कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मेषशृङ्ग

meṣaśṛṅgaपुं · masc.

In 7 kośas: 6 synonym verses, 1 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.1199 · p. 46
विषः क्ष्वेडो रसस्तीक्ष्णं गरलोऽथ हलाहलः ॥ ११९५ ॥वत्सनाभः कालकूटो ब्रह्मपुत्रः प्रदीपनः ।सौराष्ट्रिकः शौल्किकेयः काकोलो दारदोऽपि च ॥ ११९६ ॥अहिच्छत्त्रो मेषशृङ्गकुष्टवालूकनन्दनाः ।कैराटको हैमवतो मर्कटः करवीरकः ॥ ११९७ ॥सर्षपो मूलको गौरार्द्रकः सक्तुककर्दमौ ।अङ्कोल्लसारः कालिङ्गः शृङ्गिको मधुसिक्थकः ॥ ११९८ ॥इन्द्रो लाङ्गुलिको विस्फुलिङ्गपिङ्गलगौतमाः ।मुस्तको दालवश्चेति स्थावरा विषजातयः ॥ ११९९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सर्पादिप्रकाण्डः Kalpadrukośa 1.16.24 · p. 366
ब्रह्मपुत्रो दारकश्च पुंसि क्लीबे मता अमी ।अहिच्छत्रो मेषशृङ्गः कुलिको मधुसिक्थकः ॥ २४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पातालवर्गः Koṣakalpataru 3.1.34 · p. 305
आदीपनौ दारदश्च मकरश्च परे पुनः ।अहिच्छत्रो मेषशृङ्गो कुष्ठ-वालुक-नन्दनाः ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2159 · p. 355
मकटो मुस्तकः कुष्ठो मेषशृङ्गश्च मूलकः ।गौरार्द्रकश्च कालिङ्गो कैराटकश्च गौतमः ॥ २१५९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ट (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.478 · p. 63
मधुच्छदो ध्रुवावृक्षो ग्रन्थिलोऽथ विषाणिनि ।अजावृक्षो मेषशृङ्गश्चक्षुष्यो बहुशृङ्गकः ॥ ४७८ ॥
अनुष्टुप्
genderपुंmasc.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 71 · p. 535
मेषशृङ्गं त्वविशृङ्गाकृतिः ॥ ७१ ॥
genderक्लीneut.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.508 · p. 70
अत्रापि पूर्ववत् सादि मेषशृङ्गस्तु पुन्नयोः ।विषभेदे स्त्री तु मेषशृङ्गी वृक्षान्तरे स्मृता ॥ ५०८ ॥
अनुष्टुप्