कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कोक

kokaपुं · masc.

In 18 kośas: 33 synonym verses, 6 as a nānārtha head word, 13 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1292 · p. 49
पृथौ गृण्डिबलोपाकौ कोकस्त्वीहामृगो वृकः ।अरण्यश्वा मर्कटस्तु कपिः कीशः प्लवंगमः ॥ १२९१ ॥प्लवंगः प्लवगः शाखामृगो हरिर्बलीमुखः ।वनौका वानरोऽथासौ गोलाङ्गूलोऽसिताननः ॥ १२९२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ह (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.153 · p. 51
चक्रवाको रथाङ्गाह्वः कोको द्वन्द्वचरोऽपि च ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.7
वातप्रमीर्वातमृगः कोकस्त्वीहामृगो वृकः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.22
कोकश्चक्रश्चक्रवाको रथाङ्गाह्वयनामकः ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.228 · p. 28
ऋक्षाच्छभल्लभाल्लूकभल्लूकाश्च समाः स्मृताः ।अरण्यश्वा बुधैर्ज्ञेयः कोक ईहामृगो वृकः ॥ २२८ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.244 · p. 30
क्रौञ्चः क्रुङ् स्यात्खञ्जनः खञ्जरीटःकोकश्चक्रश्चक्रवाको रथाङ्गः ।दार्वाघाटः सारसः पुष्कराख्यः,प्रोक्ता सद्भिः सारसी लक्ष्मणा च ॥ २४४ ॥
शालिनी
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर चतुर्दशोपदेशः Bālaprabodhikā 14.292 · p. 92
हंससाचिः क्षुद्रहंसश्चक्रवाकस्तु चक्रवाक् ।कोकश्चक्रः कोटरुश्च बलोटोपक इत्यपि ॥ २९२ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर पञ्चदशोपदेशः Bālaprabodhikā 15.309 · p. 94
भल्लूके दीर्घरोमा स्याद्भल्लूवासः सिताननः ।गण्डके खड्गपादः स्यात् कोके त्वीहायनो वृकः ॥ ३०९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.17 · p. 319
तेऽपि स्युः श्वापदाः सर्वे कोकस्त्वीहामृगो वृकः ।स्याद्गोवत्सहुडच्छागनाशनोऽपि जलाश्रयः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.119 · p. 330
शुक्लाक्षः शुक्लशवलोप्यारी त्वारामुखी पुनः ।चक्रः कोकश्चक्रवाको निट्पर्यायवियोग्यपि ॥ ११९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.120 · p. 357
वर्षानन्दो गाढवर्चाः शालूरः कोक इत्यपि ।प्लवंगमश्च शालूरः सालुश्चापि प्रवंगमः ॥ १२० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव यज्ञादिप्रकाण्डः Kalpadrukośa 3.3.8 · p. 452
कामो मासो मलः कोको लक्ष्मीनाथः सुयामुनः ।सहस्रपारः षड्विन्दुरनन्तो नलिनेशयः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.20 · p. 10
अपराजितगोपेन्द्रमायकोकाम्बुजेशयाः ।कालीयदमनस्तद्वन्मुञ्जकेशी सु[7b]यामुनः ॥ २० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.83 · p. 157
रक्तपुष्पस्तु लगुडश्चण्डातो गुल्मकस्तथा ।गणेरुका स्वर्णपुष्पी गणेरुर्गणकारिका ॥कर्णाङ्कश्च करेणुश्च कोको वर्णमनोहरः ।द्रुमोत्पलः कर्णिकारः परिव्याधः ससौरभः ॥ ८३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.20 · p. 190
भवेद्गृण्डिवलश्चाथ कोक ईहामृगो वृकः ।वनश्वा[65b] छागशत्रुश्च तिलिञ्छश्च मृगादनः ॥ २० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.73 · p. 196
सारसी लक्ष्मणा च स्याल्लक्षणा लक्ष्मणीत्यपि ।कोको द्विकश्चक्रवाकश्चक्रो द्वंद्वचरोऽपि सः ॥ ७३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंलिङ्गाधिकारः Koṣakalpataru 4.1.13 · p. 95
कुरङ्गकोकौ वटकोऽपि भावेवाकोत्तरो रल्ल[222a]क-नक्तकौ च ।न्युङ्खोऽपि साम्नः प्रणवेषु शङ्खो-ऽकम्बौ मृगापाङ्ग-सवङ्ग-मङ्गाः ॥
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 1, syllable 1 कु (wrong syllable)
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 127 · p. 64
वरटा वारली हंसी कोक ईहामृगो वृकः ।हरिणो मृगश्च पृषतः तदङ्कः शर्वरीकरः ॥ १२७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.196 · p. 76
भरुजः फेरुरप्येवं भूरिमायोऽपि कथ्यते ।ईहामृगो वृकः कोको वानरः प्लवगः पुनः ॥ १९६ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.231 · p. 81
