कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शौल्किकेय

śaulkikeyaपुं · masc.

In 3 kośas: 3 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.1199 · p. 46
विषः क्ष्वेडो रसस्तीक्ष्णं गरलोऽथ हलाहलः ॥ ११९५ ॥वत्सनाभः कालकूटो ब्रह्मपुत्रः प्रदीपनः ।सौराष्ट्रिकः शौल्किकेयः काकोलो दारदोऽपि च ॥ ११९६ ॥अहिच्छत्त्रो मेषशृङ्गकुष्टवालूकनन्दनाः ।कैराटको हैमवतो मर्कटः करवीरकः ॥ ११९७ ॥सर्षपो मूलको गौरार्द्रकः सक्तुककर्दमौ ।अङ्कोल्लसारः कालिङ्गः शृङ्गिको मधुसिक्थकः ॥ ११९८ ॥इन्द्रो लाङ्गुलिको विस्फुलिङ्गपिङ्गलगौतमाः ।मुस्तको दालवश्चेति स्थावरा विषजातयः ॥ ११९९ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.646 · p. 73
ब्रह्मपुत्रः शौल्किकेयो दारदश्च प्रदीपनः ।रसः सौराष्ट्रिकः क्ष्वेडस्तीक्ष्णश्च विषमुच्यते ॥ ६४६ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2158 · p. 355
कालकूटश्च काकोलः कर्दमः करवीरकः ।शृङ्गिकः शौल्किकेयश्च सक्तुको मधुसिक्थकः ॥ २१५८ ॥
अनुष्टुप्
genderपुंmasc.