कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

क्ष्वेड

kṣveḍaपुं · masc.

In 17 kośas: 16 synonym verses, 11 as a nānārtha head word, 5 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.1199 · p. 46
विषः क्ष्वेडो रसस्तीक्ष्णं गरलोऽथ हलाहलः ॥ ११९५ ॥वत्सनाभः कालकूटो ब्रह्मपुत्रः प्रदीपनः ।सौराष्ट्रिकः शौल्किकेयः काकोलो दारदोऽपि च ॥ ११९६ ॥अहिच्छत्त्रो मेषशृङ्गकुष्टवालूकनन्दनाः ।कैराटको हैमवतो मर्कटः करवीरकः ॥ ११९७ ॥सर्षपो मूलको गौरार्द्रकः सक्तुककर्दमौ ।अङ्कोल्लसारः कालिङ्गः शृङ्गिको मधुसिक्थकः ॥ ११९८ ॥इन्द्रो लाङ्गुलिको विस्फुलिङ्गपिङ्गलगौतमाः ।मुस्तको दालवश्चेति स्थावरा विषजातयः ॥ ११९९ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह पातालभोगिवर्गः Amarakośa 1.8.9
समौ कञ्चुकनिर्मोकौ क्ष्वेडस्तु गरलं विषम् ॥ ९ ॥
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.646 · p. 73
ब्रह्मपुत्रः शौल्किकेयो दारदश्च प्रदीपनः ।रसः सौराष्ट्रिकः क्ष्वेडस्तीक्ष्णश्च विषमुच्यते ॥ ६४६ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर चतुर्थोपदेशः Bālaprabodhikā 4.59 · p. 71
शब्दो व्योमगुणः स्वानं प्रस्वनस्वननिस्वनाः ।निर्ह्रादो रवणो नादः क्ष्वेडो ध्वानो ध्वनी रवः ।कर्णिह्रासो रसे भ्रूणा कन्धः कण्ठश्च घोषणः ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सर्पादिप्रकाण्डः Kalpadrukośa 1.16.21 · p. 366
भोगस्त्रिष्वहिकोशस्तु निर्मोकः कञ्चुकोऽस्त्रियाम् ।गरोऽस्त्री गरलः क्ष्वेडो गरलं विषमस्त्रियाम् ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.8 · p. 160
आस्फोतश्च सदापुष्पः खरवङ्कफलस्तथा ।राजार्कस्त्वेष रक्तः स्यात्तत्फलं क्ष्वेडमुच्यते ॥ ८ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.37 · p. 187
क्ष्वेडं [63a] धामार्गवो घोषो महाजाली तु पीतकः ।राजकोशातकी हस्तिपर्णी कर्क्कोटिकी तथा ॥ ३७ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.97 · p. 106
चीनपिष्टं च शृङ्गाट स्यात्फाण्टं मोरटं पिटम् ।तिरीटं पृष्ठ-गोष्ठे च क्ष्वेडं धामार्गवार्थकम् ॥ ९७ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.114 · p. 66
घासोऽथ -----------विषः क्ष्वेडो हलाहलः ।कालकूटं वत्सनागो ब्रह्मपुत्रोऽपि दारदः ॥ ११४ ॥
metre not recognised
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट पाताललोकसर्गः Paryāyaśabdaratna 3.8 · p. 123
तेषां राजा महाक्रोधी कर्कोटक इति श्रुतः ।तद्विषे कालकूटः स्यादसं(स?)ह्यः क्ष्वेड इत्यपि ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.149 · p. 16
विषस्तु गरलं क्ष्वेडो रसस्तीक्ष्णश्च तद्भिदः ।हालाहलः कालकूटो वत्सनागः प्रदीपनः ॥ १४९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2157 · p. 354
विषस्तीक्ष्णं रसः क्ष्वेडो गरलोऽपि च नाम वै ॥ २१५७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.335 · p. 133
कलम्वः स्याद्वीरतरो मार्गणोऽप्याशुगः खगः ।तूणक्ष्वेडः पृषत्केषुरोपकाण्डविपर्यकाः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.628 · p. 80
राजजाली महाकोशातकी च फलिकेति च ।कर्कोटी कोशफलिका क्ष्वेडोऽधोमार्गवोऽप्यसौ ॥ ६२८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शब्दाध्यायः Vaijayantī 2.4.1 · p. 31
शब्दो व्योमगुणस्वानस्वननिस्वाननिस्वनाः ।निर्ह्रादो रवणो नादः क्ष्वेडो ध्वानो ध्वनिः कवः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश लिङ्गसङ्ग्रहाध्यायः Vaijayantī 8.9.31 · p. 291
क्ष्वेडाश्च कन्दलाः कालकूटाद्याः स्युः कमण्डलुः ।सक्तुः परीतन्महिमा कर्म पर्व च लोम दोः ॥ ३१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
धरणिकोश Dharaṇikośa · धरणिदास डश्लोकः Dharaṇikośa 12.2.9 · p. 46
क्ष्वेडः कर्णामये शब्दे विषघोषकयोरपि ।योधानां सिंहनादोऽपि क्ष्वेडा वाद्यं च वैणवम् ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ डान्ताः Koṣakalpataru 6.12.61 · p. 189
हिण्डिः स्त्रियां बालकरात्रिरक्षा-चारे भवान्यामपि भाष्यतेऽसौ ।क्रोडः शनौ घोणिनि पुंस्त्वहीनोभुजान्तरे प्रावरणान्तरे तु ।देशेऽपि चोडः श्रवणामये तुक्ष्वेडो ध्वनौ[276b]ना गरलेऽन्यवत्तु ॥ ६१ ॥
उपजातिःmetre not read in every line
कोषकल्पतरु Koṣakalpataru · विश्वनाथ डान्ताः Koṣakalpataru 6.12.72 · p. 189
वक्रे स्त्रियां वीरनिनादवाद्य-भिद्वंशशल्येषु नपुंसके तु ।स्याद्घोषपुष्प्यामपि लोहितार्क-फलेऽप्यथाण्डं पतगादिपेश्याम् ॥ ७२ ॥
उपजातिः
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.282 · p. 67
लतायां स्यात् सुविख्याता राजकोशातकीति या ।विषे ध्वनौ च ना यौधसिंहनादे तु सा स्त्रियाम् ॥ २८२ ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास क्षकारादयः Paramānandīyanāmamālā 5.29.379 · p. 210
उत्सवेऽथ मतः क्ष्वेडो वक्रे च गरले तथा ।क्ष्वेडा सिंहध्वनौ देशे काले क्ष्वेडं दुरासदे ॥ ३७९ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास क्षकारादयः Paramānandīyanāmamālā 5.29.380 · p. 210
रोहितायाः फले पुष्पे क्षमा क्षान्तिर्धरित्र्यपि ।क्षमः क्षमायुते शक्ते क्षेमो लब्धस्य रक्षणे ॥ ३८० ॥
अनुष्टुप्
doubtful
शिवकोष Śivakoṣa · शिवदत्तमिश्र डद्विः Śivakoṣa 10.1.145 · p. 14
क्ष्वेडा वंशशलाकायामथ पुंसि हलाहले ।लोहितार्के पर्णफले क्लीबं च कृतवेधने ॥ १४५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
शब्दरत्नावली Śabdaratnāvalī · मथुरेश डान्ताः Śabdaratnāvalī 7.13.5 · p. 204
कुण्डी कमण्डलौ स्थाल्यां कुण्डो जारसुते पुमान् ।क्ष्वेडो ध्वनौ विषे कर्णरोगे ज्वालाकुलेऽपि च ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश डान्ताः Śabdaratnāvalī 7.13.7 · p. 204
रक्तार्कपर्णप्रसवे घोषपुष्पे नपुंसकम् ।दुरासदे च कुटिले वाच्यलिङ्गं निगद्यते ॥
अनुष्टुप्
doubtful
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.111 · p. 129
कुण्डं खातोखयोर्जारजे ना कुण्डी कमण्डलौ ।सिंहोक्तौ स्त्री विषे क्ष्वेडः पशौ क्रोडो न नोरसि ॥ १११ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.21 · p. 231
युगेऽक्षपाते पर्याप्ते कृतं क्ली विहितेऽर्थवत् ।क्ष्वेडा वेणुशलाकायां सिंहनादे विषे तु ना ॥ २१ ॥
अनुष्टुप्

