कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सामर्थ्य

sāmarthya

In 9 kośas: 0 synonym verses, 6 as a nānārtha head word, 15 as a meaning of another word.

कोषकल्पतरु Koṣakalpataru · विश्वनाथ यान्ताः Koṣakalpataru 6.26.72 · p. 297
आकल्पेऽपि च रङ्गभुव्यतिथिषु त्वातिथ्य उक्तोऽन्तिमेस्यादर्थेऽतिथये सुते दुहितरि प्राज्ञैरपत्यं स्मृतम् ।सामर्थ्यं किल योग्यतातिबलयोर्व्रीहौ पुनः सागरेलौहित्यश्चरमे पुनर्निगदितो ज्ञैर्लोहितत्वार्थकः ॥ ७२ ॥
शार्दूलविक्रीडितम्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नपुंसकलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.3.87 · p. 40
अवस्थानविशेषे च स्थानीयं तु पुरे तथा ।स्थातव्येऽपि महाग्रामे सामर्थ्यं तु बले भवेत् ॥ ८७ ॥
अनुष्टुप्
meaningsबल
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नपुंसकलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.3.88 · p. 40
शक्तिसंज्ञे तथैकार्थ्ये सम्बन्धार्थत्व एव च ।कश्चित्तु योग्यतायां च कथयामास नामवित् ॥ ८८ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश यान्ताः Śabdaratnāvalī 7.26.52 · p. 262
सामर्थ्यं क्लीबलिङ्गं स्याद्योग्यतायां बलेऽपि च ।सौरभ्यमपि चारुत्बे सौगन्ध्ये गुणगौरवे ॥हिरण्यं शातकुम्भे स्यादक्षये मणिभेदके ।रजते रजसि द्रव्ये धनेऽपि च नपुंसकम् ॥हृदयं स्यादुरोवुक्कमानसेषु च न द्वयोः ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2186 · p. 264
संभ्रमोऽत्यादरे भीतौ सायकः शरखड्गयोः ।सामर्थ्ये शक्तिसंबन्धौ समितिर्युद्धसंसदोः ॥ २१८६ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.324 · p. 204
ना शैले सह्यमारोग्ये सामर्थ्यं शक्तियोग्यते ।एकद्व्यादौ विचारे च सङ्ख्या क्लीबे च संयुगे ॥ ३२४ ॥
अनुष्टुप्

