कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Koṣakalpataru

कोषकल्पतरु Koṣakalpataru

6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)

पातालकाण्डः · धातुवर्गः (4/5)

घोटते परिवृत्तौ स्या[दा]ङ्परः स्वार्थबोधकः ।अर्जने स्यादर्जयति सर्जत्यर्जति चार्जते ॥ ६९ ॥
3.5.69 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द (wrong syllable)
श्रयति श्रयते भज[207b]तेभजति प्रुष्णाति सेवते जुषते ।प्लुष्णाति मर्षति सभा-जयति स्याद्गेवते युषते ॥ ७० ॥
3.5.70 · p. 72
metre not recognised
स्याद्ग्लेवते पेवते च मेवते म्लेवते तथा ।अधेः श्रिञ्पचनारम्भे समः परिचितावुदः ॥ ७१ ॥
3.5.363 · p. 72
अनुष्टुप्
वृद्धिसंजननौन्नत्ये समुदो द्विष्यपि स्मृतः ।प्राद्विनीतो भजिस्त्वाङ उपस्थित्यामुदीरितः ॥ ७२ ॥
3.5.72 · p. 72
अनुष्टुप्
अथोपसेवने भिष्णज्यति वासयतीत्यपि ।तथा लाडयते लाडयति तत्र [प्र]कीर्तितम् ॥ ७३ ॥
3.5.73 · p. 72
अनुष्टुप्
आप्नोतीन्वति वेवेष्टि वेविष्टेऽक्ष्णोति चाक्षति ।वेत्यश्नुते श्लाखति च शाखति व्याप्तिवाचिनः ।********************** प्राप्तौ परिच्छेदे प्रमापणे ॥ ७५ ॥
3.5.75 · p. 72
अनुष्टुप्metre not read in every line
अवसाने समाधाने शक्रत्वे वेः समाक्रमे ।ख्मातौ स्यादविनाभावेऽभेर्वेः सम्मूर्छने भवेत् ॥ ७६ ॥
3.5.76 · p. 73
अनुष्टुप्
प्राद्युक्तावुदये लाभेऽथाक्ष्णौतिरधितः परः ।अधिकारे च सांमुख्ये व्याप्ति-संघातयोरपि ॥ ७७ ॥
3.5.77 · p. 73
अनुष्टुप्
नैकट्येऽत्यभितो श्रोति(?)समाप्तौ व्युच्छति स्मृतम् ।क्रियासमाप्तौ स्यात्पारयति तीरयतीति च[208a] ॥ ७९ ॥
3.5.79 · p. 73
अनुष्टुप्
भवत्यपि च लाभार्थेवेर्लभिर्दानवाचकः ।विप्रात्प्रतारणे प्रोक्तो विरहे प्रत्युपात्परः(?) ॥ ८० ॥
3.5.80 · p. 73
अनुष्टुप्
प्रादुष्कृतौ व्यलीकस्य प्रतेर्विनिमये भवेत् ।उपाद्ज्ञानेच्छयोराप्तौ वधे स्पर्शे तथाङ्परः ॥ ८१ ॥
3.5.81 · p. 73
अनुष्टुप्
विलेपने समाङः स्यादुपाङः स्यात्समाक्षिपि(?) ।प्राद्वञ्चने विन्दतिस्तु सपत्नीलम्भनेऽधितः ॥ ८२ ॥
3.5.82 · p. 73
अनुष्टुप्
पञ्चयति पञ्चते स्यात्तनोति तनुते च विस्तृतौ प्रसते ।प्रात्पञ्चतिः समूहेव्यत्यासे वञ्चने विचारे च ॥ ८३ ॥
3.5.83 · p. 73
metre not recognised
प्रभूतभावे संभूयस्यति तद्वत्समीरितम् ।वितानयत्याञ्छति स्यादायामे वितनोत्यपि ॥व्यायामे स्याद्व्याप्रियते गहने निलति स्मृतम् ।अल्पीभावे लिश्यते स्यात्तथा चुण्टति लिट्यति ॥ ८४ ॥
