कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

हस्तसूत्र

hastasūtraक्ली · neut.

In 10 kośas: 7 synonym verses, 8 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.663 · p. 28
केयूरमङ्गदं बाहुभूषाथ करभूषणम् ॥ ६६२ ॥कटको वलयं पारिहार्यावापौ तु कङ्कणम् ।हस्तसूत्रं प्रतिसर ऊर्मिका त्वङ्गुलीयकम् ॥ ६६३ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.558 · p. 63
कङ्कणं हस्तसूत्रं च विदुः प्रतिसरं बुधाः ।ग्रीवालङ्करणं सर्वं ग्रैवेयकमितीष्यते ॥ ५५८ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.79 · p. 226
आवापः कङ्कणश्चैव बालकः करभूषणम् ।हस्तसूत्रं प्रतिसरस्त्रिषु रात्नं तु पुष्पकम् ॥ ७९ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.310 · p. 140
कङ्कणं कटकः पारिहार्यो वलयमेव च ।अवापो हस्तसूत्रं चोर्मिका स्यादङ्गुलीयकम् ॥ ३१० ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1075 · p. 166
कङ्कणं हस्तसूत्रं च कटकः करभूषणम् ।वलयं चेति नामानि वदन्ति विबुधाः सदा ॥ १०७५ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1234 · p. 151
हस्तसूत्रं प्रतिसरो दायो हरणयौतके ।विगतान्यानुरक्ता स्यान्नष्टा तु स्पृष्टमैथुना ॥ १२३४ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.59 · p. 87
सैव वन्दनमालापि कुहलिः पूगपुष्पिका ।हस्तसूत्रं प्रतिसरस्तद्बन्धे हस्तकोहलिः ॥ ५९ ॥
अनुष्टुप्
genderक्लीneut.

हस्तसूत्र as a meaning in nānārtha verses