सारङ्गश्चक्रवाकस्तु रथाङ्गः कोक इत्यपि ।कटुनादष्टिट्टिभः स्यादूर्ध्वपादशयश्च सः ॥ २३१ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.41 · p. 30
वृके तु कोकस्त्वीहाश ईहामृग इभप्रियः ।कुरङ्गे मृदुचर्मा स्याद्वातायुर्वायुमोदकः ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त चतुःपदमरीचिः Pañcatattvaprakāśa 1.3.131 · p. 10
गण्डकः खड्गकः खड्गी सैरिभो महिषोऽश्वहा ।ईहामृगो वृकः कोकः श्वा कौलेयकुक्कुरौ ॥ १३१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.92 · p. 11
मधुरालापिनी श्यामा कलकण्ठी वनप्रिया ।रथाङ्गाह्वश्चक्रवाकः कोको द्वंद्वचरश्च सः ॥ ९२ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2333 · p. 377
अरण्यश्वा वृकः कोकः ईहामृगोऽपि कथ्यते ॥ २३३३ ॥
metre not recognised
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.238 · p. 389
चक्रवाको रथाङ्गाह्वः कोको द्वन्द्वचरोऽपि सः ।
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.18 · p. 83
गोधिका सदृशोऽपि स्यात् खोके इति निगद्यते ।श्वावित् क्रकचपादः स्यात् छेदारः शल्य इत्यपि ॥एतस्य लोम्नि शललं शलली शलमित्यपि ।वातप्रमीर्वातमृगो वाताटहरिणे द्वयम् ॥कोक ईहामृगेऽपि स्याद् वृक ईहावृकोऽपि च ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.63 · p. 86
स्याच्चक्रो रथचरणः कोकश्च दिनदुःखितः ।कादम्बः कलहंसः स्यात् कालमाह्वय पक्षिणि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.687 · p. 88
पृषतो बिन्दुचित्रोङ्गः कन्दली तु महोदरी ।श्यामा हस्तसमायामा कोक ईहामृगो वृकः ॥ ६८७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शकुन्ताध्यायः Śabdaratnākara 2.5.810 · p. 103
वरटा वरला हंसी सारसीलक्ष्मणे समे ।चक्रवाकरथाङ्गाह्वकोकचक्राः समा इमे ॥ ८१० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शकुन्ताध्यायः Śabdaratnākara 2.5.815 · p. 103
प्रतुदा अथ कादम्बहंसकारण्डवप्लवाः ।बलाका सारसोत्क्रोशकोकक्रौञ्चादयोऽप्सराः ॥ ८१५ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव स्वर्गवर्गः Trikāṇḍaśeṣa 1.1.29 · p. 7
कोकः पुराणपुरुषो नलिनेशयश्चवासुनेर्नरायणपुनर्वसुविश्वरूपाः ।अः श्रीनिवासधरणीधरवामनैक-शृङ्गाश्च वृष्णिवृषशत्रुदशावताराः ॥ २९ ॥
वसन्ततिलकाmetre not read in every linenearly वसन्ततिलका
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश खगाध्यायः Vaijayantī 2.3.9 · p. 26
हंससाचिः क्षुद्रहंसः क्षयिस्तु कुवलायिकः ।चक्रवाको रथः कोकश्चक्रश्चक्राह्वयाह्वयः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.8 · p. 65
वार्ध्राणसो गणोत्साहः कोकस्त्वीहामृगो वृकः ।महिषः सैरिभोऽश्वारिर्जलात्मा गद्गदस्वरः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास कार्धश्लोकः Dharaṇikośa 1.2.5 · p. 5
कङ्को युधिष्ठिरे पक्षिभेदे ब्राह्मणलिङ्गिनि ।कोकश्चक्राह्वये ज्येष्ठ्यां पशुवृक्षविशेषयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.21 · p. 138
ज्येष्ठ्यां रथाङ्गेऽपि वृकेऽपि कोकःखर्जूरिकायां च तरुप्रभेदे ।छेको विदग्धे भ्रमरे च वक्रे( ? )शङ्काविरेकाधमकेषु रेकः ॥ २१ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.291 · p. 67
कोको द्वे चक्रवाके च स्यादीहामृगसंज्ञके ।मृगान्तरे च ना त्वेष आदाने ना तु कोणवाक् ॥ २९१ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास ककारादयः Paramānandīyanāmamālā 5.7.86 · p. 172
कोकस्तु चक्रवाके स्थाद्वृके खर्जूरिकाद्रुमे ।कचो वाक्पतिपुत्रे स्यात्केशे बन्धे व्रणान्तरे ॥ ८६ ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1898 · p. 231
मत्सरे सुरभौ तिक्ते चोषणे च कटुस्त्रिषु ।कोक ईहामृगे चक्रे कायो देहे कदैवते ॥ १८९८ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.15 · p. 96
खगे यमे छद्मविप्रे कङ्कः सूच्यां च कूर्चिका ।क्रमुको भद्रमुस्तेऽपि कोकश्चक्रे वृकेऽपि च ॥ १५ ॥
अनुष्टुप्

कोक as a meaning in nānārtha verses