3.5.84 · p. 73
अनुष्टुप्
तद्वच्चुट्टयति प्रोक्तं बुधैः पुट्टयतीति च ।स्याद्वर्षयते शक्तिसंबन्धेऽगद्यति त्विह ॥
3.5.375 · p. 73
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 स्या (syllables merged)
नैरोग्येऽथ बले प्राहुरुरस्यति मनीषिणः ।घटते चेष्टते त्रन्दतीहते चेष्टनार्थ[208b]काः ॥ ८६ ॥
3.5.86 · p. 73
अनुष्टुप्metre not read in every line
समो घटिः स्यात्संयोगे वेर्विश्लेष उदीरितः ।छदयत्यूर्जयत्युक्तं बलवत्करणार्थकम् ॥ ८७ ॥
3.5.87 · p. 74
अनुष्टुप्
कल्पते राघते शक्नोत्यपि शक्यति शक्यते ।लाघते द्राघते चैते सामर्थ्ये परिकीर्तिताः ॥ ८८ ॥
3.5.88 · p. 74
अनुष्टुप्
समः कृपिर्मनःकृत्यां वेर्नानात्वे च संशये ।पाक्षिकत्वेऽनोस्तु गौण्ये प्रतेरपि परेः पुनः ॥ ८९ ॥
3.5.89 · p. 74
अनुष्टुप्
विवर्तने ज्ञानशक्त्योराङः कल्पनभूषयोः ।उत्कण्ठायां प्रमोदे च श्रद्धायां त्ववतः परः ॥ ९० ॥
3.5.90 · p. 74
अनुष्टुप्
उदो लाघिस्तथारोग्ये तथा दक्षत्वहर्षयोः ।शोचे ण्यन्तस्तूद एष पर्यये परिकीर्तितः ॥ ९१ ॥
3.5.91 · p. 74
अनुष्टुप्
अथ सत्रयते संतानक्रियायां प्रकीर्तितम् ।वपते बीजसंताने वपतीत्यपि कीर्तितम् ॥ ९२ ॥
3.5.92 · p. 74
अनुष्टुप्
पितृकृत्यां नेर्वपिः स्याद्दानेऽधिश्रयणे निरः ।प्रतेः प्रक्षेपणे मुण्डीकृत्यां परिवृतावपेः ॥ ९३ ॥
3.5.93 · p. 74
अनुष्टुप्
आङो न्यासे भाण्डपाकेऽथावात्प्रतिविधौ मतः ।निष्कुलाकरणे तु स्यान्निष्कुष्णाति बलूलति ॥विष्कभ्नोति तथा विष्कभ्नाति चात्र प्र[209a]कीर्तितम् ।ऊयते सीव्यति वयत्यत्र स्याद्वयतेऽपि च ॥ ९४ ॥
3.5.94 · p. 74
अनुष्टुप्metre not read in every line
एते स्युस्तन्तुसंताने तक्ष्णोति तु तनूकृतौ ।श्यति कृश्यति च त्वक्षत्यपि च शीयते शदिः ॥
3.5.385 · p. 74
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
शित्प्रत्यये ** तङ्वान्कथ्यतेऽत्राथ पोलति ॥ ९५ ॥
3.5.95 · p. 74
महत्त्वे [स्या]त्पोलयति वृणीते त्वमतीति च ।अनति स्यात्सनति च संभक्त्य*जनार्थकाः ॥ ९६ ॥
3.5.96 · p. 74
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अपादाच्छादने वृञ् स्यादपाङस्त्वनधीनके ।निरः सुखे च सौस्थ्ये चास्तं गतावाङ्परो वृतौ ॥
3.5.388 · p. 74
अनुष्टुप्
समः परः स संवृत्यां वशनेऽदर्शनेऽपि सः ॥ ९७ ॥
3.5.97 · p. 75
त्वचति ह्रगति ह्लगति स्थगतिद्वरति क्षदति थुडति स्थुडति ।चुडति व्रुडति च्छुडति* भवे-दपि चीवति गूहति खट्टयति ॥ ९८ ॥