सामर्थ्य as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् शक्तिकासूसामर्थ्ययोः शक्तिर्मूर्तिः काठिन्यकाययोः ॥ ६६ ॥ Amarakośa 3.3.66
  • नामलिङ्गानुशासनम् बलस्थौल्यसामर्थ्यसैन्येषु बलं ना काकसीरिणोः । Amarakośa 3.3.367
  • धरणिकोश पराक्रमअनुपमापि दिङ्नागहस्तिनी मातुला च या । पराक्रमश्च सामर्थ्ये विक्रमोद्यमयोरपि ॥ Dharaṇikośa 24.2.20
  • कोषकल्पतरु कल्पतेकल्पते राघते शक्नोत्यपि शक्यति शक्यते । लाघते द्राघते चैते सामर्थ्ये परिकीर्तिताः ॥ ८८ ॥ Koṣakalpataru 3.5.88
  • कोषकल्पतरु उत्उत्स्यात्प्रकाशप्रबलत्वशक्ति[244b] वियोगसामर्थ्यविलङ्घनेषु । अद्धा स्फुटे स्यान्नियमेऽथ नु स्या- त्प्रश्ने वितर्केऽनुनयेऽप्यतीते ॥ १०० ॥ Koṣakalpataru 5.1.100
  • नानार्थार्णवसंक्षेप कल्पविभीतके विकल्पे च संवर्ते ब्रह्मणो दिने । शास्त्रजातिविशेषे च सामर्थ्ये वर्णने तथा ॥ २३ ॥ Nānārthārṇavasaṃkṣepa 2.2.23
  • नानार्थार्णवसंक्षेप शक्तिशर्वाणी तु मृडान्यां स्त्री शक्तिस्त्वृष्यन्तरे पुमान् । स्त्री साङ्ख्यप्रकृतौ लक्ष्म्यां सामर्थ्ये नीतिवेदिनाम् ॥ १३२२ ॥ Nānārthārṇavasaṃkṣepa 2.5.1322
  • परमानन्दीयनाममाला अलम्अलं भूषणसामर्थ्यनिषेधेष्वथ मङ्गले । प्रारम्भकार्त्स्न्ययोः प्रश्नेऽनन्तार्थेऽप्यथो तथा ॥ १५ ॥ Paramānandīyanāmamālā 5.1.15
  • शब्दरत्नावली सहशक्तिर्बलं तरः शौर्यं सहः स्थाम च शुष्म च । शुष्मं पराक्रमप्राणौ सहं सामर्थ्यमात्रके ॥ Śabdaratnāvalī 3.6.372
  • शब्दरत्नावली पराक्रमशाखामृगे पक्षिभेदे मण्डूके च प्लवङ्गमः । सामर्थ्योद्योगनिष्क्रान्तिष्वपि पुंसि पराक्रमः ॥ Śabdaratnāvalī 7.25.48
  • शब्दरत्नावली वीर्यप्रायस्तुल्ये च बाहुल्ये मृत्यावनशनेऽपि च । प्रियो वृद्धौषधे पुंसि हृदये स्यादभिधेयवत् ॥ पीयुर्यूके रवौ काले पुंसि क्लीबं रतस्वने । पुण्यं धर्मे च सुकृते क्लीबं स्याच्छोभने त्रिषु ॥ पुष्यो मासे ऋक्षभेदे तथा कलियुगे पुमान् । पूज्यस्तु श्वशुरे पुंसि वन्द्ये च भवति त्रिषु ॥ वन्ध्या स्यादप्रजस्त्रीषु पुमानफलभूरुहे । वर्या पतिम्बरायां स्त्री श्रेष्ठे त्रिषु पुमान् स्मरे ॥ बल्यं प्रधानधातौ स्यात्क्लीबं बलकरेऽन्यवत् । वीर्यं तेजसि सामर्थ्ये दीप्तौ शुक्रप्रभावयोः ॥ Śabdaratnāvalī 7.26.19
  • शब्दरत्नावली बलबलं सैन्ये गन्धरसे सामर्थ्यस्थौल्यरूपयोः । बला वाहालके ना तु वायसे दैत्यसामयोः ॥ Śabdaratnāvalī 7.28.27
  • शब्दरत्नावली उपअप चौर्ये च निर्देशे विकृतौ च विपर्यये । विनियोगे वर्जनार्थे हर्षापकृष्टयोरपि ॥ अपि सम्भावनाशङ्काप्रश्नगर्हासमुच्चये । कामचारक्रियायुक्तपदार्थे च निगद्यते ॥ उप दाक्षिण्यसामर्थ्यहीवात्मय … । अधिकार्थे समीपे च दाषाख्याननिदर्शने । आश्चर्यकरणे दाने मारणे व्याप्तिलिप्सयोः ॥ उपमारम्भपूजासु भवेदुद्योग इत्यपि । Śabdaratnāvalī 8.1.44
  • शब्दरत्नावली सहआहो प्रश्ने विचारे च उताह प्रश्नचिन्तयोः । सह साकल्य-सामर्थ्य-विद्यमान-समृद्धिषु ॥ सम्बन्धे यौगपद्ये च साहाय्ये च निगद्यते । हीही हास्ये विस्मये च हेहै सम्बोधनाख्ययोः ॥ Śabdaratnāvalī 8.1.66
  • वैजयन्ती हृदयमणौ शीधौ शीधुपाने सरकं मद्यभाजने । सामर्थ्ये शक्तिसंबन्धौ हृदयं तु मनस्यपि ॥ ३८ ॥ Vaijayantī 7.3.38