 66
रौहिषो गर्दभाभासो रोहितः श्वेतराजिमान् ।वातायुः स्याद्वातमृगो जवी वातप्रमीः शिवः ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.

वातमृग as a meaning in nānārtha verses