कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

हलाहल

halāhalaपुं · masc.

In 16 kośas: 27 synonym verses, 1 as a nānārtha head word, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.1199 · p. 46
विषः क्ष्वेडो रसस्तीक्ष्णं गरलोऽथ हलाहलः ॥ ११९५ ॥वत्सनाभः कालकूटो ब्रह्मपुत्रः प्रदीपनः ।सौराष्ट्रिकः शौल्किकेयः काकोलो दारदोऽपि च ॥ ११९६ ॥अहिच्छत्त्रो मेषशृङ्गकुष्टवालूकनन्दनाः ।कैराटको हैमवतो मर्कटः करवीरकः ॥ ११९७ ॥सर्षपो मूलको गौरार्द्रकः सक्तुककर्दमौ ।अङ्कोल्लसारः कालिङ्गः शृङ्गिको मधुसिक्थकः ॥ ११९८ ॥इन्द्रो लाङ्गुलिको विस्फुलिङ्गपिङ्गलगौतमाः ।मुस्तको दालवश्चेति स्थावरा विषजातयः ॥ ११९९ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1298 · p. 50
स्यादञ्जनाधिका हालिन्यञ्जनिका हलाहलः ॥ १२९८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह पातालभोगिवर्गः Amarakośa 1.8.13
पुंसि क्लीबे च काकोलकालकूटहलाहलाः ।सौराष्ट्रिकः शौक्लिकेयो ब्रह्मपुत्रः प्रदीपनः ॥ १० ॥दारदो वत्सनाभश्च विषभेदा अमी नव ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 जा (wrong syllable)
genderपुंक्लीm. n.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.647 · p. 74
शृङ्गिको वत्सनाभश्च कालकूटो हलाहलः ।काकोलो विस्फुलिङ्गश्च तद्भेदाः स्युरनेकधा ॥ ६४७ ॥
अनुष्टुप्
genderपुंmasc.
भुजङ्गमो भुजङ्गश्च भुजगः स्यात् स्फटा फटा ।हालाहलं हालहलं हाहलं च हलाहलम् ॥ ५७ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.62 · p. 324
गौधेरोऽपि च गौधारो येन दष्टो न जीवति ।तृणाञ्चनः क्रकचपात् कृकलासो हलाहलः ॥ ६२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.70 · p. 325
विषस्वेदा मर्कटी स्यादजीलाका हलाहलः ।वक्रकीटास्तत्प्रभेदा बहवोप्यथ वृश्चिकः ॥ ७० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सर्पादिप्रकाण्डः Kalpadrukośa 1.16.22 · p. 366
अस्त्रियां विषभेदे तु हालाहलहलाहले ।हलाहलं हालहालं शौक्लिकेयं च न स्त्रियाम् ॥ २२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.186 · p. 482
स्याद्धलाहलजम्बालवल्कलानां ततः पुनः ।सहेन्द्रनीलगरललाङ्गूलैः खण्डलस्य च ॥ १८६ ॥
अनुष्टुप्
genderपुंक्लीm. n.doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.42 · p. 192
गृहगोधा च माणिक्या मुशली च गृहोलिका ।कुड्यमत्स्या भित्तिपल्ली हालिनी तु हलाहलः ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पातालवर्गः Koṣakalpataru 3.1.31 · p. 304
हालाहलं हालहलं काकोलं च हलाहलम् ।कालकूटं रसस्तीक्ष्णं क्लीबे मधुरकं च तत् ॥ ३१ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.66 · p. 115
genderपुंक्लीm. n.doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.114 · p. 66
घासोऽथ -----------विषः क्ष्वेडो हलाहलः ।कालकूटं वत्सनागो ब्रह्मपुत्रोऽपि दारदः ॥ ११४ ॥
metre not recognised
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.159 · p. 230
genderपुंक्लीm. n.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट पाताललोकसर्गः Paryāyaśabdaratna 3.10 · p. 123
तद्विषे स्याद्ध(द्धा?)लहलो हालाहलहलो(ला?)हलौ ।रक्ताश्च रक्तस्राविण्यो गोनसाश्च बहुश्रुताः ॥ १० ॥