3.5.98 · p. 75
metre not recognisednearly तोटकम्: pāda 2, syllable 6 ति (wrong syllable)
चीवते झषति प्रोक्तं झषते सगतीति च ।गूहते किंच सिलति बिलत्यपि खुडत्यपि ॥ ९९ ॥
3.5.99 · p. 75
अनुष्टुप्
छादयति च्छादयतेछदति च्छदते च जालयति ।लाजयति वल्लते स्या-द्वलते शलते च कुम्बयति ॥ ४०० ॥
3.5.400 · p. 75
metre not recognised
लुडति च कुम्बति कुम्भतिसंवरणे कुम्भयत्यु[209b]दिताः ॥
3.5.393 · p. 75
metre not recognised
गूहतिरुपतो गुप्ता-वाश्लेषे चेति [कथि] तो विज्ञैः ॥ १ ॥
3.5.1 · p. 75
metre not recognised
आङश्छादिः परीघानेअपनीत्याममी प्रोक्ता लुञ्चत्योणति च हुते ॥ २ ॥
3.5.2 · p. 75
metre not recognised
नितो ह्नुतिरविश्वास-वैकृतस्तेयवाचकः ।अपात्प्रेम्ण्यपलापे च निष्पाके क्वथतीरितम् ॥ ३ ॥
3.5.3 · p. 75
अनुष्टुप्
ऋञ्जते भर्जते लञ्जत्यपि भृज्जति भृज्जते ।भर्जने पचते तु स्यात्पचति श्राति शायति ॥ ४ ॥
3.5.4 · p. 75
अनुष्टुप्
श्रीणाति श्रायति पचौ रध्यति श्रपयत्यपि ।विपरिभ्यां परीणामे दुर्गत्यां नेर्वमिक्विदौः ? ॥ ५ ॥
3.5.5 · p. 75
अनुष्टुप्
उदो नाशे समोऽर्थित्वे निरोऽतिपचने पचिः ।गिरति स्याद्गिलति च द्वयं निगरणे मतम् ॥ ६ ॥
3.5.6 · p. 75
अनुष्टुप्
अनोर्निगरणेऽथोदो गिरतिस्तद्विपर्यये ।समः संवित्प्रतिज्ञाजिविपत्सु परिकीर्तितः ।समोऽभ्युपगमे तङ्वानवादपि परस्तथा ॥ ७ ॥
3.5.7 · p. 76
अनुष्टुप्
उत्क्लेशे दृम्फति प्रोक्तं दृपत्यपि दृफत्यपि ।ष्ठीवति ष्ठीव्यति तथा क्षीबति क्षेबतीति च ॥ ९ ॥
3.5.9 · p. 76
अनुष्टुप्
स्रस्यत्यपि च निष्ठेवे जुगुप्सायां जुगुप्सते ।बीभत्सते यावयते त[210a]था जावयतेऽपि च ॥ १० ॥
3.5.10 · p. 76
अनुष्टुप्metre not read in every line
ऋतीयते चिकित्सायां भिषज्यति चिकित्सते ।वमति च्छर्दति स्नुह्यत्युद्गारे छर्दयत्यपि ॥ ८ ॥
3.5.8 · p. 76
अनुष्टुप्
उदो वमिर्हस्तिमदाभाव ऊर्ध्वगतावपि ।मस्यति स्यात्सम्यति च परिणामेऽथ मिश्रणे ॥ ९ ॥
3.5.9 · p. 76
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्स (wrong syllable)
यौति भावयतीति स्यात्कल्पयत्यपि कीर्तितम् ।समः संबन्धनिर्मित्योर्यौतिर्विश्लेषणे वितः ॥ १२ ॥
3.5.12 · p. 76
अनुष्टुप्
अमिश्रणेऽमिश्रयति यौति चापि प्रकीर्तितम् ।विप्रयोगे तु विष्णाति रेचयत्यपि रेचति ॥ १३ ॥
3.5.13 · p. 76
अनुष्टुप्