क्ष्वेड as a meaning in nānārtha verses

  • कोषकल्पतरु शल्यशरे च वंशादिकवंशिकायां क्ष्वेडेऽन्तिमे तोमरवाचकश्च । छिद्रेऽवधौ मद्रपतौ तु पुंसि गालद्रुमे श्वाविधि तद्वदुक्तः ॥ २९ ॥ Koṣakalpataru 6.26.29
  • नानार्थार्णवसंक्षेप विषाविषा त्वतिविषायां स्त्री क्ष्वेडे तु स्यान्नृशण्डयोः । जले तु क्ली विधा तु स्त्री भृतौ वृद्धिप्रकारयोः ॥ १२५१ ॥ Nānārthārṇavasaṃkṣepa 2.5.1251
  • शिवकोष शल्यशल्यं क्ष्वेडे च मदने शल्यः सेव्यस्तु पौण्ड्रके । सेव्या तु हृद्यगन्धायामथ सेव्यं रणप्रिये ॥ ३४८ ॥ Śivakoṣa 21.1.348
  • शिवकोष विषप्लक्षस्तु पर्कटीगर्दभाण्डयोः कुञ्जराशने । विषं जलेऽस्त्रियां क्ष्वेडे स्त्री मान्द्यां च वृषः श्रियाम् ॥ ५१८ ॥ Śivakoṣa 26.1.518
  • शब्दरत्नावली शल्यशल्यं क्ष्वेडे तोमरे च मदनश्वाविदोः पुमान् । विषायुधभिदोः क्लीबं दुःसहे दुर्वचस्यपि ॥ Śabdaratnāvalī 7.26.32