अनुष्टुप्
genderपुंmasc.doubtful
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2161 · p. 355
हालहलं चाऽहिछत्रो हालाहलं हलाहलः ।सर्षपो ब्रह्मपुत्रश्च प्रदीपनश्च नन्दनः ॥ २१६१ ॥
metre not recognised
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2346 · p. 379
तथाऽञ्जनाधिका हालिन्यञ्जनिका हलाहलः ।स्थूलाऽञ्जनाधिकायां स्याद् ब्राह्मणी रक्तपुच्छिका ॥ २३४६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.21 · p. 38
विषं क्षेडस्तु गरलं जङ्गुलं जाङ्गुलञ्च तत् ।अस्त्रियामथ काकोलः कालकूटो हलाहलः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.23 · p. 38
हालाहलं हालहलं हाहलञ्च हलाहलम् ।हालाहालञ्च विज्ञेयं हाहलं पञ्चरूपकम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.276 · p. 241
मालातृणं भ्रूस्तुणं च विषे तु गर-सङ्गरौ ।गरलोऽथ हालाहले हालहलो हलाहलः ॥ २७६ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 लह (syllable split)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.334 · p. 245
अञ्जन्यामञ्जनाधिका हालिनी च हलाहलः ।कृकलासे कृकुलासः सरटः सरडस्तथा ॥ ३३४ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 धि (wrong syllable); pāda 3, syllable 6 कु (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.312 · p. 42
शौक्लिकेयो महाघोषः शृङ्गी चेत्येवमादयः ।त्रयः क्लीबे च काकोलकालकूटहलाहलाः ॥ ३१२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नृषण्डलिङ्गप्रकरणम् Śabdaratnākara 7.5.2331 · p. 284
कमण्डलुः कालकूटो मधुः सानुर्हलाहलः ।इत्यादि सर्वं तद्रूपं तत्र तत्र प्रदर्शितम् ॥ २३३१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव स्वर्गवर्गः Trikāṇḍaśeṣa 1.1.15 · p. 5
लोकेश्वरः कृपाद्वैतः सुधावर्षी हलाहलः ।सुखावतीश्वरः कन्यारामोऽसिताभ्रशेखरः ॥ १५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 सि (wrong syllable)
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव पातालवर्गः Trikāṇḍaśeṣa 1.7.3 · p. 23
दिक्कण्टको वियद्भूतिः खत्वग्वृत्रोऽथ नागभित् ।दृम्भूः स्त्री स्याद्वलूताजगरावथ हलाहलः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव सिंहादिवर्गः Trikāṇḍaśeṣa 2.5.12 · p. 45
प्रतिसूर्योऽप्याञ्जनस्तु चित्रकोलो हलाहलः ।कारस्कराटिका कर्णजलौका स्यादथो वटिः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश सरीसृपाध्यायः Vaijayantī 4.1.24 · p. 150
एवमन्येऽपि काकोलो वत्सनाभो हलाहलः ।सौराष्ट्रिको ब्रह्मपुत्रशौक्लिकेयेन्द्रदारदाः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास लार्धश्लोकः Dharaṇikośa 27.2.49 · p. 198
हलाहलो विषे प्रोक्तो हयलालाह्वयेऽप्यसौ ।… अक्षमालाप्यरुन्धती ॥
अनुष्टुप्metre not read in every line

हलाहल as a meaning in nānārtha verses

  • शिवकोष क्ष्वेडक्ष्वेडा वंशशलाकायामथ पुंसि हलाहले । लोहितार्के पर्णफले क्लीबं च कृतवेधने ॥ १४५ ॥ Śivakoṣa 10.1.145
  • शिवकोष सङ्गरशिलीन्ध्रं कवके क्लीबं कदल्याः कुसुमेऽपि च । शिशिरं चन्दने चन्द्रे सङ्गरस्तु हलाहले ॥ ४१५ ॥ Śivakoṣa 22.3.415