संसृज्यते सृजति कुस्यति संपृणक्तिपृङ्क्ते लगत्यवति साम्बयते लिनाति ।स्याल्लीयते लसति साम्बयतीह तद्व-त्स्याच्छंपंचघपि( ? )सङ्ग एते ॥ १४ ॥
3.5.14 · p. 76
वसन्ततिलकाmetre not read in every line
श्लेष[य]ति [श्लेषयते]पुटति पुटयते सम्बयत्यपि च ।शम्बयते मोदयति ।स्पशयत उक्तं लुठत्यपि प्राग्वत् ॥ १५ ॥
3.5.15 · p. 76
metre not recognised
सृज्यतिः सृजतिश्चाङो विशेषे त्यागदानयोः ।विसर्जनीये संप्रेषेऽतेर्दाने हिंसनेच्छयोः ॥ १६ ॥
3.5.16 · p. 76
अनुष्टुप्
अनुज्ञास्पृहयोर्गत्यामुपात्स्मृत्यामुप[210b]द्रवे ।उत्पाते रुजि च प्रादो भेदे विघ्ने प्रधानके ॥ १७ ॥
3.5.17 · p. 77
अनुष्टुप्metre not read in every line
उदः सामान्यहान्योः स्यादपात्स्याद्दानवर्जने ।न्यासस्वभावयोर्नेस्तावनुज्ञानेऽन्ववद्वयात् ॥ १८ ॥
3.5.18 · p. 77
अनुष्टुप्
अवादाज्ञापने च्युत्यां व्यवाभ्यां प्रतितः पुनः ।प्रैषे वृद्धौ निराकृत्यां संहृतौ शोधते पुनः ॥ १९ ॥
3.5.19 · p. 77
अनुष्टुप्
सांकीर्ण्ये सहभावे च संपरौ तावुपक्रमे ।अधेः परस्थितावेतौ संताने परिकीर्तितौ ॥ २० ॥
3.5.20 · p. 77
अनुष्टुप्
लिपौ तु वेर्द्रवे नाशे प्राच्चेष्टानाशमृत्युषु ।अतेः प्राच्च तिरोभूतौ नेराङश्च गृदे मृतौ ॥ २१ ॥
3.5.21 · p. 77
अनुष्टुप्
सम्माननेऽपि शालीनीकरणे वञ्चने च तौ ।आत्वभाजौ णिचि प्रोक्तावात्मनेपदिनावपि ॥ २२ ॥
3.5.22 · p. 77
अनुष्टुप्
संनिधाने संनिधत्ते तथा नेदति नेदते ।स्यात्परिष्वजते श्लिष्यत्यालिङ्गति च कीर्तितम् ॥ २१ ॥
3.5.21 · p. 77
अनुष्टुप्
आलिङ्गते श्लिष्यतिस्तु वेर्विश्लेष उदीरितः ।चुम्बति स्यान्निक्षति च निंस्ते चुम्बनवाचकाः ॥ २२ ॥
3.5.22 · p. 77
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 न्नि (wrong syllable)
सहे रतौ नितश्चुम्बिः स्विद्यति त्वङ्गवाःक्षरे ।स्याद्रज्यते रज्यति च रजते रजतीति च ॥ २३ ॥
3.5.23 · p. 77
अनुष्टुप्
रागेऽनु[211a]तस्त्विमौ प्रोक्ता **** वुपात्पुनः ।छायाया(?)परिवादे च व्यसने च सुदुर्नये ॥ २४ ॥
3.5.24 · p. 77
अनुष्टुप्metre not read in every line
व्यपाभ्यां रागविच्छेदेऽथ व्रीडति हृणीयते ।हृणीयति च जिह्रेति ह्रीच्छति स्याच्च लज्जते ॥ २५ ॥
3.5.25 · p. 77
अनुष्टुप्
त्रपते लजते प्रोक्ता लजतिस्तु परापरः ।निर्वेदे परतस्तुल्या लज्जायामपतस्त्रपिः ॥
3.5.421 · p. 77
अनुष्टुप्
शेते स्वपिति निद्रातीलति लेट्यति लोट्यति ॥ २६ ॥
3.5.26 · p. 77
वेद्यति स्यात्संविशति स्वप्ने साम्ये तु शीङुपात् ।व्युपात्क्रमेण सुप्तौ स्याद्विमोहे तु स संपरः ॥ २४ ॥
