कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सौराष्ट्रिक

saurāṣṭrikaपुं · masc.

In 10 kośas: 11 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.1199 · p. 46
विषः क्ष्वेडो रसस्तीक्ष्णं गरलोऽथ हलाहलः ॥ ११९५ ॥वत्सनाभः कालकूटो ब्रह्मपुत्रः प्रदीपनः ।सौराष्ट्रिकः शौल्किकेयः काकोलो दारदोऽपि च ॥ ११९६ ॥अहिच्छत्त्रो मेषशृङ्गकुष्टवालूकनन्दनाः ।कैराटको हैमवतो मर्कटः करवीरकः ॥ ११९७ ॥सर्षपो मूलको गौरार्द्रकः सक्तुककर्दमौ ।अङ्कोल्लसारः कालिङ्गः शृङ्गिको मधुसिक्थकः ॥ ११९८ ॥इन्द्रो लाङ्गुलिको विस्फुलिङ्गपिङ्गलगौतमाः ।मुस्तको दालवश्चेति स्थावरा विषजातयः ॥ ११९९ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह पातालभोगिवर्गः Amarakośa 1.8.13
पुंसि क्लीबे च काकोलकालकूटहलाहलाः ।सौराष्ट्रिकः शौक्लिकेयो ब्रह्मपुत्रः प्रदीपनः ॥ १० ॥दारदो वत्सनाभश्च विषभेदा अमी नव ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 जा (wrong syllable)
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.646 · p. 73
ब्रह्मपुत्रः शौल्किकेयो दारदश्च प्रदीपनः ।रसः सौराष्ट्रिकः क्ष्वेडस्तीक्ष्णश्च विषमुच्यते ॥ ६४६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सर्पादिप्रकाण्डः Kalpadrukośa 1.16.23 · p. 366
सौक्तिकेयोऽथ सौराष्ट्रिकः स्यात्सारोष्ट्रिकोऽपि च ।वत्सनाभश्च काकोलः कालकूटः प्रदीपनः ॥ २३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.115 · p. 66
प्रदीपनश्च काकोलः सौल्किकेयस्तथापरः ।सौराष्ट्रिकोऽप्यहिच्छत्रो मर्कटो मेषशृङ्गकः ॥ ११५ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.150 · p. 16
सौराष्ट्रिको ब्रह्मपुत्रः काकोलो दरदोऽपि च ।मृगः कुरङ्गो हरिण एणः सारङ्ग एव च ॥ १५० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2162 · p. 355
सोराष्ट्रिकः सौराष्ट्रिकः हैमवतस्तथैव च ।एता सर्वा हि मन्यन्ते स्थावरा विषजातयः ॥ २१६२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.22 · p. 38
ब्रह्मपुत्रः शौक्लिकेयो वत्सनाभः प्रदीपनः ।सौराष्ट्रिको दारदः स्युर्विषभेदा अमी नव ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.24 · p. 38
सारोष्ट्रिकोऽपि विज्ञेयः सौराष्ट्रिक इति द्विधा ।व्यालग्राही जाङ्गुलिः स्याद् जाङ्गुलिश्चाहितुण्डिकः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.311 · p. 42
गरलं तु विषं क्ष्वेलस्तत्प्रभेदास्तु दारदः ।सौराष्ट्रिको ब्रह्मपुत्रो वत्सनाभः प्रदीपनः ॥ ३११ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश सरीसृपाध्यायः Vaijayantī 4.1.24 · p. 150
एवमन्येऽपि काकोलो वत्सनाभो हलाहलः ।सौराष्ट्रिको ब्रह्मपुत्रशौक्लिकेयेन्द्रदारदाः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.