कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

संराव

saṃrāvaपुं · masc.

In 8 kośas: 8 synonym verses.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शब्दादिवर्गः Amarakośa 1.6.24
शब्दे निनादनिनदध्वनिध्वानरवस्वनाः ॥ २२ ॥स्वाननिर्घोषनिर्ह्रादनादनिस्वाननिस्वनाः ।आरवारावसंरावविरावा अथ मर्मरः ॥ २३ ॥स्वनिते वस्त्रपर्णानां भूषणानां तु शिञ्जितम् ।निक्वाणो निक्वणः क्वाणः क्वणः क्वणनमित्यपि ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.103 · p. 450
समाविभ्यः परो रावस्तथैव च पुनः स्त्रियौ ।ध्वनिः स्वनिरपि क्लीबे फणनं चाथ रोदनम् ॥ १०३ ॥
अनुष्टुप्
genderपुंmasc.doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.56 · p. 71
शब्दो निनादो निनदो नदोऽपिनादो ध्वनि-ध्वान-रवारवाः स्युः ।आराव-संराव-विराव-घोष-निर्घोष-निःस्वान-रण-स्तनाश्च ॥ ५६ ॥
इन्द्रवज्रा
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2542 · p. 412
विरावश्चापि संरावो ह्रादो रावस्तथा स्वनिः ।निर्ह्रादश्चेति त्रिंशन्नामानि शब्दबोधने ॥ २५४२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.400 · p. 28
निनादनिनदध्वाननिध्वानध्वनिसंरवाः ।रव आरव आरावः संरावो राव इत्यपि ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.21 · p. 251
निनादो निनदो नाद आरावो राव आरवः ।रवो विरावः संरावः, क्ष्वेडा क्ष्वेडित-क्ष्वेलिते ॥ २१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 त (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शब्दाध्यायः Śabdaratnākara 1.7.223 · p. 30
शब्दध्वाननिनादनादनिनदस्वानस्वना निस्वन-ह्रादारावविरावघोषरसंरावारवाश्च ध्वनिः ।निःस्वानोऽपि रणोऽपि च प्रतिनिनादे स्यात्प्रतिश्रुत् स्त्रियांसंभोगे मणितं ध्वनिर्वसनपर्णानां स्वनो मर्मरः ॥ २२३ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शब्दाध्यायः Vaijayantī 2.4.4 · p. 31
रवो विरावः संरावो रुतं चेत्यथ वाशनम् ।वाशितं च तिरश्चां स्याद्ध्वांक्षी स्त्री घोरवाशितम् ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.