3.5.24 · p. 77
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्सं (wrong syllable)
अनुतापेऽनुबन्धेऽनोर्द्वेषेऽधेस्तूपरिस्थितौ ।सुप्तावाङस्त्व * धाराशययोरतितः पुनः ॥ २५ ॥
3.5.25 · p. 78
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
प्रकर्षेऽथ च निद्रान्ते जागर्ति प्रतिबुध्यते ।बोधते बोधति तथाऽवेक्षणे तु प्रतेर्भवेत् ॥ २६ ॥
3.5.26 · p. 78
अनुष्टुप्
जागर्तिः प्रत्यवाभ्यां तु बुधिः स्यादनुबन्धने ।व्युद्भ्यां भासि प्रतेः प्राच्च निद्रानाशेऽनुतस्तु सः ॥ २७ ॥
3.5.27 · p. 78
अनुष्टुप्
पत्रवल्लीविनिर्माणेऽथोद्यमेऽडति गूर्वति ।गुरते स्याद्गूरयते वृहत्यपि च कीर्तितम् ॥ २८ ॥
3.5.28 · p. 78
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्गू (wrong syllable)
अतेर्गुरिः प्रतिज्ञाया[211b]माशृणोति मुणत्यपि ।प्रतिजानात्यागुरते प्रतिज्ञायाममी मताः ॥ २९ ॥
3.5.29 · p. 78
metre not recognised
ग्रथ्नाति ग्रन्थति ग्रन्थयति * श्रन्थयत्यपि ।श्रन्थति स्याद्गुफति च गुम्फत्यपि दृभत्यपि ॥ ३० ॥
3.5.30 · p. 78
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
दर्भति स्याद्दर्भयति तथा पटयतीति च ।ग्रथने स्याद्वटयति चृतत्यपि समीरितम् ॥ ३१ ॥
3.5.31 · p. 78
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्द (wrong syllable)
निरो ग्रन्थिर्मारणेऽथ स्कन्दत्योखति राखति ।लाखति द्राखति तथा शुण्ठयत्यपि शुष्यति ॥ ३२ ॥
3.5.32 · p. 78
अनुष्टुप्
शुण्ठति स्रीव्यति तथा स्यात्पायति च शोषणे ।परेः स्कन्दिः सेवने स्यात्परातः स्तेयकर्मणि ॥ ३३ ॥
3.5.33 · p. 78
अनुष्टुप्
आङो हयगतौ शोषे तिरस्कारे च संगरे ।अभ्यवाभ्यामवाच्चैष रोधने परिकीर्तितः ॥ ३४ ॥
3.5.34 · p. 78
अनुष्टुप्
रुन्धे रुणद्ध्यावृणोति पीलत्यपि च वर्जति ।कूलति स्याद्वारयति रोधे वरति तुत्थति ॥ ३५ ॥
3.5.35 · p. 78
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 द्वा (wrong syllable)
अनो रुधिर्भवेद्युक्तावुपाद्दाक्षिण्यरोधयोः ।प्रतेश्चौर्येऽवतोऽन्तर्धौ निर्नाशे वेर्विरोधने ॥
3.5.435 · p. 78
अनुष्टुप्
कूलिः प्रतेः प्रतीपत्वेऽथानुतः सान्त्वने मतः ।स्यात्कामदाने श्रेष्ठे प्रा[212a]दपात्तु व्यवधौ वृतिः ॥ ३७ ॥
3.5.37 · p. 78
अनुष्टुप्metre not read in every line
अलति प्रोथते त्रासयति प्रोथति वारणे ।अथासर्वोपयोगे स्याच्छेषयत्यपि शेषति ॥ ३८ ॥
3.5.38 · p. 79
अनुष्टुप्
हरते स्याद्धरति च हुण्डते हरणे मताः ।हरतिर्गतिताच्छील्ये भवति त्वात्मनेपदी ।हृञभ्यवाभ्यां भुक्तौ स्याद्वेः केलिर्भ्रमणार्थकः ॥ ३७ ॥
3.5.37 · p. 79
अनुष्टुप्
अवाच्चौर्योपसंहत्योर्हतिनीत्योर्व्यवात्पुनः ।चेष्टा ? विवादयोः संव्यवेभ्योऽसौ सर्वतोभवे ॥ ३८ ॥
3.5.38 · p. 79
अनुष्टुप्
आङ आकृष्टिभुक्त्योः स्यादुक्तो व्याङभितः परः ।व्याङश्चाथोदाङ एष संनिदर्शनवाचकः ॥ ३९ ॥
3.5.39 · p. 79
अनुष्टुप्
प्रत्युदः प्रतिदृष्टान्ते समाङः संग्रहे प्रतः ।वारणेऽध्याङ ऊहेऽपाच्चौर्यापचयकर्मणि ॥ ४० ॥
3.5.40 · p. 79
अनुष्टुप्
प्रत्याङः स उपादाने संक्षेपे श्राद्धसे ? परेः ।वर्जने प्राद्युद्धहिंसागतौ स्यात्संवृतौ समः ॥ ४१ ॥
3.5.41 · p. 79
अनुष्टुप्
संक्षेपे मारणेऽथोपादुपदायामभेर्मुषि ।अभियोगे संनहने पराभूतौ निरो बहिः ॥ ४२ ॥
3.5.42 · p. 79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सं (wrong syllable)
कृतावनोः सपानत्व उद ऊर्ध्वहृतावृणे ।मूलितोन्मूलयोश्चाथ वि[212b]कृतौ दुष्यति स्मृतम् ॥ ४३ ॥
3.5.43 · p. 79
अनुष्टुप्metre not read in every line
मुष्णाति मूषति चुरण्यति रुण्टति स्या-त्तिक्नोति चोरयति चोरयते च तद्वत् ।स्याल्लुण्ठयत्यपि च लुण्ठयते तथात्रतिक्नोति रुण्डति च रुण्ठति लुण्ठतीति ॥ ४४ ॥
3.5.44 · p. 79
वसन्ततिलका
ग्रोचति ग्लोचति तथा स्तिघ्नुते स्तेनयत्यपि ।लुण्टति स्याद्रुण्डयति लुण्डत्यपि च चोर्जति ॥ ४५ ॥
3.5.45 · p. 79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्रु (wrong syllable)
तिग्नोति कोजतीत्युक्ताश्चौर्येऽथोषति कर्जति ।शण्डते स्याच्चुक्कयति तुदते चक्कयत्यपि ॥ ४६ ॥
3.5.46 · p. 80
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च्चु (wrong syllable)
तुदति व्यथते चैते व्यथनार्था अमी मताः ।आङ्परस्तुदतिर्वाद्यनिनादे परिकीर्तितः ॥ ४७ ॥
3.5.47 · p. 80
अनुष्टुप्
स्याद्रुजाकरणे तद्वज्ज्वरत्यपि च शूलति ।गन्धने वाति नलति द्वयमेतदुदाहृतम् ॥ ४८ ॥
3.5.48 · p. 80
अनुष्टुप्
पूयते कुथ्यति प्रोक्तं द्वयं दुर्गन्धवाचकम् ।स्फोटति द्राडते प्रोक्तं ध्राडते शटतीत्यपि ॥ ४८ ॥
3.5.48 · p. 80
अनुष्टुप्
पूयते स्याद्दलति च सीदत्यपि च शीयते ।फलति स्याद्विशरणे लाभे सीदतिराङ्परः ॥ ४९ ॥
3.5.49 · p. 80
अनुष्टुप्
विकासे स्फोटते फुल्लत्यपि स्फुटति पुष्प्यति ।[213a]कुचति स्याद्यन्त्रयति तथा यन्त्रयते मतम् ॥ ५० ॥
3.5.50 · p. 80
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्य (wrong syllable)
चूर्णायते चूर्णयतिस्यात्कूणयते तथा च कूणयति ।संकोचेऽथोन्मीलतिपक्ष्मोन्मेषे तथोन्मिषति ॥ ५१ ॥
3.5.51 · p. 80
metre not recognised
मीलति स्याच्छ्मीलति च स्मीलति क्ष्मीलतीत्यपि ।निमेषणे काणयति तथात्र निमिषत्यपि ॥ ५२ ॥
3.5.52 · p. 80
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च्छ्मी (wrong syllable)
ध्रुवति स्यात्खदति विध्रवत्यपि बदत्यपि ।स्थैर्येऽथ स्खलने प्रोक्तं लेखायति च लेख्यति ॥ ५३ ॥
3.5.53 · p. 80
अनुष्टुप्
चेष्टते स्याद्गुण्डयते गुण्डयत्यपि गुण्डति ।अवकुण्ठयते चावकुण्ठयत्यवकुण्ठति ॥ ५४ ॥
3.5.54 · p. 80
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्गु (wrong syllable)
अवगुण्ठयतिस्तावत्यवहेडति गुध्यति ।मगध्यति कृणत्ति स्यात्सूत्रयत्यपि च स्मृतम् ॥ ५५ ॥
3.5.55 · p. 80
अनुष्टुप्
मुरति स्याद्यमयते यमयत्यपि वेष्टने ।स्तायतिः स्त्यायतिश्चोभौ समः शब्दसमूहयोः ॥समूहने संनिवेशे विसरे च प्रकीर्तितौ ।पिण्डति स्यात्पिण्डयति पिण्डते हुण्डतेऽश्नुते ॥ ५६ ॥
3.5.56 · p. 81
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 त्पि (wrong syllable)
गोष्टते स्याल्लोष्टते च श्रोणति श्लोणति स्मृतम् ।ओडत्योपयते डेपयते घातयतीति च ॥ ५७ ॥
3.5.57 · p. 81
अनुष्टुप्
[213b]वक्षति मक्षति मृक्षतिपूलति संहन्ति पूलयत्यपि च ।पूर्णयति पोणयति चस्त्यायति कोलति च मुस्तयति ॥ ५८ ॥
3.5.58 · p. 81
metre not recognised
जटति झटति पेटतिचौडति संघाते समुद्दिष्टाः ।व्याङो व्यग्रे हि कुलिःसमाङ्परः स्यात्स सांकीर्ण्ये ॥ ५९ ॥
3.5.59 · p. 81
metre not recognised
कलयति कलते गणयतिसंख्यानेऽथोद औत्कण्ठ्ये ।कलिरुक्तोऽथ णिजन्तःक्षिप्युक्तोऽवाद्गणिः पराभूतौ ॥ ६० ॥
3.5.60 · p. 81
metre not recognised
शुल्बयति माति मिमीतेशुल्बयते मायते किं च ।माहति शूर्पयते स्या-न्निष्कयते माहते माने ॥ ६१ ॥
3.5.61 · p. 81
metre not recognised
उन्माने तोलयतेतोलयति स्यान्नितः पुनर्मातिः ।परिवर्ते प्रत्युपतःसादृश्ये प्रादृते ज्ञाने ॥ ६२ ॥
3.5.62 · p. 81
metre not recognised
उद ऊर्ध्वेऽपि च मानेऽनोरुत्प्रेक्षे निरः कृतौ युक्तौ ।वञ्चयते गर्धयते ।प्रलभत एवं प्रतारयति ॥ ६३ ॥
3.5.63 · p. 82
metre not recognised
वेविक्ते वेवेक्तिव्युष्यति वण्टति च वण्डते तद्वत् ।वटयति विभजति वण्डतिवण्टयते मण्डते किं च ॥ ६४ ॥
3.5.64 · p. 82
metre not recognised
वण्टयति वण्डयति चस्मृता विभागे वण्डयते ।युङ्गति जुङ्गति वृक्तेवृणक्ति वर्जति च व[214a]र्जयति ॥ ६५ ॥
3.5.65 · p. 82
metre not recognised
स्युर्वर्जनेऽपात्तु वृजिर्दानमोक्षक्रियाक्षये ।साफल्य आङस्त्वानत्यां परेर्मृत्यां प्रकीर्तितः ॥ ६६ ॥
3.5.66 · p. 82
अनुष्टुप्
पिपर्ति पूर्वति प्राति पर्वत्यपि च मर्वति ।प्रुष्णाति च पृणाति स्यादुभत्युम्भति पूरति ॥ ६७ ॥
3.5.67 · p. 82
अनुष्टुप्
परति स्यात्पारयति भवेत्पारयतेऽपि च ।स्याच्च तूणयते वर्धयति प्लुष्णाति पूरणे ॥ ६८ ॥
3.5.68 · p. 82
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्पा (wrong syllable)
वृणोति वृणुते वृश्यत्यपि व्रीणाति वृक्षते ।व्रीयते वृत्यते तद्वद्वृणीते च वृणाति च ॥ ६९ ॥
3.5.69 · p. 82
अनुष्टुप्
व्लिनात्यपि स्याद्वरणेऽथैकचारे हि वण्ठते ।आमन्त्रणे कुणयति गुणयत्यपि सम्मतम् ॥ ७० ॥
3.5.70 · p. 82
अनुष्टुप्
तथा कूणयति ग्रामयति संकेतयत्यपि ।पिङ्क्तेऽवयौति सटति स्याद्बिन्दति च पिंशति ॥स्याद्भिन्दत्यप्यवयवे संस्करोति तु चोच्यति ।उपस्करोति सचते समवैति सचत्यपि ॥ ७२ ॥
3.5.72 · p. 82
अनुष्टुप्
समवाये च सपति स्यात्सामयति सान्त्वने ।चपति स्यात्सान्त्वयते सान्त्वयत्यपि कीर्तितम् ॥ ७३ ॥
3.5.73 · p. 83
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्सा (wrong syllable)
जलति क्ष्णौति [च]शिनुतेशिनोति शीशांसते [214b] च तेजयति ।शीशांसत्यपि तैक्ष्ण्येतङ्वा क्ष्णौतेः समः कथितः ॥ ७४ ॥
3.5.74 · p. 83
metre not recognised
चिनोति चिनुते चापयति चित्यां चयत्यपि ।समश्चिनोति-चियती संघनिर्माणयोर्मतौ ॥
3.5.476 · p. 83
अनुष्टुप्
संघे नेरुद उद्धृत्यामाङ आच्छाद-संचये ।सामन्त्ये परितो वेस्तु गवेषेऽवात्तु तौ ग्रहे ॥ ७६ ॥
3.5.76 · p. 83
अनुष्टुप्
अपाद्ध्रासे व्यये शुद्धौ परिच्छेदे निरो मतौ ।उपात्समृद्धौ लेपे च समाधाने प्रतस्तु तौ ॥ ७७ ॥
3.5.77 · p. 83
अनुष्टुप्
समृद्धौ पवने तु स्यात्पवते च पुनात्यपि ।पुनीते स्याच्च पल्पूलयते पल्पूलयत्यपि ॥ ७८ ॥
3.5.78 · p. 83
अनुष्टुप्
खलति स्यात्संचयेऽथ शैथिल्ये कत्रयत्यपि ।स्याच्छ्रथते कर्तयति तत्र चिल्लति च स्मृतम् ॥राभस्ये रभते प्रोक्तं रभिः क्रुध्यादरे समः ।आङस्त्वरोपक्रमयोरुद्यमे वध-दर्पयोः ॥ ७९ ॥
3.5.79 · p. 83
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 2 च्छ्र (wrong syllable)